________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
गृहस्थस्य विनयो न कार्य" इति च । एवमिमानभिग्रहान् गृहीत्वा वीरप्रभुरर्धमासात् पश्चात् प्रावृष्यपि अस्थिकग्रामाख्यं ग्रामं ययौ । ***
२८
तत्र चैकस्य शूलपाणियक्षस्य मन्दिरे वासं कर्तुं प्रभुग्रमीणान् पप्रच्छ । ततो ग्राम्या ऊचुः - " अयं यक्षोऽत्र कस्याऽपि वासं न दत्ते । यक्षस्येयं कथा श्रूयताम्- 'पूर्वमयं ग्रामो वर्धमाननाम्ना ख्यातोऽभूत् । अत्र च वेगवत्याख्या पङ्किलतटा नद्यस्ति । तत्र धनदेवाख्यो वणिक् भाण्डपूर्णैः शकटानां पञ्चभिः शतै:' सह समागत: । तस्य चैको महावृषभ आसीत् । तमग्रे कृत्वा स शकटानि विषमाया अपि नद्या उत्तारयामास T स महोक्षश्चाऽतिभाराकर्षणेन हेतुना मुखेन रुधिरं वमन् भूमौ पपात । ततः स वणिग् ग्राम्यानेकत्र कृत्वा तद्वृषभसमक्षमुवाच - "अयं वृषभो मम जीवितमिव भवद्भिः पालनीयः " । तत: स वणिक् तस्य वृषभस्य तृणाद्यर्थं बहु धनं ग्राम्याणां ददौ । स वणिक् स्वयमपि च तृण - पानीयदानेन महोक्षं परितोष्याऽन्यतो ययौ ।
अथ ग्राम्याः तद्धनमादायाऽपि तृणादिना वृषभं न पालयामासुः । ततः क्षुत्-पिपासादिपीडितः कृशाङ्गः स वृषभो दध्यौ - इमे ग्राम्या अतिनिष्ठुरा धूर्त्ताः क्रूराश्च । यतो दयया स्वयं मम पालनं दूरेऽस्तु, मत्स्वामिदत्तं तृणादिमूल्यमप्येभिः स्वयं जग्धम्" । एवं चिन्तयन् स वृषभः क्रुद्धोऽकामनिर्जरापरो मृत्वाऽत्रैव ग्रामे शूलपाण्याख्यो व्यन्तरो जातः । ततः स विभङ्गेन स्वं पूर्वं जन्म ज्ञात्वा तद्गोशवं च दृष्ट्वाऽस्मै ग्रामाय क्रुद्धो मारिं विकृत्य बहून् ग्राम्यानमारयत् । ततो ग्राम्या निमित्तज्ञं पृष्ट्वा शान्तिकं कर्म चक्रुः, गृहदेवीनां विविधां पूजां च चक्रुः । तथाऽपि मारिर्नोपशान्ता । ततो ग्रामान्तरं पलायमाना अपि ग्राम्याः क्रुद्धेन तेन मारिता: ।
दशमं पर्व तृतीयः सर्गः
ततो ग्राम्या दध्युः - " अस्माभिः कोऽपि देवादिर्विराधितः, तत्तत्रैव ग्रामे तत्प्रसादनाय यामः " । एवं ध्यात्वा ते पुनर्मिलित्वा चाऽत्र समागत्य स्नानपूर्वकं वस्त्रादिकं परिधाय चत्वरादिषु भूतगृहेषु च सर्वतो बलि क्षिपन्त ऊर्ध्वमुखा दीना ऊचुः- “भोः सुरा ! प्रमादाद् मत्कृतानपराधान् क्षाम्यन्तु भवद्भ्यो नमोऽस्तु" । ततो गगनस्थः स व्यन्तरोऽवोचत्-"अरे निष्करुणाः पापा: ! अधुना क्षमां याचध्वे किन्तु तदानीं क्षुत्-पिपासादिपीडितस्य वृषभस्य वणिजा धने दत्तेऽपि किं न तृण पानीयादिकं दत्तम् ? स एव मृत्वाऽहं शूलपाणिनामा व्यन्तरो जातोऽस्मि, तेन वैरेण युष्मान् मारयामि" ।
तच्छ्रुत्वा च ते ग्राम्यास्तस्मै धूपादिकं ददाना भूतले लुठन्तो दीनमुखा: पुनरूचु: - " अस्माभिरवश्यमपराद्धं, तथाऽपि क्षमां कुरु, अनन्यशरणा वयं त्वां शरणं प्रपन्नाः स्मः " । ततस्तद्वचसा किञ्चिच्छान्तो व्यन्तरोऽवोचत् - "अमूनि मनुष्यास्थीनि सम्प्रति राशीकृत्य तस्योपरि निकेतनं विधाय तन्मध्ये मम वृषभरूपानुगतां मूर्त्तिं स्थापयत । यद्येवं कुरुथ तदा वो जीवनदानं करिष्ये नाऽन्यथा " ।
ततस्ते ग्राम्यास्तथा चक्रुः । तत्पूजार्थं च ग्राम्या इन्द्रशर्माख्यं विप्रं सवेतनदानं समादिदिशुः । तत्प्रभृति च लोकेऽत्राऽस्थिसञ्चयोऽस्तीति कृत्वा वर्धमानाख्योऽपि स ग्रामोऽस्थिकाख्यया ख्यातः । अत्र ये श्रान्ताः कार्पटिका रात्रौ वसन्ति तान् शूलपाणिस्तद्रात्रावेव हन्ति । तदत्र लोको दिन एव तिष्ठति, पूजक इन्द्रशर्माऽपि सायं स्वगृहं याति । तस्माद् भवतोऽत्र वासो नोचितः । ते पृथगेव वासं ददुः । प्रभुस्तु तदगृहीत्वा यक्षगृह एव वस्तुमयाचत