________________
অঞ্চভজাল লিঃ , অনিল ननु पिशवप्रतिभासात्मकं ज्ञानम्प्रत्यक्ष मिति जैनाभिमत्तप्रत्यक्षलक्षणं न युक्तियुक्तम्, संन्निकर्षस्य हि तल्लक्षणत्वात् । तथा हि-'इन्द्रियार्थयोः सम्बन्धः सन्निकर्षः, तस्यैव प्रत्यक्षलक्षणत्वमुचितम् , नान्यस्य विशदत्वादेः' इति नैयायिकाः कथयन्ति, तन्न समीचीनम् । यतः सनिकपस्याव्यापकत्वं विद्यते, तदभावेऽपि चक्षुषा रूपादिज्ञानोत्पत्तेः कथं प्रत्यक्षलणत्वमुक्त सन्निकर्षस्य । यथा हि-स्पर्शादीनां चतुर्णामपीन्द्रियाणां विषयं सम्बध्य तद्विषयिकज्ञानजनकत्वं न तथा चक्षुषः, अप्राप्यकारित्वात्तस्येति स्पष्टमेवाव्यापकत्वं सन्निकर्षस्य ।
ननु यदि चक्षुषः प्राप्यकरित्वं प्रत्यक्षतोऽ प्रसिद्धं तदानुमानात् तसिद्धि करिष्यामो वयम् परमाणुवत् । यथा खलु सूक्ष्मत्वात् परमाणोः न प्रत्यक्षतः उपलब्धिस्तथापि परमाणुरस्ति स्कन्धादिकार्यान्यथानुपपत्तेः इत्यनुमानेन तत्सिद्धिः विधीयते, तथैव 'चक्षुःप्राप्तार्यप्रकाशकं बहिरिन्द्रियत्वात् त्वगिन्द्रियवत् , इत्यनुमानात् चक्षुषः, प्राप्तार्थप्रकाशकत्वसिद्धिः भवत्येव, प्राप्तिरेव हि सन्निकर्षः, ततो न सन्निकर्षस्याव्यप्तिरित्यपि न समीचीनम्, अस्यानुमानस्यानुमानाभासत्वात् ।
तथाहि अस्मिन्ननुमाने चक्षुषः पक्षत्वं वर्तते, तत्कि लौकिकस्योतालौकिकस्य ? लौकिकस्य चेद् बहिरिन्द्रियत्वादित्यस्य हेतोः कालात्यापदिष्टत्वम् । तथाहि चक्षुषः प्रान्तार्थप्रकाशकत्वं खलु प्रत्यक्षेणव बाध्यते । यतः चक्षुः विषयमप्राप्यैव तद्विषये विज्ञानं जनयति । तस्मिन् प्रत्यक्षबाधिते पक्षे सति अस्य हेतोः प्रयुक्तत्वात् कालात्यापदिष्टत्वम् । यतः बाधितविषयः कालात्यापदिष्टः इत्युक्तत्वात् ।
अलौकिकं चक्षुरिति द्वितीयपक्ष स्वीकारे हेतोराश्रयासिद्धः। यतः अलौकिकस्य चक्षुषो ऽ बाप्यसिद्धेः, एवम् अनुमानेनापि चक्षुषः प्राप्यकारित्वं साक्षयितुंनो युक्तम् ।