________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तृणं छेत्तुमारेभे । तदानीं शक्रो दध्यौ-"प्रभुरिदानी कथं विहरति ?" उपयोगं दत्त्वा चाऽच्छन्दकव्यापारं दृष्ट्वा प्रभुमिथ्यावाङ् मा भूदिति स वज्रेणाऽच्छन्दकस्य दशाऽप्यङ्गुलीश्चिच्छेद । तृणस्याऽच्छेदाच्च विस्मितः सर्वैर्लोकद्देश्यमानः स उन्मत्त इवाऽन्यत्र ययौ । ____ तत: सिद्धार्थो ग्राम्यानुवाच-"अयमच्छन्दकश्चौरः" । ततो ग्राम्या ऊचु:-'प्रभो ! कस्य किमनेन चोरितम्' । तत: सिद्धार्थ उवाच-'वीरघोषः कर्मकरोऽत्राऽस्ति ?' तच्छ्रुत्वा च प्रणम्य वीरघोषः स्वमदर्शयत् । ततः सिद्धार्थस्तमुवाच-'तव गृहात् पुरा दशपलं भाजनं नष्टं किम् ?" तेन तत् स्वीकृते सिद्धार्थः पुनर्जगौ"अनेन पाखण्डिनाऽच्छन्दकेन तद् गृहीतं, निरीक्ष्य प्रत्ययः क्रियताम् । स निजगृहात् पूर्वदिशि शिग्रुवृक्षस्याऽधो हस्तमात्रं खनित्वा तत् क्षिप्तवानस्ति, गत्वा तद् गृहाण" । तेन च जातकौतुकैाम्यैः सहितो वीरघोषस्तद्गृहं गत्वा भाजनं लात्वाऽऽययौ ।
ततस्तुमुलं कुर्वतो ग्राम्यान् सिद्धार्थ उवाच-“भो ! श्रूयताम्, इन्द्रशर्माऽत्राऽस्ति किम् ?" अस्तीति लोकैः कथिते इन्द्रशर्मा तत्रोपस्थितः । तत: 'किं पुरा तवाऽजोऽपहृत' इति सिद्धार्थेन पृष्टः स सविस्मयस्तत् स्वीचकार । ततः सिद्धार्थ आह-'अनेनाऽच्छन्दकेन स भक्षितः । बदर्या दक्षिणदिशि तृणादिपुज्जे तस्याऽस्थीनि पश्य" । ततो लोका: कौतुकात् तत्र गत्वा तत् तथा ददृशुः । पुनः समागतांश्च तान् सिद्धार्थः प्राह-"तस्य पाखण्डिनस्तृतीयोऽपि पराक्रमोऽस्ति, किन्तु तदहं न कथयिष्यामि" । ततो लोकैः पुन: पुनस्तत्कथनाय प्रार्थितः सिद्धार्थ उवाच-'यदि वः कौतुकं तर्हि तद्गृहं गत्वा तद्भार्यामेव पृच्छत" । ततो लोकास्तद्गृहं जग्मुः । तद्दिने चाऽच्छन्दकेन ताडिता तद्भार्या सरोषा चिन्तयति
दशमं पर्व - तृतीयः सर्गः स्म-'यदेतस्य कराङ्गलिच्छेदनं जातं तत् सुष्टु । लोकैस्तिरस्कारोऽप्यस्योचित एव । यदि लोकोऽधुनाऽऽगच्छति तदाऽस्य सर्व दुश्चरितमहं प्रकटयामि, यथाऽस्य मत्कुट्टनपापफलं लब्धं स्यात्"। ___ तदानीमेव चाऽऽगतो लोकस्तामच्छन्दकचेष्टितमपृच्छत् । ततः साऽवोचत्-"अस्य पापिष्ठस्य नामाऽपि को गृह्णीयात् । अयं हि स्वस्वस्रा वैषयिकं सुखं भुङ्क्ते, मां तु कदाऽपि नेच्छति" । एवं श्रुत्वा कोलाहलं कुर्वन्तो ग्राम्या अच्छन्दकं निन्दन्तो निजनिजगृहं जग्मुः । प्रतिष्ठाहीनश्च सोऽच्छन्दको लोकैः पापेति निन्द्यमानो भिक्षामपि क्वाऽपि न लेभे । ततः सोऽच्छन्दको रहसि प्रभुमुपगम्य नत्वा दीनो जगाद-"भगवन् ! अन्यत्र गम्यतां, पूज्यस्य भवतः सर्वत्रैव पूजा सुलभा । तथा मयाऽजानता यद् धाष्ट्यं कृतं तत्फलं प्राप्तम्, इदानीं मयि दयस्व" । ____ अथ ततः प्रभुरप्रीतपरिहाराभिग्रहणात् तत उत्तरवाचालसन्निवेशं प्रति विजहार । दक्षिण उत्तरश्चेति द्वौ वाचालौ । तयोर्मध्ये सुवर्णवालुका रूप्यवालुका चेति द्वौ नद्यौ । तत्र दक्षिणवाचालादुत्तरवाचालं गच्छतः प्रभोर्देवदूष्याधु सुवर्णवालुकातटे कण्टके लग्नम् । किञ्चिद् गत्वा च प्रभुरदो देवदूष्यमस्थण्डिले मा पतदिति तद्विलोक्य ततो गन्तुं प्रावृतत् । पृष्ठलग्नस्तु स सोमो द्विजस्त्रयोदशमास्यन्ते तद्वस्त्रार्धं गृहीत्वा प्रभुं नत्वा स्वस्थानं ययौ । हृष्टश्च तस्य तुन्नवायस्याऽर्पयामास । स तुन्नवायश्च ते देवदूष्या) अविकलवदयोजयत् । तन्मूल्यं दीनारलक्षं च तौ विप्र-तुन्नवायौ सोदराविव विभज्याऽर्धमधु जगृहतुः ।
अथ प्रभूविहारक्रमेण श्वेतव्या अभिमुखं गच्छन् गोपबालकैः 'प्रभो ! श्वेतवीमयं सरलो मार्ग उपतिष्ठते । किन्त्वस्य मध्ये