________________
नूतनस्तोत्रसङ्ग्रहः
१०५
सर्वप्राणिषु सङ्काश-दृष्टिः सद्धर्मदेशनः । जगदानन्दनोऽनन्तः, कन्दर्पाकम्पितोऽतमाः ॥४७॥ पद्मास्यः पद्मदृग्द्वन्द्वः, पद्मकोमलविग्रहः । पद्मपाणिपदः पद्मा-वासः पद्माकरो धियाम् ॥४८॥ शमी देवाधिदेवोऽयं, दम्भालक्षितमानसः । दाता मङ्गलकोटीनां, निश्चलः सानुमानिव ॥४९।। निष्पङ्को यस्य सिद्धान्तो, निष्पक्षं यस्य वर्तनम् । पीयूषमधुरब्राह्म्या, येनाऽपावि जगत्रयम् ॥५०॥ मोक्षारोहणसोपान-स्त्रिलोकीतिलकोऽतुलः । स्फीतप्रेक्षो निराकाङ्क्षो, धर्ममार्गप्रदीपकः ॥५१।। त्रिदशनायकमस्तकशेखरै-रभिनतः कृतकामपराजयः । निखिलसंशयभेदनपाटवो, दलितदुर्गतिरर्त्तिविनाशकः ॥५२॥ कुमतिशासनपादपकुञ्जरो-ऽभिमतपूरणनिर्जरपादपः । विशदकेवलदर्पणलोकिता-खिलपदार्थगणो गुणभूषितः ॥५३॥ भविकपङ्कजबालदिवाकरो, जिनपतिर्हतसर्वतमोव्रजः । विपुलकीर्तियुतो जगदीश्वरो, गतमदोऽखिललोकसमर्चितः ॥५४।। विशदबोधविधानपरायणः, प्रशममञ्जुलयूषमहोदधिः । सकलदुर्जयकल्मषसंहरो, भुवनकुन्दविकाशनचन्द्रमाः ॥५५।। करणचञ्चलघोटकरोधकः, प्रमितभाषणभूषणभूषितः । कुशलपादपपल्लवनाम्बुदो, विगतजन्मजरामरणादिकः ॥५६।। भवसमुद्रतरिविगतस्पृहः, स्वबलनिर्जितमोहमहीश्वरः । अनघतीर्थपतिः सुकलागृहं, कपटकुम्भविपाटनमुद्गरः ॥५७।। अतुलशर्मविधानसुकौशलो, दमितसर्वविरोधिजनोत्करः । जनितजन्तुमहोपकृतिः सदा, त्रिदशकोटिसमर्चितविग्रहः ॥५८॥ नयगृहं शुभधर्मविबोधकः, शरणदो भवभीतनृणां दमी । विषयितोपरतो विरतो भवाद्, विततभावुकवारिधिरीश्वरः ॥५९।। अतिशयाद्भुतभूषणसंयुतो, विलसितो वचनाग्यगुणैविभुः । कलुषशातनशासनसङ्गतिः, सितयशा हितदो महसांनिधिः ॥६०॥ दलितसर्वकुवादिमदोऽगदो, महिममन्दिरमीहितदायकः । सकलदोषविनिर्गमनोद्भवा-ऽक्षयपदो जिनमौलिशिरोमणिः ॥६१।। कठिनकर्मकलापविभञ्जनः, स भुवि विश्रुतशुभ्रयशा जिनः । अखिलविद् वरबोधिविधायक-श्चरमतीर्थपतिर्जयतात् सदा ॥६२।। जय जिनेन्द्र ! सदाऽन्तिमतीर्थप!, त्रिदशवन्दित ! भव्यतराकृते ! । त्वमघघातक! पावितविष्टपा-ऽमरनरासुरबहिपयोधर ! ॥६३।।