________________
२४८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मन्दमतिर्भावी । देवा: प्रत्यक्षा न स्युः । सुताः पितॄन् न मानयिष्यन्ति । स्नुषाः सीभूताः स्यः, श्वश्वश्च कालरात्रितल्या भविष्यन्ति । कुलवध्वश्च लुप्तलज्जा नेत्रविकारासैजल्पैरपरैविलासैश्च वेश्यामध: करिष्यन्ति ।
तदानीं च श्रावक-श्राविकाहानिश्चतुर्धा धर्मलोपश्च स्यात् । साधूनां साध्वीनां च पर्वदिनेष्वपि निमन्त्रणं न भवेत् । धर्मकार्येऽपि कूटतुली कूटमानं शाठ्यं च भावि । सज्जना दुःस्थाः स्युः, दुर्जनाः सुस्थाः स्थास्यन्ति । तदानीं च मणि-मन्त्रौषधि-तन्त्रविज्ञानानां धनानामायुषां फल-पुष्परसानां रूपस्य शरीरोन्नतेर्धर्माणां शुभभावनानामन्येषां च पञ्चमारके हासो भविष्यति ।।
षष्ठेऽरे च ततोऽप्यधिकतया तद्भावि । एवं काले गच्छति पुण्ये क्षीयमाणे यस्य मतिधर्मे भाविनी तस्य जीवितं सफलम् । दुःषमायां भारते दुःप्रसहाख्य आचार्यः, साध्वी फल्गुश्री गिल: श्रावकः, सत्यश्रीः श्राविका, विमलवाहनो नृपः, सुमुख्याख्यो मन्त्री चैते मुख्या भाविनः । ते च रनिद्वयप्रमाणदेहा विंशतिवर्षायुषश्च स्युः । दुष्प्रसहादीनां चतुर्णां षष्ठं सुख्यं तपः स्यात् । ____ तदानीं च दशवैकालिकज्ञ एव चतुर्दश पूर्वभृत् स्यात् । सदुष्प्रसहं यावत् सङ्घ तीर्थं च प्रबोधयिष्यति । ततोऽग्रे यो धर्मो नास्ति स एव धर्मः प्रवर्तेत । यश्चैष धर्मो नास्तीति वदिष्यति सङ्घन सङ्घबहिष्कृतो भविष्यति । दुष्प्रसहश्च गृहे द्वादशाब्दी व्रते चाऽष्टाब्दीमतीत्य पर्यन्तेऽष्टमभक्तेन विपद्य सौधर्म कल्पं गमिष्यति । तथा पूर्वाह्न चारित्रस्य मध्याह्ने राजधर्मस्याऽपराह्नेऽग्नेश्च समुच्छेदो भविष्यति । एवमेकविंशतिवर्षसहस्राणि दुःषमाकालः ।
दशमं पर्व - त्रयोदशः सर्गः
२४९ एकान्तदुःषमाकालोऽप्येतावान् भविष्यति । तत्र धर्मतत्त्वे समुच्छिन्ने जगति हाहाकारः प्रवर्तेत । लोकश्च पशुवद् माता-पुत्रादिव्यवस्थावर्जित: स्यात् । अनिलाश्च तीक्ष्णा रजोबहुला अप्रियाश्च वास्यन्ति । दिशश्च रात्रिन्दिवं भयङ्करा धूमायिताश्च स्युः । चन्द्रोऽतिशीतलान् किरणान् सूर्यश्चाऽत्युष्णान् प्रसारयिष्यति । लोकश्चाऽतिशीतोष्णबाधित: क्लेशमेष्यति । तदानीं च मेघा विरसाः क्षारमेघा अम्लमेघा विषमेघा अग्निमेघा वज्रमेघाश्च स्वस्वानुरूपं वर्षिष्यन्ति । येन लोकानां कास-श्वास-शूल-कुष्ठ-जलोदर-ज्वरशिरः पीडादयो महारोगा भविष्यन्ति । जल-स्थला-ऽऽकाशचारिणस्तिर्यञ्चो दुःखेन स्थास्यन्ति । क्षेत्र-वन-वाटिका-तरु-तृण-लतादीनां संक्षयो भवेत्। वैताढ्यमृषभकूटं गङ्गां सिन्धुं च विहाय सर्व पर्वत-गर्त्त-नद्यादिकं समीभविष्यति । भूमिश्च कदाचिद् रजोबहुला कदाचित् कर्दमबहुला कदाचिदङ्गारमर्मरसन्निभा भस्मरूपा च भविष्यति ।
पुरुषाः स्त्रियश्च रलिप्रमाणा दुर्वर्णाः परुषोक्तिपरा रोगपीडिताः क्रोधिनस्तारस्वराश्चिपिटनासिका निर्लज्जा वस्त्रपरिधानहीनाः स्युः । तत्र पुरुषाणामायुर्विशतिः वर्षाणि, स्त्रीणां च षोडशवर्षाणि स्युः । स्त्री षड्वर्यैव गर्भ धारयिष्यति दुःखप्रसवा च भविष्यति । षोडशाब्दिकाश्च पुत्र-पौत्रादिपरिवृताः स्थविराः स्युः । वैताढ्यपर्वते च बिलवासा भविष्यन्ति । तत्र बीजमात्रप्रमाणास्तिर्यञ्चो भविष्यन्ति । तदानीं च सर्वे मनुष्याद्या मांसभक्षणपरायणाः क्रूरा विवेकवर्जिता भविष्यन्ति।
तदानीं गङ्गा-सिन्धुनद्योर्जलं रथमार्गमात्रं स्यात् । तच्च स्यन्दन्मत्स्यकच्छपव्याप्तं स्यात् । तत्र मनुष्या रात्रावागत्य