________________
तृतीयः सर्गः अथ प्रभुर्वीरो भ्रातरं नन्दिवर्धनमन्यांश्च ज्ञातवंश्यानन्यतो गन्तुमापप्रच्छे । तदानीं गृहीतव्रतं विहारोत्सुकं प्रभुं नत्वा पितुमित्रं वृद्धो विप्रः सोमोऽब्रवीत्-'स्वामिन् ! अयं स्वः परो वेत्यनपेक्ष्य वार्षिकदानमदाः, येन जगतो दारिद्रं विनष्टम् । परमेकोऽहमेव मन्दभाग्योऽवशिष्टोऽस्मि, अहं जन्मतो दारिछपीडितो ग्रामाद् ग्राम भिक्षार्थं भ्रमामि । तत्र च निर्भर्त्सनादिना विविधापमानं सहे । तथाऽपि धनाशया भ्रमतो मेऽजानत एव तव वार्षिकं दानं गतम् । अद्याऽपि मयि कृपां कुरु, दानं देहि, पत्न्या निर्भयं तवाऽन्तिकं प्रेषितोऽस्मि" ।
ततो वीरप्रभुरुवाच-'अहं सम्प्रति त्यक्तसङ्गोऽस्मि, तथाऽपि स्कन्धस्थितस्य ममाऽस्य वस्त्रस्याऽधं गृहाण' । ततो हृष्टो विप्रस्तद्वस्त्रार्धमादाय गृहं गत्वा तद्दशाबन्धनार्थं तद्वस्त्रं तुन्नवायस्याऽदर्शयत् । स च तुनवायो वस्त्रार्धमिदं वीरप्रभोराप्तमिति विप्रेण ज्ञात्वोवाच-वस्त्रस्य द्वितीयार्धमप्यानय, वीरप्रभोरनुपदं याहि । भ्रमतस्तस्य तद्वस्त्रार्धं कण्टकादिषु लगित्वा पतिष्यति, वीरप्रभुश्च निःस्पृहत्वात् पुनस्तद् न ग्रहीष्यति, त्वं च तदादायाऽत्राऽऽनयेः । ततोऽहं दलद्वयं सन्धाय पूर्णीकरिष्यामि, तेन चैतस्य वस्त्रस्य दीनारलक्षं मूल्यं भविष्यति, सोदरौ भ्रातराविवाऽऽवामर्धमधू ग्रहीष्याव" इति । विप्रश्च तथाऽस्त्वित्युक्त्वा प्रभोरनुपदं जगाम ।
दशमं पर्व - तृतीयः सर्गः
अथ प्रभुरीर्यासमितः सायं कूर्मारग्रामं प्राप्तवान् । तत्र च नासाग्रस्थिरदृष्टिः प्रलम्बितबाहुयुगल: प्रभुः स्थाणुरिव निश्चल: प्रतिमया तस्थौ । तदानीं च कोऽप्येको गोपो दिनं वृषभान् वाहयित्वा ग्रामसीमनि प्रभुसमीपं प्राप्तो दध्यौ-'मम वृषभा अत्र ग्रामसीन्येव चरन्तु, अहं पुनाममध्ये गत्वा गवां दोहनं करिष्यामि" । एवं ध्यात्वा स ग्राम प्रविवेश । वृषभाश्च गोपं विना काननं प्रविविशुः । गोपश्च ग्रामादागत्य स्वामिनं वीरं क्व मे वृषभा इति पप्रच्छ । स्वामी च न किमपि प्रत्युदतरत् ।
मौनिनि प्रभौ चाऽयं न वेत्तीति विचारयन् स गोपो वृषभानन्वेषयंस्तां रात्रि गमयामास । वृषभाश्चाऽपि वनं भ्रान्त्वा प्रभुसमीपमागत्योपविश्य रोमन्थायमाना अव्यग्रास्तस्थुः । स गोपश्चाऽपि भ्रान्त्वा तत्राऽऽगत्य वृषभान् दृष्ट्वाऽचिन्तयत्-"प्रभाते हतुकामेनाऽनेन नूनं वृषभा हृताः" । एवं विचार्य स सहसा बन्धनरज्जुमुत्क्षिप्य सक्रोधः प्रभुं हन्तुमधावत । तदानीमेव च शक्रोऽचिन्तयत्-'प्रथमेऽह्नि प्रभुः किं करोति' । एवं चिन्तयंश्च शक्रस्तं हन्तुमुद्यतं गोपमपश्यत् । ततः शक्रस्तं सद्यः स्तम्भयित्वा तत्राऽऽगत्य 'रे पाप ! सिद्धार्थनूपपुत्रममुं न जानासी'त्यतर्जयत् । पश्चाच्च त्रिः प्रदक्षिणीकृत्य प्रणम्य च शक्रः प्रभुं विज्ञपयामास"द्वादशवर्षाणि यावदुपसर्गपरम्परा भविष्यति, तदहं पारिपार्श्वको भूत्वा निषेधितुमिच्छामि" ।
ततो वीरप्रभुः समाधि पारयित्वेन्द्रमुवाच-"जिनाः क्वचिदपि परसाहाय्येच्छां न कृतवन्तः, एतत् कदाऽपि न भूतं भवति भविष्यति वा यज्जिनाः परसाहाय्यात् केवलं प्राप्नुवन्ति । ते स्ववीर्येणैव केवलं प्राप्य परमं पदं यान्ति" । ततः शक्रो बालतपसा