________________
पुरुष-गद्यात्मकसारोद्धारः
मत्स्यादीन् गृहीत्वा स्थले स्थापयिष्यन्ति । दिवसे च सूर्यतापपक्वांस्तानन्यरात्रिमध्ये भक्षयिष्यन्ति । एवमेव ते सदाऽपि भोक्ष्यन्ति । तदानीं दध्यादिकं पुष्पं फलमन्नं शय्या - ऽऽसनादिकं वा न स्यात् । भरतैरवतैषु दशस्वप्येवं दुःषमा स्यात् । अतिदुःषमाऽप्येकविंशत्यब्दसहस्रिका स्यात् ।
२५०
अवसर्पिण्यां हि यावन्त्योपान्त्यावरौ तावुत्सर्पिण्यां स्वप्रभावात् प्रथम-द्वितीयौ भवतः । उत्सर्पिण्यां दुःषमदुःषमान्त्यसमये पृथक् पृथक् सप्ताहवर्षिणः पञ्चमेघा भाविनः । तत्र प्रथमः पुष्करो मेघो भूमि निर्यापयिष्यति । द्वितीयः क्षीरधीराख्यो मेघो धान्यान्युत्पादयिष्यति, तृतीयो घृतमेघनामा मेघः स्नेहमुत्पादयिष्यति । चतुर्थोऽमृतमेघाख्यो मेघ औषध्यादिकं जनयिष्यति । पञ्चमो रसमेघाख्यो मेघश्च पृथिव्यादीनां रसं जनयिष्यति । एवं पञ्चत्रिंशतं दिनानि यावत् सौम्यदुर्दिना वृष्टिर्भविष्यति ।
बिलवासिनश्च वृक्ष - लतौषधि- हरितादिकं दृष्ट्वा मुदिता बिलेभ्यो निःसरिष्यन्ति । ते च वक्ष्यन्ति भरतभूमिः पुष्पफलादिसम्पन्ना जाता । अतः परं मांसं न भक्षणीयम् । यश्च मांसभोजी स परिहर्त्तव्यः " । यथा यथा च काल आगमिष्यति तथा तथा भरते रूप - संहनना -ऽऽयूंषि वृद्धिमेष्यन्ति । वाता ऋतवो जलानि च सुखकराणि भविष्यन्ति । क्रमेण च तिर्यञ्चो मनुष्याश्च निरामया भविष्यन्ति ।
दुःषमान्ते प्राग्भरतभूमिमध्ये सप्त कुलकरा भविष्यन्ति । ते च नाम्ना क्रमाद् विमलवाहनः सुदामा सङ्गमः सुपार्श्वो दत्तः सुमुखः संमुचिश्च । तत्र प्रथमो विमलवाहनो जातिस्मरो राज्यार्थं ग्राम-पुरादीन् निवेशयिष्यति । गजा ऽश्व - गवादीन् सङ्ग्रहीष्यति,
दशमं पर्व त्रयोदशः सर्गः
२५१
शिल्पानि प्रकटयिष्यति, व्यवहारं लिपीगणितादिकं च प्रकटयिष्यति । दुग्ध-दध्यादौ धान्येषु वह्नौ चोत्पन्नेषु स हितकृत् कुलकरो लोकानां रन्धनादिकमुपदेक्ष्यति । दुःषमायां व्यतीतायां शतद्वारे महानगरे भद्राख्यायां भार्यायां संमुचेर्नृपस्य पुत्रः श्रेणिकजीव: पद्मनाभो जन्म- मानादिना मम तुल्यस्तीर्थकरो भविष्यति । ततः परं च पूर्ववज्जिनेश्वरा भविष्यन्ति । ते च प्रातिलोम्येन पूर्वजिनसमाः स्युः ।
तत्र श्रेणिकजीवः पद्मनाभो जिनः प्रथमः सुपार्श्वजीवो द्वितीयः शूरदेवो जिनः, पोट्टलिजीवस्तृतीयः सुपार्श्वो जिन:, दृढायुषो जीवश्चतुर्थः स्वयंप्रभुर्जिनः कार्तिकजीवः पञ्चमः सर्वानुभूतिर्जिन:, शङ्खजीवः षष्ठो देवश्रुतो जिन: । नन्दजीवः सप्तम उदयाख्यो जिनः, सुनन्दजीवोऽष्टमः पेढालो जिन:, केकसीजीवः नवमः पोट्टिलो जिनः रेयलीजीवः दशमः शतकीर्त्याख्यो जिनः सत्यकिजीव एकादशः सुव्रतो जिन:, कृष्णस्य वासुदेवस्य जीवो द्वादशोऽममो जिनः ।
बलदेवस्य बलभद्रस्य जीवस्त्रयोदशो निष्कषायो जिनः, रोहिणीजीवश्चतुर्दशो निष्पुलाको जिनः, सुलसाजीव: पञ्चदशो निर्ममो जिन:, रेवतीजीवः षोडशश्चित्रगुप्तो जिनः, गवालिजीव: सप्तदशः समाधिर्जिनः, गार्गलिजीवोऽष्टादशः संवरो जिनः । द्वीपायनजीव एकोनविंशो यशोधरो जिनः कर्णजीवो विंशतितमो विजयो जिन: नारदजीव एकविंशो मल्लो जिन:, अम्बडजीवो द्वाविंशो देवो जिनः, द्वारमदजीवस्त्रयोविंशोऽनन्तवीर्यो जिनः, स्वातिजीवश्चतुर्विंशो भद्रकृदाख्यो जिनः इत्येते जिना भाविनः ।