________________ 140 पावश्यक निबन्ध माला सभ्यग्ज्ञानम्, एतानि लक्षणवचनानि / अग्निः, जीवः, प्रमाणम्, एतानि च लक्ष्यवचनानि / अत्र लक्षणवचनप्रतिपाद्यो योऽर्थः स एका लक्ष्यवचनप्रतिपादो, न भिन्नोऽर्थ स्तत्प्रतिपाद्यः / एवं लक्ष्यवचनप्रतिपादो योऽर्थः स एवं लक्षणवचनप्रतिपाद्यो न भिन्नः / यतो हि उष्ण इत्युक्त अग्निरित्युक्तं भवति, अग्निरित्युक्त उष्ण इत्युक्तं भवति इत्यादि बोध्यम् / ततश्चेदं सिद्धं यत्र कुत्राऽपि लक्ष्यलक्षणभावः क्रियेत तत्र सर्वत्रापि लक्षणवचनलक्ष्यवचनयोः शाब्दसामानाधिकरण्याम् / इत्यं च प्रकृते असाधारणधर्मस्य लक्षणत्वस्वीकारे लक्षणवचनं धर्मवचनं, लक्ष्यवचनं च धर्मिवचनं, * स्यात् / न च लक्षणवचनरूपधर्मवचनलक्ष्यवचन- .. रूपमिवचनयोः शाब्दसमानाधिकरण्यमस्ति ताभ्यां प्रतिपाद्यार्थस्य मिन्नत्वात् / धर्मवचनप्रतिपाद्यो हि धर्मः, धमिवचनप्रतिपाद्यश्च धर्मी, तौ च परस्परं सर्वधा भिन्नौ। तथा चासाधारणधर्मस्य लक्षणत्वे न कुत्रापि लक्ष्यलक्षणभावस्थले लक्ष्यवचनलक्षणवचनयोः शाब्दसमानाधिकरण्यं सम्भवति / ततश्च शाब्दसमानाधिकरण्याभावप्रयुक्तासम्भवदोषः समापतत्येव / तस्मान्नं साधारणासाधारणधर्ममुखेन लक्षणकरणं यौक्तिकमापि तु परस्परव्य तिकरे येनान्यत्वं लक्ष्यते तल्लक्षणमित्यकलंकम् / // समाप्तोऽयं ग्रन्थः //