________________
१०६
पं. श्रीप्रतापविजयविरचितः
नमोऽस्त्वन्तिमदेवाय, विश्वचिन्ताविनाशिने । अर्हते कृतकृत्याय, प्रत्यूहौघनिवारिणे ॥६४॥ सिद्धार्थान्वयदीपाय, श्रीवाणीगुणशालिने । नमः श्रीवर्धमानाय, सूत्राममहितांहये ॥६५॥ श्रीमते जितकामाय, सर्वसम्पत्तिसद्मने । तस्मै नमोऽस्तु वीराय, द्विधाधर्मोपदेशिने ॥६६।। नमोऽस्तु वीरदेवाय, सर्वसिद्धिप्रदायिने । आधिव्याधिविघाताय, संसारभयभेदिने ॥६७|| स्याद्वाददेशिने नित्यं, सिद्धाय शान्तिसिन्धवे । तस्मै विलीनमोहाय, श्रीवीराय नमो नमः ॥६८।। यदि भवाब्धिसमुत्तरणस्पृहा, यदि जनुःसफलीकरणीयता । त्रिविधतापनिराकरणक्षमं, जिनपदं सततं भजतां तदा ॥६९।। एतत् स्तोत्रं सदा ध्येयं, भव्यैः सर्वहितावहम् । शाकिनीडाकिनीघोर-भयध्वंसक्षमं सताम् ॥७०।। पठतां श्रीमतां पाणा-वेतत् स्तोत्रं सदैव च । जिनानुयायिनां सिद्धि-पद्माऽऽयास्यति शाश्वता ॥७१।।
BOR