________________
पुरुष-गद्यात्मकसारोद्धारः
व्यन्तरेषु जातं प्रभोर्मातृष्वस्रीयं सिद्धार्थमादिशत्- 'य: प्रभोर्मारणात्मकमुपसर्गं करोति स त्वया प्रभोः पार्श्ववर्तिना निवारणीयः' । एवमुक्त्वा शक्रः स्वस्थानमगात् । सिद्धार्थामरश्च तत् प्रपन्नवान् ।
२६
अथ प्रभुः षष्ठपारणार्थं कोल्लाकग्राममगात् । तत्र च प्रभुर्वीरो बहुलाख्यस्य विप्रस्य गृहे शर्करादिमिश्रितेन परमान्नेन पारणं चकार । ततस्तद्विप्रगृहे देवैः कृतानि वसुधाराप्रभृतीनि पञ्च दिव्यान्युदभूवन् । ततः प्रभुर्निरीहः समदृष्टिर्भव्यजनान् प्रबोधयन् वायुरिवाऽप्रतिहतगतिर्महीं विजहार । तत्र च प्रभुं दीक्षावसरकृतदिव्यविलेपनसौरभ्याकृष्टा भ्रमरा उपदुद्रुवुः । ग्राम्या युवानश्च तादृशगन्धयोगं प्रार्थयामासुः । स्मराकुलास्तरुण्यश्चाऽङ्गसङ्गं प्रार्थयामासुः । दीक्षादिनात् प्रभृति साधिकं मासचतुष्टयं यावदेवं प्रकारानुपसर्गान् वीरप्रभुगिरिरिव स्थिरः सेहे ।
अथाऽन्यदा प्रभुविहरन् मोराके विषये दुइज्जन्तकाख्ये तापसग्रामे ययौ । तत्र च पितृमित्रं कुलपति: प्रभोरुपस्थानमकरोत् । प्रभुरपि पूर्वाभ्यासवशात् तस्मिन् बाहुं प्रसारितवान् । कुलपतिना प्रार्थितश्च प्रभुस्तत्रैकां रात्रिमेकरात्रिक्या प्रतिमया तस्थौ । विहारोद्यतं प्रभुं कुलपतिरुवाच - "त्वयेहैकान्तस्थाने वर्षाकालो गमनीयः” । वीतरागोऽपि प्रभुस्तदाग्रहात् तत् स्वीकृत्याऽन्यतो ययौ । विहरन् ग्रीष्मकालमतीत्य च प्रभुः सिद्धार्थमित्रस्य तस्य कुलपतेर्वचनं स्मरन् वर्षाकालमतिवाहयितुं मोराकमगात् । कुलपतिश्च प्रभोर्निवासाय तृणाच्छादितमेकं गृहमार्पयत् । प्रभुश्च तत्र योगमग्नः प्रतिमया तस्थौ ।
तत्र च ग्रीष्मप्रभावाद् वने निस्तृणे वर्षाकालस्य नवत्वाद् नवे तृणे अप्ररोहति गावस्तापसानां तृणोटजान् खादितुमधावन् । तेन
दशमं पर्व - तृतीयः सर्गः
तापसा निर्दयास्ता गा यष्टिभिरताडयन् । तैर्हन्यमाना गावस्तांस्तृणोटजान् विहाय स्वाम्यधिष्ठितं तृणोटजं प्रभौ प्रतिमया स्थिते निर्भयमखादन् । तद् दृष्ट्वा च तापसाः क्रुद्धा अब्रुवन्- "वयं निजोटजान् रक्षामः, अयं पुनः स्वमुटजं न रक्षति । अहो ! कुलपतेः कीदृशोऽयमतिथिः यस्य पश्यत एव गाव उटजं चखादुः, स्वार्थपरायणतां धिक्, वयं किं कुर्महे, अयं कुलपतेः प्राणप्रियः, तद्भयात् किमपि परुषं वक्तुं न समर्थाः " ।
तदेवं प्रभौ जातमत्सरास्ते तापसा अन्यदा कुलपतेः पार्श्व गत्वा सोपालम्भमवदन् - " त्वयाऽऽ श्रमे कोऽयं निर्ममः श्रमण आनीतः ? यस्मिन्निह वसत्यप्युटजस्य नाशोऽभूत् । सोऽकृतज्ञोऽलस उदासीनो दाक्षिण्यविहीनश्चाऽस्ति । यतो भक्ष्यमाणं स्वौटजं गोभ्यो न रक्षति । अयं मुनिंमन्यः समताशीलत्वाद् वा न निवारयति, गुरुदेवार्चनरता वयं किं मुनयो न स्मः” । ततः कुलपति: प्रभुसमीपं गत्वा निस्तृणमुटजं दृष्ट्वा तापसाः "सत्यवचसो न मात्सर्यपरीता " इति चिन्तयन् प्रभुमुवाच - "तात ! त्वयाऽयमुटजो गोभ्यः किं न रक्षित: ? त्वत्पित्रा यावज्जीवं सर्वे आश्रमा रक्षिताः, तवाऽपि दुष्टशासनरूपं व्रतं युज्यते । पक्षिणोऽपि स्वं नीडमात्मानमिव रक्षन्ति, त्वया विवेकिना सता हन्त किमयमाश्रम उपेक्षितः" । एवं स कुलपतिः स्वयोग्यां शिक्षां दत्त्वा सिद्धार्थमैत्रीं स्मरन् स्वमाश्रमं ययौ ।
अथ प्रभुश्चिन्तयामास - "मन्निमित्तमेषामप्रीतिः, तत्सर्वलोकहितेच्छोर्ममाऽत्र स्थितिर्नोचिता" । एवं विचार्य प्रभुर्नितरां विरक्तः पञ्चाऽभिग्रहान् जग्राह -"अप्रीतस्य गृहे कदाऽपि न वस्तव्यं, सर्वदा कायोत्सर्गेणैव स्थेयं, प्रायो मौनेन स्थेयं, पाणिपात्रे भोक्तव्यं,