________________
पुरुष-गद्यात्मकसारोद्धारः
कथयामि हतस्तालपिशाचो भाविनं मोहनाशं सूचयति । शुक्लः कोकिलस्ते शुक्लध्यानावाप्तिमाह । चित्रः कोकिलो भवता द्वादशाङ्गीख्यातिं कथयति । गोवर्गश्च तव भाविनं चतुर्विधं सङ्घ व्यनक्ति । पद्मसरस्ते सेवको देववर्ग इत्याह । सागरोत्तरणं च तव भवोत्तरणसूचकम् । सूर्यश्च भावि केवलज्ञानं प्रथयति । त्वदन्त्रैर्वेष्टितो गिरिश्च तव प्रतापान्वितं यशो व्यनक्ति । तव मेरुशिखरारोहणं च सिंहासनस्थस्य तव भाविनीं धर्मदेशनामाह । दामद्वयफलमहं न वेद्मि" ।
३२
ततो भगवानाह - "दामद्वयं मया प्रणेष्यमाणं गृहियतिधर्मद्वयमाह" । तत उत्पलः प्रभुं नत्वा स्वस्थानं जगाम । अपरे ग्राम्या अपि विस्मिताः प्रमुदिताश्च जग्मुः । प्रभुश्च तत्राऽर्धमासक्षपणैश्चतुर्मासीं गमयित्वाऽस्थिकग्रामादन्यतो विजहार । शूलपाणियक्षश्च प्रभुमनुसरन् नत्वाऽवदत्-“निरीहस्त्वमिह मय्यनुकम्पयैव समागमः, द्रोहाद् न मत्समः कोऽपि पाप:, तथा मय्यपि हितबुद्धिस्त्वं सर्वपूज्यः यदि मम त्वत्कृतः प्रबोधो न स्यात् तदा मम नरकपातो ध्रुवः स्यात्” । एवमुक्त्वा स भक्त्या वीरप्रभुं प्रणम्य शूलपाणिर्न्यवृतत् ।
***
अथ प्रभुर्दीक्षादिनाद् वर्षे गते मोराकग्रामं गत्वा तस्य बहिरुद्याने प्रतिमा तस्थौ । तत्र ग्रामे च मन्त्र-तन्त्रोपजीवी पाखण्डी नाम्नाऽच्छन्दक आसीत् । सिद्धार्थव्यन्तरश्च तन्माहात्म्यमसहमान: स्वामिमाहात्म्यख्यातये प्रभुशरीरे सङ्क्रमं कृत्वा गच्छन्तं गोपालकमाहूयोवाच - "भो ! गोपाल ! त्वं ससौवीरं कङ्गुभक्तं भुक्तवानसि वृषभान् रक्षितुं च यासि गृहादागच्छन् सर्वमद्राक्षीः स्वप्ने च
दशमं पर्व तृतीयः सर्गः
बह्वरोदीरि "त्येतद् मयोक्तं सत्यमस्ति किम् ?" ततस्तेन सत्यमित्युक्ते सिद्धार्थस्तद्विश्वासाय पुनरन्यदपि बहु कथितवान् । तेन च विस्मितो गोपालो ग्रामे गत्वा जगौ - "बहिरुद्याने त्रिकालज्ञो देवार्थोऽस्ति, तेन मम प्रत्ययः पूरितः " ।
तच्छ्रुत्वा ग्राम्यो लोकः कौतुकात् सत्वरमेव पुष्पाद्यादाय स्वामिसमीपमाजगाम । प्रभुशरीरे सङ्क्रान्तः सिद्धार्थश्च ग्राम्यानवदत्-" किं यूयं ममाऽतिशयं द्रष्टुमिहाऽऽगताः ?" ग्राम्यैश्च तथेति स्वीकृते तैर्यद् दृष्टं श्रुतं कृतं वा यच्च प्राक्तदानीं वोक्तं तत्सर्वं कथयित्वा भावि वृत्तं चाऽकथयत् । लोकाश्च तच्छ्रुत्वा महोत्सवपूर्वकं प्रभोर्वन्दनं पूजां च चक्रुः । एवं प्रतिदिनं लोकेषु गतागतं कुर्वत्सु सिद्धार्थो नितरां मुमुदे ।
लोकाश्च तत्राऽऽगत्योचुः-"प्रभो ! ग्रामेऽस्मिन् भवानिव ज्ञानी नाम्नाऽच्छन्दको वसति” । ततः सिद्धार्थस्तानुवाच - " स न किमपि जानाति, सरलमतीन् भवतो विप्रतार्य स स्वजीविकां करोति" । ततस्ते गत्वाऽच्छन्दकमूचुः - "त्वं किमपि न जानासि देवार्यस्त्रिकालज्ञः” । ततः स्वप्रतिष्ठाभङ्गभियाऽच्छन्दक उवाच - "अतत्त्वज्ञानां भवतामग्रे स सर्वज्ञः, यदि ममाऽग्रे ज्ञाता स्यात् तदा तं ज्ञानिनं मन्ये । अहमधुनैव गत्वा तस्याऽज्ञतां प्रकटयामि यूयं पश्यत" । एवमुक्त्वा सोऽच्छन्दकः क्रुद्धो ग्रामीणैः सकौतुकैः परिवेष्टितः कायोत्सर्गस्थं प्रभुं समुपाययौ । आगत्य चाऽङ्गुलीभिस्तृणं गृहीत्वा प्रभुं पप्रच्छ - "इदं तृणं मया च्छेत्स्यते न वा ?"
अत्र प्रश्ने तस्याऽयमभिप्रायोऽभवत् यदयं यथा वक्ष्यति तद्विपरीतमेवाऽहं करिष्यामि, तथा चाऽयं मिथ्यावादी स्यात् । तत: सिद्धार्थ उवाच- 'त्वयेदं न च्छेत्स्यते' । अच्छन्दकश्च तच्छ्रुत्वा तत्