________________
नूतनस्तोत्रसङ्ग्रहः
सद्वैद्यकर्महृतये कृतधर्मबोधः, कोलाङ्कितांहिकमलोऽशुभकर्मनाशः । शान्ताकृतिः सुरवरार्चितपादपीठो, देवः स पातु भविनः कृतवर्मसूनुः ॥१३।। विश्वोपकारकरणाय सदा प्रवृत्ताः, श्रीसिंहसेनधरणीपतिदिव्यसूनोः ।। वाचो जयन्ति सुतरां कृतिपीयमाना, भव्याङ्गिसंहतिमनोमलवारितुल्याः ॥१४॥ कल्पद्रुमप्रतिममीहितवस्तुदाने, वज्राङ्कभूषितपदं सुरराजवन्द्यम् । पादाब्जसंस्पृशि सुरे च जने समानं, वीतस्पृहं प्रणिदधे जिनधर्मनाथम् ॥१५॥ ज्योतिर्मयं शिवमयं विजितस्मरारिं, पीयूषसोदरगिरा मुदिताङ्गिवृन्दम् । श्रीसार्वभौमपदवीकलितं निरीशं, तीर्थंकरं प्रणिदधे जिनशान्तिनाथम् ॥१६।। सम्पत्तिकारणमनन्तमनन्तपुण्यं, संसारसंसृतिभिदं महनीयवीर्यम् । भावावभाससवितारमुपाधिशून्यं, तन्नौमि कुन्थुममरासुरपूज्यपादम् ॥१७।। आविष्करोतु भगवानरनाथदेवो, मेऽज्ञानताकुरचना हि विधाय दूरम् । क्रोधादितस्करहृतत्रिकरत्नकस्य, रत्नत्रयस्य सुतरां हृदये प्रकाशम् ॥१८॥ दुष्कर्मपङ्कपरिशोषणचण्डभानु, वृन्दारकासुरनृपाक्षचकोरचन्द्रम् । येनाऽऽहिता स्वहदि केवलपुण्यमाला, तं नौमि मल्लिमभयं सुकृतैकहेतुम् ॥१९॥ विध्वस्तदोषहरिवंशसमुद्रचन्द्र, जाग्रत्प्रतापमचलं भुवनैकदीपम् । सत्कच्छपाङ्ककलितं जितशत्रुसेनं, भक्त्या स्तवीमि मुनिसुव्रतनामधेयम् ।२०।। नीलोत्पलाङ्ककलितांहिसरोजयुग्मा-ऽनेकान्तवादमतवारिधिवृद्धिचन्द्र! । देवासुराधिपमयूरनवीनमेघ!, मद्वाञ्छनां नमिपते ! परिपूरयाऽरम् ॥२१॥ अर्हन्तमिन्द्रमहितं विहितोपकारं, दुर्जेयमारपरिवर्जितचित्तवृत्तिम् ।। त्रैलोक्यकामितविधायिनमाप्तमुख्यं, नेमिं नमामि नितरां यदुवंशदीपम् ॥२२॥ सम्मेतशैलशिखरे नभसोऽच्छपक्षा-ऽष्टम्यामदोषचरितः शिवमाप यो हि । सम्बोधयन् भविजनान् नितरां तमीडे, श्रीपार्श्वनाथमचलं कमठोपसर्गः ॥२३॥ पीता भवेषु कटुगीर्मयकाऽधमानां, तस्मान्ममाऽक्षयगतिः किल दुर्लभैव । पुण्यात् तथापि तव तीर्थमथाऽत्र लब्ध्वा, मन्येऽहमन्तिमजिनैव शिवं प्रपत्स्ये ॥२४॥
O+
R