________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दृष्ट्वा च विश्वस्तास्ते समीपमागत्य यष्टिभिः सर्पभोगं चालयामासुः । गोपैस्तद्वृत्तं ज्ञात्वा च तत्रोपेता जनाः प्रभुं नेमुः सपं च जघ्नुः । तेन मार्गेण यान्त्यो घृतविक्रयकारिण्यः स्त्रियश्च तं सर्प घृतेनाऽम्रक्षयन् पस्पृशुश्च । घृतगन्धेनाऽऽगता: पिपीलिकाश्च सर्पस्य भोगं चखादुः । सर्पश्च प्रबुद्धत्वात् सर्वा वेदना: सेहे । पक्षान्ते च स सर्पः प्रभुणा कृपादृष्ट्याऽवलोक्यमानो विपद्य सहस्त्रारं जगाम । एवं प्रभुः कौशिकसर्पायोपकृत्य तद्वनाद् निर्गत्योत्तरवाचालसन्निवेशं प्राप ।
__ अथ तत्र पक्षान्ते पारणार्थं गोचरचर्यया भ्रमन् प्रभुर्नागसेनस्य गृहमेधिनो गृहं ययौ । तस्मिन्नेव दिने च तस्य नागसेनस्य पुत्रो द्वादशवर्षानन्तरमचिन्तित एव समागात् । तेन नागसेनः स्वगृहे उत्सवं चकार स्वजनमभोजयच्च । तदानीं चाऽऽगतं प्रभुं दूरादेवाऽवलोक्य मुदितो भक्त्या पयसा प्रत्यलाभयत् । ततो देवास्तद्दानं प्रशंसन्तो वसुधारादिकानि पञ्चदिव्यानि चक्रुः । प्रभुश्च पारणां कृत्वा जिनभक्तेन प्रदेशिना नृपेणाऽधिष्ठितां श्वेतवीं नगरीं ययौ । प्रदेशी च सचिवाद्यैः परिवारित उपागत्य प्रभुं प्रणम्य स्वपुरं जगाम ।
प्रभुश्च विहरन् क्रमात् सुरभिपुरं नाम नगरं गतवान् । ततश्च गङ्गां नदीं प्राप्य तां तितीर्घश्च सिद्धदत्तनाविकेन सज्जितां नावमारुरोह, अपरेऽपि च पथिकास्तां नावमारुरुहुः । नौश्च नाविकेन चालिताभ्यां दण्डाभ्यां तरीतुमारेभे । तदानीं च तटे शृगालवाशितं श्रृत्वा शाकुनिकः क्षेमिलो "अशकुनमेतत्, सर्वे मरणान्तिकं कष्टं शीघ्रमेव प्राप्स्यन्ति, किन्त्वस्य महामुनेः प्रभावाद् मुक्ताः स्युरि"त्युवाच । तदानीमेव चाऽगाधे जले गतायां नावि सुदाढो नागकुमारः
दशमं पर्व - तृतीयः सर्गः प्रभुं दृष्ट्वा प्राग्जन्मवैरं स्मृत्वा क्रुधाकुलो दध्यौ-"अयं स एव, येन त्रिपृष्ठरूपेणाऽहं सिंहो हतः । तदानीं गिरौ वसता मयाऽस्य त्रिपृष्ठस्य न किमप्यपराद्धं, किन्तु कुतूहलादेवाऽसौ निजभुजबलदर्पण गुहास्थं मामवधीत् । तद्वैरमद्य साधयामि । यद्यपि मम मृत्युरासन्नस्तथाऽपि प्राग्वैरसाधनात् कृतार्थस्य मम स न खेदाय" । एवं ध्यात्वा क्रुद्धः सुदाढः प्रभुमुपेत्य गगनस्थः किलकिलाशब्दं कृत्वा 'रे कुत्र यासी'त्युक्त्वा संवर्तकमहावातं विकृत्य गङ्गाया भीषणैरत्युच्चस्तरङ्गैर्नावं क्षोभयामास । तस्याः कूपको भग्नः श्वेतपटः शीर्णश्च जातः । नाविकोऽपि भयाद् मूढो जातः । तत्स्थ: सर्वो जनश्चाऽऽकुलः स्वं स्वं देवमस्मार्षीत् ।
इतश्च मथुरानगर्यां पुरा जिनदासो वणिक् श्रावकोऽभूत् । तस्य भार्या च साधुदासीति ख्याता । तौ च जायापती चतुष्पदपरिग्रहं प्रत्याख्यातवन्तावाभीरीसकाशाद् दध्यादिकं चिक्रियतुः । एकदा च कस्याश्चिदाभीर्या उत्तमं दधि क्रीत्वा साधुदासी तामुवाच"त्वयाऽन्यत्र निजं दुग्धादिकं न नेयं किन्त्वत्रैवाऽऽनेयम् । अहमेव सर्वं ग्रहीष्यामीष्टं मूल्यं च दास्यामि" । तेन च मुदिता साऽऽभीरी प्रत्यहं दध्याद्यानैषीत् । साधुदास्यपि वस्त्रादिदानेन तां सच्चकार । एवं तयोर्द्वयोः स्वस्रोरिव महान् स्नेहः प्रावर्धत । ___ एकदा चाऽऽभीर्या गृहे विवाहोत्सवोऽभूत् । तत्र निमन्त्रितौ च श्रेष्ठिनावूचतु:-"आवयो ऽवकाश इत्यागन्तुं न शक्नुवः, तव च येन विवाहोपयोगिना वस्तुना प्रयोजनं तद् मद्गृहाद् गृहाण । एवमुक्त्वा च तौ वस्त्र-धान्याऽलङ्करणादिकं ददतुः" । ताभ्यां दत्तैर्वस्तुभिश्च तस्या विवाह: शुशुभे । तेन च प्रसन्ना गोपाः कम्बल