________________
३६
३७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कनकखलाख्यतापसाश्रमो दृग्विषसर्पणाऽधिष्ठितोऽस्ति । तत्रैको वायुरेव गच्छति । पक्षिणामपि सोऽगम्य आश्रमः । तदेनं मार्ग त्यक्त्वा वक्रेणाऽप्यनेन पथा गम्यताम्' इत्येवं कथितः । ततः प्रभुस्तं सर्पमज्ञासीत् । स हि पूर्वजन्मनि क्षपक: पारणार्थं वसतेर्गच्छन् मार्गे पादपाताद् मण्डूकी विराधितवान् । सा च क्षुल्लकेनाऽऽलोचनार्थ तस्य क्षपकस्य दर्शिता । स तु परलोकमारिता मण्डूकीः क्षुल्लं दर्शयन् 'नीच ! किमेता अपि मया मारिता' इति क्रोधादुवाच ।
ततः क्षुल्लको मौनमालम्ब्याऽयं सम्यङ्मतिर्महानुभावश्चाऽयं क्षपक: सायमालोचयिष्यतीत्यमन्यत । किन्तु स क्षपक आवश्यकेऽपि तदनालोच्यैवोपाविशत् । ततः क्षुल्लको दध्यौ-'अस्य मण्डूकीविराधना विस्मृता स्यात्" । ततः स क्षुल्लो भेकी किं नाऽऽलोचयसीति क्षपकस्य स्मारितवान् । तेन च क्रुद्धः क्षपक उत्थाय क्षुल्लं हन्तुं धावमान: स्तम्भे प्रतिघातमाप्य विपद्य च ज्योतिष्केषूत्पद्य च्युत्वा च कनकखले तपस्विपञ्चाशत्सहस्त्री कुलपतेः कौशिकगोत्रस्य कौशिकाख्यः कौशिकेष्वत्यन्तामर्षणत्वाच्चण्डकौशिक इति ख्यातः पुत्रो बभूव ।
कुलपतौ विपन्ने चाऽसौ तापसानां कुलपतिर्बभूव । मोहाद् वनखण्डस्याऽन्तर्धमन् स कस्याऽपि पुष्पादि ग्रहीतुं नाऽदात् । यः पतितमपि फलादिकमग्रहीत् तं स परशुं यष्ट्यादिकं वोत्क्षिप्य हन्ति स्म । तत: फलाद्यलाभेन पीडितास्तापसा अन्यत्र जग्मुः । एकदा च वनखण्डार्थं कौशिके बहिर्गतवति श्वेतव्या राजपुत्रा एत्य तद् वनमभाङ्क्षुः । आगच्छंश्च कौशिको गोपैर्वनं कैश्चिद् भज्यते इति ज्ञात्वा घृतेनाऽग्निरिव क्रुधा ज्वलन् शितधारं परशुमुत्पाट्याऽधावत। राजपुत्राश्च श्येनात् पक्षिण इव तत: पलायामासुः । कौशिकश्च
दशमं पर्व - तृतीयः सर्गः स्खलित्वाऽन्तकमुख इव गर्तायां स्वहस्तात् पतिते परशावेव पतितः । तेन च तस्य शिरश्छिन्नम् । विपद्य च सोऽत्रैव वने दृग्विषः सर्पोऽभूत् ।
अथ प्रभुः सोऽवश्य बोध्य इति बुद्ध्या स्वकष्टमविचार्यैव सरलेनैव पथा गत्वा तद वनं प्रविश्य यक्षायतने नासाग्रन्यस्तनेत्रः प्रतिमया तस्थौ । स दृग्विष: सर्पश्च: बिलात् पर्यटितुं बहिनि:सृत्येतस्तत: सर्पन् प्रभुं तथा स्थितं दृष्ट्वा क्रुधा ज्वलन् फटाटोपं विधाय ज्वालामुद्गिरन्त्या लतादीन् दहत्या दृशा प्रभुमपश्यत् । तदृष्टिज्वालाश्चोल्का इव प्रभुतनौ पेतुः । प्रभोर्महाप्रभावत्वाच्च ता निष्प्रभावा आसन् । तेन चाऽतिक्रुद्धः स सर्पः पुन: पुनर्नेत्रज्वाला अमुचत् । तासु सर्वासु निष्प्रभावासु जातासु स सर्पः प्रभु चरणकमले दर्दश । एवं पुनः पुनर्दशतोऽपि तस्य प्रभुतनौ विषं न प्रबभूव । केवलं क्षीरधारासहोदरं रक्तं सुस्राव ।
ततोऽग्रे स्थित्वा किमेतदिति चिन्तयन् स सर्पः प्रभु विलोकयामास । प्रभोरप्रतिमं रूपं दृष्ट्वा कान्तसौम्यतया च तस्य लोचने शीघ्रमेवोपशान्ते । ततः प्रभुस्तं समीपस्थं ज्ञात्वाऽब्रवीत् । "चण्डकौशिक ! बुध्यस्व, मोहं मा गाः" । प्रभुवाक्यं श्रुत्वा च तर्कयतस्तस्य सर्पस्य पूर्वजन्मस्मरणं जातम् । तत: स प्रभु प्रदक्षिणीकृत्य कषायरहितो मनसाऽनशनं प्रपन्नवान् । प्रभुश्च तं कृतानशनं निष्क्रियं सर्प प्राप्तशमं ज्ञात्वाऽनुज्ञां ददौ । स सर्पश्च मम विषदूषिता दृष्टिरन्यत्र मा गादिति मुखं बिले कृत्वा समतां प्राप । प्रभुरपि दयया तत्रैव प्रतिमया तस्थौ ।
गोपालाद्याश्च प्रभुं तथाऽवलोक्य विस्मितास्तत्रोपेत्य वृक्षमन्तरितं विधाय शिलाखण्डादिभिः सर्पमघ्नन् । तं सर्पमविचलं