________________
पं. श्रीप्रतापविजयविरचितः
॥ ४. चतुर्विंशतिजिनस्तवः - १ ॥
पाणिस्थिताऽमलकवत् त्रिजगत्पदार्थ-ज्ञातो! महेन्द्रमहितक्रमपद्मयुग्म ! । युष्मत्सधर्मपदवीं समवाप्तुकाम-स्त्वां स्तौमि नाभिज! सदाऽहमनन्तवीर्यम् ॥१॥ प्रोन्मादिवादिमतखण्डनलब्धवर्णं, बाह्यान्तरङ्गरिपुशाखिकदम्बकानाम् । प्रोन्मूलने प्रबलकल्पविरामवातं, वन्देऽजितेशमनिशं त्रिदशेशवन्द्यम् ॥२॥ सम्प्राप्तशुद्धपरमात्मपदं जिनेन्द्रं, मोहव्यथाभरनिवारणवैद्यरूपम् । विश्वत्रयाऽऽन्तरकुतर्कविनाशदक्षं, श्रीसम्भवं जिनवरं प्रयतः प्रणौमि ॥३॥ पूज्याभिनन्दनविभोर्गुणरत्नराशे-र्गाव: शुभास्त्रिभुवने कुमतैरधृष्याः । सद्रव्यपर्यवयुता नयभङ्गयुक्ताः, प्रामाण्यतः परिगताः सततं जयन्तु ॥४॥ यस्मिन् गते जिनपतौ जठरं जनन्या, जाता शुभा मतिरपूर्वनयादिकानाम् । आख्या बभूव सुमतिस्तत एव यस्य, पायात् स नोऽकृशमतिः सुमतिर्बलीयान् ॥५॥ क्षान्त्यौकसो भयभिदो वरबोधिहेतो-र्मोहान्धकारहननार्यमधामकल्पाः । पद्मप्रभोरनघदिव्यशरीरभास-स्तन्वन्तु वाञ्छितफलं जिनभक्तिभाजाम् ॥६।। वाचंयमो विदितविश्वपदार्थसार्थो, दुष्कर्मदर्भदहनप्रबलाग्नितुल्यः । श्रीमत्सुपार्श्वभगवान् कलधौतकान्तिः, पायात् सदा स भुवनं पुरुहूतपूज्य: ॥७॥ आकर्ण्य तावकवचो जिनचन्द्रनाथ! स्याद्वादतत्त्वकथनैकपटुप्रमाणम् । सद्धर्मबोधनविधौ विहितप्रयत्नं, सञ्जायते मनसि मुल्लहरी मदीये ॥८॥ दृप्यत्कुवादिगजभञ्जनकुञ्जरारिं, शान्तं मनोज्ञमकराङ्कितपादपद्मम् । निःशेषदोषविगमाभिगताक्षयेन्दि, वन्दे सुधासमगिरं सुविधिं जिनेशम् ॥९॥ निस्तन्द्रमात्मगुणलीनमतीतरूपं, कल्याणकेलिभवनं भवनं कलानाम् । मोहक्षपाविघटनोदितसप्तसप्तिः, श्रीशीतलः स जयतात् करुणामितद्रुः ॥१०॥ निःशेषलोकपरमप्रमदाङ्कराणां, संवर्द्धने नवकबन्धदमाप्तमुख्यम् ।। स्याद्वादयुक्तियुततीर्थमनन्तवीर्य, श्रेयांसनाथमनघं तमहं स्तवीमि ॥११॥ आविष्कृताखिलशरीरिकृपाप्रवाहं, युक्त्या निराकृतकुवादिमनोवितर्कम् । तं वासुपूज्यभगवन्तमतीतदोषं, संस्तौम्यहं क्षतरुजं महिषाङ्कयुक्तम् ॥१२॥