________________
२४६
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
तन्नगरं नवं करिष्यति । तत्र चैत्यानि भविष्यन्ति मुनयो विहरिष्यन्ति । सस्यसमृद्धिसाधनं वारिदश्च काले वर्षिष्यति । तदानीं च द्रम्मेण कुम्भलाभेऽपि जनः सस्यं न क्रेष्टाते । एवं कल्किनि शासति पञ्चाशदब्दीं सुभिक्षं भविष्यति ।
पुनरपि कल्किनृप आसन्नमृत्युः सर्वान् पाखण्डिनो मुनींश्च लिङ्गानि त्याजयेत्युपद्रोष्यति । तथा स ससङ्कं प्रातिपदमाचार्यं गोवाटके क्षिप्त्वा भिक्षायाः षष्ठं भागं याचिष्यते । ततः सङ्घः शक्राराधनार्थं कायोत्सर्गं करिष्यति । शासनदेव्यश्च कल्किनं न कल्याणायेदमिति बोधयिष्यन्ति । शक्रश्च सङ्घस्य कायोत्सर्गप्रभावेण कम्पितासनो वृद्धब्राह्मणरूपेणाऽऽगत्य सभायां सिंहासनासीनं कल्किनृपं कथयिष्यति–" कथं नु त्वयैते मुनयो रुद्धा: ?"
ततः कल्की कथयिष्यति "मन्नगरवास्तव्या इमे भिक्षाषष्ठांशमपि करं न यच्छन्ति । पाखण्डा हि सर्वे मम करदाः, अमी नैव । दुष्टा गौरिव बलाद् दोग्धुं वाटके निरुद्धाः " । ततः शक्रस्तं वदिष्यति - " एषां न किमप्यस्ति एते भिक्षांशमपि न कदाऽपि कस्याऽपि दास्यन्ति । भिक्षुभ्यो भिक्षांशं याचमानस्त्वं किं न लज्जसे ? तदमून् मुञ्च । अन्यथा तव महाननर्थो भावी ” । तद्वचसा कुपितश्च कल्की भटान् द्विजं गलहस्तेन निर्वासयितुमादेक्ष्यति ।
ततश्च शक्रः पापं कल्किनं चपेटाप्रहारात् सद्यो भस्मसात्करिष्यति । एवं वर्षाणां षडशीतिमायुः पूरयित्वा कल्किनृपो दुष्परिणामायां नरकभूमौ नारको भविष्यति । शक्रश्च कल्किपुत्रं दत्तं जैनं धर्मं बोधयित्वा राज्ये स्थापयित्वा सङ्घ वन्दित्वा च स्वस्थानं गमिष्यति । दत्तश्च पितुर्घोरं पापफलं शक्रशिक्षां च स्मरन् महीं
दशमं पर्व त्रयोदशः सर्गः जिनचैत्यविभूषितां करिष्यति । ततः परं पञ्चमारकपर्यन्तं जिनधर्मस्य निरवच्छिन्ना प्रवृत्तिर्भाविनी ।
इदं भरतक्षेत्रमर्हत्काले ग्राम-नगरादिशोभितं धन-धान्यसमृद्धं स्वर्गतुल्यमभूत् । तस्मिन् काले ग्रामा नगरतुल्या, नगराणि स्वर्गसमानि, गृहमेधिनो नृपतुल्या, नृपाः कुबेरोपमा, आचार्याश्चन्द्रतुल्याः, पितरो देवतोपमाः, श्वश्वो मातृसदृश्यः श्वशुराः पितृनिभा, जनाः सत्यशौचपरा, धर्माऽधर्मविवेकसम्पन्ना, विनयिनो, गुरुदेवपूजका, स्वदारसन्तुष्टाश्चाऽभवन् । विज्ञानं विद्याकुलं च पूजितमासीत् । परचक्रेतिदस्युप्रभृतिभ्यो भयं नवः करश्च नाऽभूत् । नृपा जिनभक्ताः कुतीर्थिका निन्दिता उपसर्गादीनि दशाऽप्याश्चर्याणि च बभूवुः ।
२४७
ततः परं दुःषमायां कषायैर्लुप्तधर्माशयोऽपमर्यादश्च जनो भावी । क्रमशो गच्छति काले चोर्ध्वमूर्ध्वं लोकः कुतीर्थिकप्रतारितमतिरहिंसादिवर्जितो भावी । तदानीं च ग्रामाः श्मशानतुल्या, नगराणि प्रेतलोकतुल्यानि, कुटुम्बिनो दासोपमा, नृपा यमदण्डसदृशा भविष्यन्ति । नृपा हि लुब्धा निजभृत्यानां भृत्याश्च जनानां धनं ग्रहीष्यन्ति । एवं मात्स्यो न्याय: प्रवर्त्स्यति । येऽनृपास्ते मध्ये मध्याश्चाऽन्तिमा भाविनः । देशाश्च सदा दोलायिताः स्युः ।
तदानीं हि चौराश्चौर्याद् नृपाश्च करेण प्रजाः पीडयिष्यन्ति । व्यापारिणो भूतग्रहप्राया अधिकारिणो लञ्चालुब्धाश्च भविष्यन्ति । स्वार्थमात्रपरायणो जनः स्वजनविरोधी परार्थपराङ्मुखः सत्यलज्जा-दाक्षिण्यवर्जितश्च भावी । शिष्या गुरून् नाऽऽराधयिष्यन्ति । गुरुश्च शिष्येषु श्रुतज्ञानोपदेशं न करिष्यन्ति । एवं गुरुकुलवास: क्रमाद् विलुप्तः स्यात् । मही बहुसत्त्वव्याप्ता लोकश्च धर्मे