________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः शम्बलाख्यौ द्वौ वृषभौ श्रेष्ठ्यर्थमुपनिन्युः । अस्वीकुर्वतोऽपि श्रेष्ठिनो गृहे गोपाः प्रेम्णा बलादपि तौ वृषभौ बद्ध्वा स्वस्थानं ययुः । ___ ततो जिनदासो दध्यौ-"यद्येतौ वृषभौ मुच्येते मया, तदेमौ कृषीवलैहले योजयिष्येते, अनुपकारित्वाच्च ममैतौ दुष्पालौ, तत्सङ्कटे पतितोऽस्मि, किं करोमि?" एवं चिन्तयन् श्रेष्ठी दयया तौ वृषभौ पालयामास । अष्टम्यां चतुर्दश्यां च कृतोपवास: श्रेष्ठी पौषधं गृहीत्वा तयोर्वृषभयोः श्रृण्वतोरेव धर्मशास्त्रपुस्तकं वाचयामास । तेन च धर्मश्रवणेन तावुक्षाणौ भद्रको जातौ । श्रेष्ठी यद्दिने नाऽभुक्त तौ वृषभावपि तद्दिने नाऽभुञ्जताम् । ततः श्रेष्ठी दध्यौ-"मया कृपया पालिताविमौ वृषभावद्यप्रभृति साधर्मिको बन्धू इति पालनीयौ" । ततः स श्रेष्ठी तयोरुक्ष्णोदिने दिनेऽधिकाधिकं बहुमानं चक्रे ।
अन्यदा च भाण्डीरवणयक्षस्योत्सवे ग्राम्यैर्वाहनानां वाहकेली समुपक्रान्ता । जिनदासस्य मित्रं च श्रेष्ठिनमपृष्ट्वैव कौतुकात् तौ वृषभौ नीत्वा शकट्यां योजयामास । तथा तयोर्वृषभयोः सौकुमार्यमजानन् स श्रेष्ठिसुहृद् निर्दयो लोकान् विस्मापयंस्तौ प्राजनेनेरयन् वाहयामास । तथाऽप्रतिमवेगाभ्यां ताभ्यां स सत्वरमेव वाहकेलिकृतपणान् पौरान् जिगाय । प्राजनाराकृतच्छिद्रेण स्रवद्रक्तौ तौ वृषभौ श्रेष्ठिगृहे बद्ध्वा च स स्वं धाम जगाम । भोजनावसरे च श्रेष्ठी तृणपूलमादाय वृषभयोः पार्श्वे जगाम । तौ वृषभौ क्षताङ्गौ विकलौ कम्पमानौ च प्रेक्ष्य स उवाच-"प्राणेभ्योऽपि प्रियौ ममैतौ वृषभौ केन क्रूरेण मामपृष्ट्वैव नीतावीदृशीं दशां प्रापितौ ?" परिजनाश्च सर्वं मित्रवृत्तान्तं ज्ञात्वा स श्रेष्ठी भृशं खेदं प्राप । तौ वृषभौ चाऽनशनकामौ श्रेष्ठिदत्ते तृण-जले न मनागप्याघ्रातवन्तावपि
दशमं पर्व - तृतीयः सर्गः । अन्नपूर्ण श्रेष्ठिना दत्तं स्थालमपि तौ वृषावद्राष्टामपि न । ततः श्रेष्ठी वोर्भावं ज्ञात्वा भक्तप्रत्याख्यानमदत्त । तौ वृषभावपि तत् प्रतिपेदाते । श्रेष्ठी च तयोरनुकम्पयाऽन्यकार्याणि त्यक्त्वा तौ भवस्थिति बोधयन् नमस्कारांश्च ददत् तस्थौ । तौ च वृषभौ भवस्थितिं भावयन्तौ नमस्कारान् शृण्वन्तौ समाधिना मृतौ नागकुमारेषूत्पन्नौ ।
अथ तौ कम्बल-शम्बलाववधिज्ञानात् सुदाढेन प्रभोः क्रियमाणमुपद्रवमपश्यताम् । अर्हत उपसर्ग निवारयाव इति विचार्य च तौ तत्राऽऽजग्मतुः । तयोरेकश्च सुदाढेन सर्पण योद्धु प्रावृतत् । द्वितीयश्च नावं पाणिनोद्धृत्य नदीतटे निनाय । महद्धिकोऽपि च सुदाढस्ताभ्यां पराजितो नंष्ट्वा कुत्राऽपि जगाम । तौ च नागकुमारी प्रभुं नत्वा मुदा पुष्प-गन्धोदके ववृषतुः । लोकाश्च नद्या इवाऽस्या आपदस्त्वत्प्रभावादुत्तीर्णा इति ब्रुवन्तो भक्त्या वीरप्रभुं ववन्दिरे । नागकुमारौ च प्रभुं नत्वा ययतुः । प्रभुश्च नाव उत्तीर्याऽन्यतो विजहार । ___अथ विहरतः प्रभोर्गङ्गासैकते चक्रादिचिह्निता पदपद्धतिः स्फुटा जाता । पुष्पो नाम सामुद्रिकश्च तद् दृष्ट्वा दध्यौ-"कोऽपि चक्रवत्र्येकाक्येव गतोऽस्तीति मन्ये । सोऽद्याऽप्यप्राप्तराज्यो वा केनचिच्छलादपहृतराज्यो वा सम्प्रति याति । तमेनं सेवकमिच्छं भजे । असौ ह्यस्यां दशायां सेवित: फलदो भावी । सेव्यसेवावसरो भाग्येनैव लभ्यते" । एवं विमृश्य सोऽनुपदं गच्छन् स्थूणाकं सन्निवेशं प्राप्य तत्राऽशोकतले प्रतिमया स्थितं प्रभुं लोकोत्तराणि श्रीवत्सादीनि तल्लक्षणानि च दृष्ट्वा चिन्तयामास-“यथाऽयं पादलक्षणैर्लोकोत्तरस्तथाऽन्यैर्लक्षणैश्चक्रयपि सूच्यते, किन्त्वयं भिक्षुरस्ति, तन्मे शास्त्रश्रम धिक्, येन भिक्षुकेऽपि ममाऽऽशा जाता"।