________________
| জামাল তাজ मनु असाधारणधर्मवचनं लक्षणं कथं न समीचीनमिति चेत् उच्यते; तदेव हि सभ्य लक्षणं यदव्याप्त्यादिदोषत्रयशून्यम् । न चात्र लक्षणेऽव्याप्त्यादिदोषत्रयाभावः । तथा हिं- अशेरैरपि वादिभि दण्डी, कुण्डली, बासस्वी देवदत्त इत्यादौ दण्डादिकं देवदत्तस्य लक्षणमुररीक्रियते, परं दण्डादेरसाधारणधर्मत्वं नास्ति, तस्य पृथग्भूतस्यापृथग्भूतत्वासम्भवात् । अपृथग्भूतस्य चासाधारणधीत्वमिति तवाभिप्रायः। तथा च लक्ष्यैकदेशेऽनात्मभूतलक्षणे दण्डादी असाधारणधर्मत्वस्याभावादव्याप्तिरित्येद तात्पर्यमावित्योक्तं अन्यकृता "दण्डादेरतद्धर्मस्यापि लक्षणस्वादिति"1
किञ्चाव्याप्ताभिमानस्य लक्षणाभासस्यापि शावलेयत्वादेरसाधारणव खादतिव्याप्तिः । गोः शावलेयत्वं,जीवस्य भव्यत्वं मतिज्ञा नित्वं का न गवादीनां लक्षणमिति सुप्रतीतम्, शावलेयत्वस्य सर्वत्र गोष्ववृत्तेः। भव्यत्वस्य मतिज्ञानित्वस्य वा सर्वजीवेष्ववर्तमानत्वादव्याप्तेः। परन्तु पावलेयत्वस्य भव्यत्वादे ऽसाधारणधर्मत्वमस्ति । यतो हि तेषां गवाविम्यो भिन्नेष्ववृत्तित्वात् । तदितरावृत्तित्वं ह्यसाधारणत्वमिति । ततः खावलेयत्वादावव्याप्ताभिधाने लक्षणाभासे असाधारणधर्मस्यातिव्याप्तिरिति बोध्यम् ।
अपि च लक्ष्यमिवचनस्य लक्षणधर्मवचनेन सामानाधिकरण्याभावप्रसंगात । तथा हि- सामानाधिकरण्यं द्विविधम्-शाब्दमार्थं च । ययोहयोरेका वृत्तिस्तयोरार्थसामानाधिकरण्यम्, यथा रूपरसयोः । ययो ईयोः शब्दयोश्चैकः प्रतिपाद्योऽर्थस्तयोः शाब्दसामानाधिकरण्यम्, यथा घटकलशशब्दयोः । सर्वत्र हि लक्ष्यलक्षणभावस्थले लक्ष्यवचनलक्षणवचनयोः शान्दसामानाधिकरण्या भवति ताभ्यां प्रतिपाद्यस्यार्थस्यैकत्वात् । यथा उष्णोऽग्निः, ज्ञानी जीवः, साम्यग्ज्ञानं प्रमाणम्, इत्यादी उष्णः, ज्ञानी,
(१३९
)