________________
आवश्यक निबन्धमाला
किञ्च -- चक्षुः श्रप्राप्तार्थप्रकाशकं शाखा सुधादीधितिसमानकालप्रवीदिग्रहणान्यथानुपपत्तेः, इति प्राप्यकारित्वं स्यार्त्तार्ह पूर्व शाखायाः पश्चात्त सुचादीधितेः, नोभयोः युगपत्प्रतीतिः इति सन्निकर्षस्याव्यापकत्वाच्च प्रत्यक्षलक्षपत्वमुचित्तम । किन्तु विशदप्रतिभासात्मकत्वस्यैव प्रत्यत्वं वर्तते ।
१२४
नय विषयको निबन्धः
प्रमाणगृहीतार्थे कदेशग्राही प्रमातुरभिप्राय विशेषो नयः । तदुक्तम्'सकलादेश: प्रमाणाधीनो विकलादेशो नयाधीनः' इति । स नयः संक्षेपेण हुधा, द्रव्यार्थिकः, पर्यायार्थिकश्चेति । द्रव्यमर्थः प्रयोजनमस्येति द्रव्याथिकः । पर्यायः श्रर्थः प्रयोजनमस्येति पर्यायार्थिकः ।
तत्र द्रव्याथिको नयो द्रव्यपर्यायरू मे काने कात्मकम् अनेकान्तं प्रमाणप्रतिपन्नमर्थ विभज्य पर्यायार्थिकनय विषय भेदस्योपसर्जन भावेनावस्थामात्रमजानन् स्वविषयं द्रव्यभेदमेव व्यहारयति । 'नयान्तरविषयसापेक्षा ः सन्नया:' इत्यभिधानात् ।
तत्र द्रव्यार्थिको नयः त्रिविध:- नैगमसंग्रहव्यवहारभेदात् । श्रन्योन्यगुणप्रधानभूतभेदाभेदप्ररूपणो नैगमः । प्रतिपक्षव्यपेक्षः सन्मात्रग्राही संग्रहः । संग्रहगृहीतार्थभेदको व्यवहारः ।
पर्यायार्थिकनयस्तु चतुविधः - ऋजुसूत्र शन्दसमभिरुदै वम्भूतभेदात् । शुद्धपर्यायग्राही प्रतिपक्षसापेक्षः ऋजुसूत्रः । कालकारकलिगादीनाम्भेदात् स्वस्य कथञ्चिदर्थभेदकथनं शब्दनयः । पर्यायभेदात् पदार्थनानात्वनिरूपकः समभिरूढ़ः । क्रियाश्रयेण भेदप्ररूपकः एवम्भूतः । एते नया: सापेक्षा एवार्थक्रियां कुर्वते ।