________________
२४२
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
एव स्वशरीरोत्पन्नाः कृमय इव तद् नाशयिष्यन्ति । लिङ्गिनोऽपि च प्राक्प्रभावात् सिंहतुल्याः श्वापदसदृशैः कुतीर्थिकैर्न जातुचिदभिभवमेष्यन्ति । एतत् सिंहस्वप्नफलम् ।
कमलाकरेषु सुरभीणि कमलानीव सुकुलेषूत्पन्नाः प्राणिनो धार्मिका न भविष्यन्ति, धार्मिका अपि च कुसङ्गतो ग्रामावकरोत्पन्नगर्दभाब्जवदन्यादृशा भविष्यन्ति । तथा धर्मस्था अपि भव्यात्मानः कुदेशे कुकुले संजाता इत्येवमनुपादेया भविष्यन्ति । एतत् कमलस्वप्नफलम् ।
यथोषरे बीजबुद्धयोप्तमबीजं न फलाय तथा कुपात्रे कल्पबुद्ध्याऽकल्प्यानि वप्स्यन्ति । यथा वा कोऽपि कृषीवलोबुद्धिकृतमेव क्षेत्रे घृणाक्षरन्यायादबीजान्तर्गतं बीजं वपेत् तथा श्रावका अज्ञानाः पात्रे दानात्मकमकल्पनान्तर्गतं कल्पं करिष्यन्ति । एतद् बीजस्वप्नफलम् ।
क्षमादिगुणपल्लवोपेताश्चारित्रजलपूर्णा अल्पा एव मुनयो घटा इवैकान्तस्था भविष्यन्ति । तथा मलिना घटा इव शिथिलाचारचारित्रा लिङ्गिनो बहवो यत्र तत्र भविष्यन्ति । ते च द्वेषादिग्रस्ता मुनिभिः कलहं करिष्यन्ति । तेन च लोके द्वयोरेव साम्यं स्यात् । गीतार्था लिङ्गिनश्च साम्येनैव ग्रहिलेन जलेनाऽग्रहिलोऽपि ग्रहिलो नृप इव व्यवहरिष्यन्ति ।
तथाहि - पृथिवीपुरे पूर्णो नाम नृप आसीत् । तस्य च मतिमान् सुबुद्धिर्नाम सचिवोऽभवत् । स च निमित्तज्ञं लोकदेवं भाविनं कालं पप्रच्छ । ततो नैमित्तिक उवाच - "मासात् पश्चाद् महावृष्टिर्भविष्यति । तज्जलं च यः पास्यति स सर्वोऽपि ग्रहिलो
२४३
दशमं पर्व त्रयोदशः सर्गः भविष्यति । कियत्यपि काले गते च सुवृष्टिर्भविष्यति । तज्जलपानाच्च लोकः पुनः सज्जो भविष्यति ।
“तच्छ्रुत्वा च सचिवस्तद्वृत्तं नृपाय व्यजिज्ञपत् । नृपश्च पटहघोषणया तद्वृत्तं लोके ख्यापयित्वा तज्जलसङ्ग्रहार्थमादिदेश । लोकेऽपि तथा चकार । अनन्तरं च निमित्तज्ञोक्तदिने वृष्टिर्जाता । कियत्यपि काले गते च लोकानां प्राक् सङ्गृहीतं जलं समाप्तम् । नृपस्य सचिवस्य च केवलं सङ्गृहीतं जलमवशिष्टमासीत् । लोकाः सामन्तादयश्च प्राक् सङ्गृहीतजलव्ययादगत्या नवं जलं पपुः । तेन च ते सर्वे ग्रहिला जाता: स्वैरं ननृतुर्जगुर्जहसुर्विविधं विचेष्टयामासुश्च । केवलं नृपा - ऽमात्यावेव स्वस्थावभूताम् । ततस्ते सामन्ताद्या नृपाऽमात्यौ स्वविलक्षणौ दृष्ट्वा मन्त्रयामासुः - "नूनं नृपा-ऽमात्यौ ग्रहिलौ । तस्माद् विसदृशचेष्टिताविमौ दूरीकृत्याऽन्यौ स्वसदृशौ नृपाऽमात्यौ स्थापयिष्यामः " । मन्त्री च तेषामुक्तप्रकारं मन्त्रं ज्ञात्वा नृपायाऽऽख्यत् ।
ततो नृप उवाच-“कथं तेभ्य आत्मरक्षा कार्या ? लोकवृन्दं हि नृपवदेवाऽवशं भवति । ततो मन्त्र्युवाच - " ग्रहिलैः सह ग्रहिलीभूयैव कथञ्चित् स्थातव्यम् । अन्यो न कोऽपि त्राणोपायः । एतदेव समयोचितम्" । ततस्तौ नृपाऽमात्यौ कृत्रिमरूपेण ग्रहिलीभूय तेषां मध्ये निजसम्पदं रक्षन्तौ वर्तनं चक्रतुः । अनन्तरं च सुकाले जाते सुवृष्टौ सत्यां च नवोदकं पीत्वा सर्वे मूलप्रकृतिस्था: स्वस्था बभूवुः । एवमेव दुःषमाकाले गीतार्था लिङ्गिभिः सह सदृशीभूय शुभसमयं प्रतीक्षमाणाः स्थास्यन्ति" । एवं स्वप्नफलं श्रुत्वा महाशयः पुण्यपालः प्रबुद्धः प्रव्रज्यां गृहीत्वा क्रमाद् मोक्षं
प्राप ।