________________
त्रयोदशः सर्गः
अथ देवा अपापानगर्यां प्राकारत्रयविराजितं रमणीयं प्रभोः समवसरणं चक्रुः । प्रभुश्च निजायुषोऽन्तं ज्ञात्वा चरमां देशनां कर्तुं तत्र यथाविधि प्रविश्य रत्नसिंहासने प्राङ्मुख उपाविशत् । सुराऽसुरादयश्चाऽपि यथास्थानमुपविविशुः । अपापानगरेश्वरश्च हस्तिपाल: प्रभुं समवसृतं ज्ञात्वा समागत्य नत्वा पुर उपविवेश । ततश्च प्रभु नत्वा भक्त्या स्तुत्वा च विरम्य शक्रे निजासने समुपविष्टेऽपापापुरीपतिर्हस्तिपालनृपोऽपि भक्त्या स्तुत्वा निजासनमलञ्चकार । ततश्चरमतीर्थकृत् प्रभुर्वीरश्चरमां देशनामकरोत् ।
इह चत्वारः पुरुषार्थाः । तेषु प्राणिनां पुरुषार्थभूतौ कामा-ऽर्थों वस्तुतोऽनर्थभूतावेव । पारमार्थिकोऽर्थ एको मोक्ष एव । तस्य हेतुः संयमादिर्दशविधो धर्मः । संसारो दुःखभूयिष्ठः । मोक्षश्च शाश्वताऽनन्तसुखमयः । तत्र भवत्यागस्य मोक्षप्राप्तेश्च धर्मं विना न सम्भवः । यथा पगुरपि क्रमाद् दूरं मागं गच्छेत् तथा भूरिकर्माऽपि जनो धर्म श्रितो मोक्षमाप्नुयात्" । एवं देशनां कृत्वा प्रभुविरतवान् ।
अथ पुण्यपालाख्यो मण्डलेशो नत्वा प्रभुमुवाच-'भगवन् ! मयाऽद्य गजो वानरः क्षीरद्रुमः काकः सिंह: कमलं बीजं घटश्चेत्यष्टौ स्वप्ना दृष्टाः । तेन च भीतोऽहमिति तत्फलमाख्यातुमर्हसि" । ततः
दशमं पर्व - त्रयोदशः सर्गः
२४१ श्रीवीरजिन उवाच-"विवेकवन्तः सन्तोऽपि श्रावका अतः परं गजा इव क्षणिकसुखगृध्नवो भूत्वा गृहे निवत्स्यन्ति । परचक्रभये दौर्गत्ये वा समुपस्थिते प्रव्रज्यां न गृहीष्यन्ति गृहीतामपि च कुसङ्गवशात् त्यक्ष्यन्ति । विरला एव कुसङ्गे सत्यपि व्रतं पालयिष्यन्ति । एतद् गजस्वप्नफलम् ।
प्रायो वानरा इवाऽस्थिरपरिणामा अल्पसत्त्वा आचार्यप्रभृतयो गच्छस्था व्रते प्रमादिनो भविष्यन्ति । ते धर्मस्थानितरानपि विपरीतपरिणामान् करिष्यन्ति । विरला एव धर्मप्रयासपरायणा भविष्यन्ति । ये वा स्वयमप्रमादिनः शिथिलधर्मसूपदेशं प्रदास्यन्ति । ते ग्राम्यैर्गामस्थनागरवत् तैरुपहसिष्यन्ते । अतः परमेवमेव प्रवचनावज्ञा भविष्यति । एतत् कपिस्वप्नफलम् ।
क्षीरद्रुमतुल्या: शासनप्रभावका: श्रावकाः सुक्षेत्रे दातारः प्रतारणपरैलिङ्गिभी रोत्स्यन्ते । सिंहवत् सत्त्वशालिनोऽपि महामुनयस्तेषां कुमतीनां सारमेया इवाऽसत्त्वशीला: प्रतिभास्यन्ति । बबूरसमा लिङ्गिनः सुखविहितविहारक्षेत्ररीति ग्रहीष्यन्ति । एतत् क्षीरद्रुमस्वप्नफलम् ।
प्रायो धर्मार्थिनोऽपि मुनयो धृष्टस्वभावा दीर्घिकाजलेषु काका इव गच्छेषु न रंस्यन्ते । तथाऽन्यगच्छिकैः प्रतारणपरायणैः सह विहरिष्यन्ति । एभिर्गमनं युक्तमित्युपदेशकांश्च ते नितान्तमुपद्रोष्यन्ति । एतत् काकस्वप्नफलम् ।
सिंहतुल्यं निजमतं जातिस्मरणादिविरहितं सदस्मिन् धर्मज्ञवजिते भरतवने विनाशमेष्यति । जिनमतं हि कुतीर्थिकश्वापदादिभिर्न जातुचिदभिभवमेष्यति । किन्तु मन्दबुद्धयो लिङ्गिन