________________
दशमं पर्व - त्रयोदशः सर्गः
२४५
२४४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ भगवन्तं वीरजिनं प्रणम्य गणधरो गौतम उवाच"तृतीयारकपर्यन्तेऽर्हन्नृषभस्वाम्यभवत् । चतुथरि चाऽवसपिण्यां भवन्तं यावदजितादयस्त्रयोविंशतिरहन्तोऽभवन् । अतः परं पञ्चमारे दुःषमाख्ये यद् भावि कृपया तदाख्यातुमर्हसि" । ततो वीरजिन उवाच-"मम निर्वाणात् सार्धाष्टमाससहितेषु त्रिषु वर्षेषु गतेषु पञ्चमारकप्रवेशो भावी । मन्निर्वाणादेकोनविंशतौ वर्षशतेषु चतुर्दशाब्द्यां च गतेषु म्लेच्छकुले चैत्रमासेऽष्टमीदिने विष्टिकरणे पाटलिपुत्रे कल्की नृपो भावी । स रुद्रनाम्ना चतुर्मुखनाम्ना च ख्यातो भविष्यति ।
तदानीं च मथुरानगरे राम-कृष्णयोरायतनं वाताहतजीर्णवृक्षवदकस्माद् निपतिष्यति । काष्ठे घुणा इव च क्रूरमतिके तस्मिन् नृपे सदा क्रोध-मान-माया-लोभाः कषायाः स्वाभाविका भविष्यन्ति । तदानीं च लोके चौरनृपविरोधो नृपभयं गन्धरसक्षयो दुर्भिक्षमीतिरवृष्टिश्च भविष्यन्ति । तदानीं चाऽष्टादशाऽब्दानि मारी तावन्त्येव च महामारी भविष्यति । ततः परं च क्रूरात्मा कल्की नृपो भविष्यति । स च पुरे भ्रमन् पञ्चस्तूपान् निरीक्ष्य पार्श्वस्थान् जनान् केनैते निर्मिता इति प्रक्ष्यति । ____ ततस्ते कथयिष्यन्ति-"पुरा विश्वविख्यातो नन्दो नाम धनैः कुबेरतुल्यो नृपो बभूव । तेनेह स्तूपेषु भूरि हिरण्यं निक्षिप्तमस्ति । कोऽपि नृपोऽद्यावधि तदादातुं क्षमो न बभूव" । कल्की च तच्छ्रुत्वा स्वभावलुब्धस्तान् स्तूपान् खानयित्वा सुवर्णं ग्रहीष्यति । ततश्च स धनार्थी पुरं सर्वतः खानयिष्यति । सर्वान् नृपांश्च स तृणवद् गणयिष्यति । तदानीं च कल्किनृपेण खन्यमानाया: स्वनगरभूमेः प्रस्तरमयी लवणादेवी गौरुत्थास्यति । सा च चतुष्पथेऽवस्थिता
भिक्षार्थं गतागतं कुर्वतो मुनीन् शृङ्गाग्रभागेणाऽऽघट्टयिष्यति । तेन च वृद्धा "भाविनं जलोपद्रवमसौ सूचयति, तदन्यत्र क्वाऽपि व्रजते"ति वदिष्यन्ति ।
तच्छ्रुत्वा च कतिपये मुनयस्ततोऽन्यत्र विहरिष्यन्ति । कतिपये च भक्त-वस्त्रादिलुब्धास्तत्रैव स्थिताः कथयिष्यन्ति-"ननु यच्छुभमशुभं वा कालवशात् कर्मवशाद् वा भावि तद् निवारयितुमिन्द्रोऽपि न क्षमः" । कल्किनृपश्च सर्वान् पाखण्डिनः करं याचिष्यते । सारम्भपरिग्रहाश्च ते करं तस्मै प्रदास्यन्ति । ततः स लुब्धो नृपोऽन्यैः पाखण्डिभिः करो दीयते यूयं किं न दत्थेति वदन् मुनीन् रोत्स्यति । ततो मुनयस्तं वदिष्यन्ति-"नृप ! वयमकिञ्चनाः भिक्षासेविनो धर्मलाभं विहाय किमन्यत् तुभ्यं दद्महे । नृपो ब्रह्मनिष्ठान् मुनीन् रक्षन् तत्पुण्यषष्ठांशेन युज्यते इति पुराणेऽपि कथितमस्ति । तस्मादस्मादनाचाराद् विरम । अन्यथाऽनेन दुर्व्यवसायेन पुरे राष्ट्रे चाऽशुभं स्यात्" । एवं साधुवचनं श्रुत्वा स कल्किनृपो यमराज इव भ्रकुटीकरालमुख: कोपमेष्यति ।
ततस्तं नगरे देवता: "पाप ! मुनीन् याचमानो मर्तुकामोऽसि किमि"ति तर्जयिष्यन्ति । तत: सिंहगर्जनेन गज इव देवतावचसा भीत: स कल्की प्रणामपूर्वकं तान् मुनीन् क्षमयिष्यति । तदानीं च प्रतिदिनं कल्किनृपस्य पुरक्षयसूचका भूयांसो भयङ्करा उत्पाता भविष्यन्ति । तत्र च सप्तदशाऽहोरात्रान् मेघो वर्षिष्यति । गङ्गाप्रवाहश्च तटमतिक्रम्य तन्नगरं प्लावयिष्यति । तत्र चोच्चस्थले कोऽप्याचार्यः प्रातिपदाख्यः सङ्घलोको नगरजनश्च कल्किनृपश्च स्थास्यन्ति । सर्वतः प्रसरता गङ्गाप्रवाहजलेन बहवः पुरजना पञ्चत्वं यास्यन्ति । जलोपसर्गे निवृत्ते च कल्किनृपो नन्दद्रव्येण पुनरपि