________________
२५२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तथा दीर्घदन्त-गूढदन्त-शुद्धदन्त-श्रीचन्द्र-श्रीभूति-श्रीसोमपद्म-महापद्म-दशम-विमल-विमलवाहना-ऽरिष्टाख्याश्चक्रिणश्च क्रमाद् भाविनः । तथा नन्दि-नन्दिमित्र-सुन्दरबाहु-महाबाहुअतिबल - महाबल - बल-द्विपृष्ठ - त्रिपृष्ठाख्या नवाऽर्धचक्रिणो भविष्यन्ति । तथा बलरामा अपि क्रमशो वर्धमानप्रकर्षा जयन्ताऽजित-धर्म-सुप्रभ-सुदर्शना-ऽऽनन्द-नन्दन-पद्म-सङ्कर्षणाख्या भविष्यन्ति । प्रत्यर्धचक्रिणश्च तिलक-लोहजङ्ग-वनजङ्ग-केसरिबलि-प्रहलादा-ऽपराजित-भीम-सुग्रीवाख्या भाविनः । एवमेते उत्सर्पिण्यां त्रिषष्टिः शलाकापुरुषाः" ।
___ एवमुक्तवन्तं श्रीवीरजिनं सुधर्मा गणधरो नत्वा केवलादिभ्यः किं कुत्रोच्छेदं प्राप्स्यतीति पप्रच्छ । ततः श्रीवीरजिन उवाच-मम निर्वाणात् कियत्यपि काले गते जम्बूनाम्नस्तव शिष्यादूवं केवलं न भविष्यति । केवले उच्छिन्ने च मनःपर्यायः, पुलाकलब्धिः, परमावधिश्च, क्षपकोपशमश्रेण्यावाहारकं शरीरं, जिनकल्पः, संयमत्रयं चोच्छेदमेष्यन्ति । तव शिष्यो जम्बूश्चतुर्दश पूर्वभृत् सिद्धिमेष्यति । जम्बूशिष्यः प्रभवश्च सर्वपूर्वभृद् भविष्यति । तच्छिष्यः शय्यम्भवो द्वादशाङ्गभृद् भविष्यति । स श्रुताब्धेरुद्धृत्य दशवैकालिकं ग्रन्थं करिष्यति । तच्छिष्यो यशोभद्रः सर्वपूर्वभृद् भावी । तच्छिष्यौ सम्भूत-भद्रबाहू अपि सर्वपूर्वभृतौ भविष्यतः । सम्भूतशिष्यः स्थूलभद्रः सर्वपूर्वभृद् भविष्यति । ततः परमन्तिमा चतुःपूर्वी व्युच्छेदं यास्यति । ततः परं महागिरि-सुहस्त्याद्या वज्रान्ता दशपूर्विणस्तीर्थस्याऽस्य प्रवर्तका भविष्यन्ति" ।
एवमुक्त्वा प्रभुः समवसरणाद् निर्गत्य हस्तिपालनृपस्य शुल्कशालां गत्वा रात्रावात्मनो मोक्षं ज्ञात्वा दध्यौ-"अहो ! गौतमस्य मयि निरपायो महान् स्नेहः । स च तस्य केवलज्ञान
दशमं पर्व - त्रयोदशः सर्गः विघ्नभूतः समुच्छेद्यः" । एवं विचार्य वीरप्रभुर्गौतममुवाच"परस्मिन् ग्रामे देवशर्मा द्विजोऽस्ति, स त्वया बोधं प्राप्स्यति, तदर्थं त्वं तत्र गच्छ” । गौतमश्च प्रभोरादेशः प्रमाणमित्युक्त्वा प्रणम्य च गत्वा प्रभुवचनं पालयामास ।
*kat अथ प्रभुस्तदानीं कार्तिकामावास्या रात्रेश्चरमे क्षणे स्वातिनक्षत्रे प्रवर्त्तमाने कृतषष्ठो भविष्यत्कल्याणप्रदानि पञ्चपञ्चाशमध्ययनानि सद्य: फलप्रदानि च तानि तावन्ति जगौ । प्रश्नव्याकरणवण षट्त्रिंशतमध्ययनान्युक्त्वा त्रिभुवनगुरुर्वीरजिनः प्रधानं नामाऽध्ययनं भावयामास । सुरेन्द्रादयश्च प्रभोर्वीरजिनस्य निर्वाणसमयमासनकम्पतो ज्ञात्वा सपरिच्छदास्तत्राऽऽजग्मुः ।
तत्र शक्रोऽश्रुपूर्णनेत्रो वीरजिनं प्रणम्य कृताञ्जलिरुवाच"प्रभो ! तव गर्भे जन्मनि दीक्षायां केवले च हस्तोत्तरनक्षत्रमभूत् । अधुना तु भस्मकग्रह उदेष्यति । तव विपद्यमानस्य जन्मनक्षत्रं क्रामन् सोऽशुभग्रहो वर्षाणां सहस्रद्वयं यावत् तव सन्तानं बाधिष्यते । ततस्विजगदीश ! तस्य दुर्ग्रहस्य सङ्क्रमणक्षणं प्रतीक्षस्व । यथा स त्वत्प्रभावेन विफलो भविष्यति । ये हि त्वां हृदि धारयन्ति तेषां दुःस्वप्ना अपशकुनानि दुर्ग्रहाश्च शुभतां यान्ति । यत्र तु त्वं साक्षात् स्थितो भवसि तस्य किं वक्तव्यम् ? ततः प्रसीद, क्षणं तिष्ठ, यथा दुर्ग्रहोपशमोऽस्तु" ।
ततो वीरप्रभुरुवाच-"शक्र ! कोऽप्यायुः सन्धातुं नेश्वरः, तदेतज्जानन्नपि तीर्थप्रेममोहितः किमेवं वदसि ? दुःषमायाः प्रवर्त्तनात् तीर्थबाधा भाविन्येव । तद्भवितव्यतानुसारेण भस्मकग्रहोदयोऽभूत् । एवं शक्रं बोधयित्वा प्रभुः सार्धषण्मासोनां त्रिंशद्वर्षी केवलित्वे