________________
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः
ततो ग्राम्यानुज्ञया व्यन्तरं बोधयोग्यं जानन् प्रभुस्तनिकेतनैककोणे प्रतिमया तस्थौ ।
अथेन्द्रशर्मा सायं धूपादिकं कृत्वा सर्वान् पथिकान् ततो नि:सार्य च प्रभुमवोचत्-"इत आयतनात् त्वमपि निर्याहि, अयं हि क्रूरो व्यन्तरो रात्रौ तव मृत्युप्रदो भावी" । प्रभुश्च तच्छ्रुत्वाऽपि मौनेन तस्थौ । ततः स व्यन्तरोऽचिन्तयत्-"अहो ! अयं कोऽपि मुमूर्षुर्मदायतनमागतोऽस्ति, ग्राम्यैर्मत्पूजकेन चाऽपि निषिद्धोऽपि दर्पवशादत्र स्थितोऽस्ति, तदस्य दर्पमपहरामि" । ततो देवपूजके गते सूर्ये चाऽस्तमिते प्रभौ च कायोत्सर्गस्थे स व्यन्तरोऽट्टहासमकरोत् । तेनाऽतिभयानकेनाऽट्टहासेन नभोमण्डलं व्याप्तम् ।।
ग्राम्याश्च मिथ ऊचु:-"स देवार्योऽद्य निश्चयं व्यन्तरेण हन्यते" । तत्र पार्श्वतीर्थसाधुरुत्पलाख्यो निमित्तज्ञानी लोकमुखाद् देवार्यवृत्तान्तं ज्ञात्वा चरमस्तीर्थकरो भवेदिति शङ्कयाऽऽकुलो जातः । प्रभुश्च यदाऽट्टहासरवैरपि न चकम्पे, तदा च महाभयङ्करं गजरूपं पिशाचरूपं च विकृतवान् । तेनाऽप्यकम्पिते प्रभौ स सर्परूपं विकृत्य भोगेन प्रभुमावेष्ट्य दशनैर्ददंश । तेनाऽप्यक्षुब्धे प्रभौ स प्रभोः शिरःप्रभृतिषु सप्तस्वङ्गेषु सप्त वेदनाश्चकार । प्रभुश्च युगपज्जाता अपि ता वेदना अधिसेहे । ततः श्रान्तो व्यन्तरः प्रभु नत्वा कृताञ्जलिरुवाच-"तव शक्तिमजानता दुरात्मना मया बह्वपराद्धं तत् क्षमस्व" ।
तदानीमेव च सिद्धार्थदेवः स्वकार्याकुलचित्तः प्रभुसामीप्यविषयकमिन्द्रनिदेशं स्मृत्वाऽऽगत्योवाच-"अरे ! सुराधम ! शूलपाणे! एतत् त्वया किं कृतम् ? सिद्धार्थनृपपुत्रं जगत्पूज्यं तीर्थकरं किं न
दशमं पर्व - तृतीयः सर्गः जानासि ? यदि प्रभुभक्तः शक्रस्त्वच्चरितं ज्ञास्यति तदा त्वं वज्रप्रहारपात्रं भविष्यसि" । ततो भयाच्छूलपाणि: पश्चात्तापाकुल: पुन: प्रभुं क्षमयामास । ततः शान्तं तं व्यन्तरं सिद्धार्थोऽवादीत्"त्वं तत्त्वानभिज्ञोऽसि, तद् यथायथं तत्त्वं श्रृणु । वीतरागे देवमतिः, साधुषु गुरुबुद्धिर्जिनप्रणीते धर्म धर्मबुद्धिरिति मनसि स्थापय । तदतः परं प्राणिपीडां त्यज, पूर्वदुष्कृतं च निन्दः, यत एकदा कृतस्य दुष्कर्मणः कोटिकोटिदुर्विपाकं प्राणी प्राप्नोति" ।
शूलपाणिश्च तच्छ्रुत्वा स्वयं कृतमनेकप्राणिवधं स्मरन् पश्चात्तापयुतः स्वं बहु निनिन्द । तत: सम्यक्त्वसम्पन्नो भवविरक्तः स प्रभोः पादान् पूजयित्वेन्द्रियमलमार्जनजलसङ्गीतमारेभे । ग्राम्याश्च तच्छ्रुत्वा दम्यु:-"नूनं स व्यन्तरो देवार्य हत्वा सम्प्रति रमते" । प्रभुरपि च किञ्चिद् न्यूनयामचतुष्टयं यावत् तेन कर्थितः श्रान्तो निद्रितो दश स्वप्नान् ददर्श-"वर्धमानस्तालपिशाचः स्वयं मृतः, स्वसन्निधौ सेवमानौ श्वेतचित्रौ कोकिलौ, सुगन्धि दामद्वयं, सेवापरो गोवर्गः, पद्मव्याप्तं पद्मसरो, बाहुभ्यां तीर्णः सागर, ऊर्ध्वरश्मिकं सूर्यमण्डलं, मानुषोत्तरपर्वतो निजान्त्रैर्वेष्टित: स्वेनाऽऽरूढं मेरुशिखरं चेति दश स्वप्नान् दृष्ट्वा प्रभुर्गतनिद्रोऽभूत् । सूर्योदयश्च जातः ।
तदानीं चेन्द्रशर्मोत्पलोऽन्ये च जनास्तत्राऽऽययुः । प्रभु स्वस्थं पूजितं च दृष्ट्वा मुदितास्ते सविस्मया: पुष्पाद्यैः पूजयित्वा जितयुद्धा वीरा इव सिंहनादं विधाय मिथ ऊचुः-"साम्प्रतं देवार्येण दिष्ट्या स व्यन्तर उपशमितः” । उत्पलोऽपि प्रभुमुपलक्ष्य वन्दित्वा शिष्यवत् समीपे उपविवेश । पुन: कायोत्सर्गान्ते उत्पल: प्रभुं नत्वा ज्ञानसामर्थ्यात् प्रभुस्वप्नं ज्ञात्वोवाच-"स्वामिन् ! यद्यपि निशान्ते दृष्टानां स्वप्नानां फलं स्वयं जानासि तथाऽपि भक्त्या