________________
नवमः सर्गः
अथ यः सुदंष्ट्रो नागकुमारो नावमारूढस्य वीरप्रभोरुपसर्गान् कृतवानासीत्, स क्वचिद् ग्रामे हालिको बभूव । एकदा च स कृषीवलो हलेन यावद् महीमकृक्षद् तावद् वीरजिनस्तं ग्राममाययौ । तथा तस्य हालिकस्य प्रतिबोधाय प्रभुणा प्रेषितो गौतमो गत्वोवाच"किमिदं क्रियते ?" ततः स 'दैवनियोगं कर्म करोमीति प्रत्युवाच । ततो गौतमः पुनस्तमुवाच - "अनया क्षुद्रवृत्त्या न तव किमपि सौख्यं न वैतत् सुकर्म । नैतेन कर्मणेहैव दुःखं किन्तु भूयः प्राणातिपातानुषङ्गाज्जन्मान्तरेऽप्येतत् कर्म कष्टाय । एतदपेक्षयाऽत्यल्पमपि धर्मकार्ये कृतं कष्टं सर्वकष्टान्ताय स्यात्" ।
एवं गौतमेनोक्तः स तमभिनन्द्य स्वप्रव्रज्येच्छां न्यवेदयत् । गौतमोऽपि च तं प्रबुद्धं ज्ञात्वा दीक्षितवान् । तथा स हालिको गौतमेन वर्णितं वीरजिनस्य माहात्म्यं श्रुत्वा तस्मिन् भूरिभक्तिमानुपार्जितबोधिबीजो गौतममनुसरन् प्रभुं प्राप्तवान् । दृष्ट्वा च वीरजिनं सिंहादिप्राग्जन्मवैरतः कुपितो गौतममपृच्छत्- 'कोऽयं पुरतः स्थितः ?' ततो गौतमेन गुरूणामपि गुरुवरजिनोऽयमिति कथितोऽत्यन्तमुद्दिप्तो दीक्षया त्वया चाऽप्यलमित्युक्त्वा रजोहरणादिकं त्यक्त्वा निजक्षेत्रं गत्वा हलादिकं गृहीतवान् ।
अथ गौतमो भगवन्तमपृच्छत्- 'त्वय्यप्ययं लोकहिते द्वेषीत्येतदाश्चर्यम् । त्वां दृष्ट्वैवाऽयं प्रतिपन्नमपि व्रतं त्यक्तवान् । तत्र
दशमं पर्व नवमः सर्गः
को हेतुः ? मय्यसौ भक्तिमान् । अयं मद्गुरुरिति मदुक्तिमात्रेण त्वयि मयि च विप्रीतो जातः” । ततो भगवानुवाच - "मया त्रिपृष्ठेन पुराभवे यः सिंहो दारितः त्वया सारथिना च साम्ना कुप्यन् स शमितः । तदारभ्यैवाऽयं मयि द्वेषी त्वयि प्रीतश्च । तत एवाऽस्य बोधाय त्वामहं प्रेषितवान् ।
१६१
प्रभुरेवमुक्त्वा विहृत्य पोतनं पुरं गत्वा ततो बहिर्मनोरमाख्योद्याने समवससार । तत्पुरेश्वरः प्रसन्नचन्द्रो नृपश्चाऽऽगत्य वन्दित्वा प्रभोर्देशनां श्रुत्वा प्रबुद्धो भवोद्विग्नो बालमपि पुत्रं राज्ये न्यस्य प्रव्रजितवान् । तथा प्रभुणा सार्धं विहरन् तपस्तप्यमानः स राजर्षिः क्रमाद् गीतार्थो जातः ।
अथ प्रभुस्तेन राजर्षिणाऽन्यैश्च मुनिभिः समन्वितो विहरन् राजगृहं जगाम । तत: श्रेणिकनृपः पुत्रसमन्वितो महता समृद्ध्या प्रभुं वन्दितुं प्रतस्थे । तस्याऽग्रसैन्ये द्वौ मिथ्यादृष्टी सुमुख - दुर्मुखौ मिथ आलपन्तौ गच्छन्तौ मार्गे एकपादप्रतिष्ठितमूर्ध्वबाहुमातापनापरं प्रसन्नचन्द्रं दृष्टवन्तौ । तत: सुमुखोऽवदत् - 'मुनेरस्याऽऽतापनापरस्य स्वर्गा-ऽपवर्गौ न दुर्लभौ” । तच्छ्रुत्वा दुर्मुख आह- 'अयं पोतनेश्वरः प्रसन्नचन्द्रोऽस्ति । अस्य न धर्मसम्भवो यतोऽनेन वत्सतरो महाशकट इव राज्ये बालः पुत्रो न्यस्तो मन्त्रिभिश्चम्पेशेन दधिवाहनराजेन मिलित्वा राज्याद् भ्रंशयिष्यते । अनेन राज्यधर्मो लोपितः अस्य भार्या अपि क्वाऽपि गताः । तदयं पाखण्डिदर्शनानुरागी न दर्शनीयोऽपि” ।
तच्छ्रुत्वा ध्यानाच्चलितः प्रसन्नचन्द्रो दध्यौ - " धिक् तान् मन्त्रिणः, ये मया सदा सत्कृता अपि मत्पुत्रस्याऽहितमकार्षुः ।