________________
दशमं पर्व - द्वादशः सर्गः पूर्वभृतां शतत्रयमवधिज्ञानिनां त्रयोदशशती, वैक्रियलब्धिमतां सप्तशती, अनुत्तरकेवलिनां मनःपर्ययिणां च पञ्चशती, वादलब्धिमतां चतुःशती, श्रावकाणामेकोनषष्टिसहस्त्रयुग् लौका, श्राविकाणां साष्टादशसहस्रिका त्रिलक्षी चाऽभवन् ।
अथ गौतम-सुधर्माणी विहाय नवसु गणधरेषु मोक्षं गतेषु सुरा-ऽसुरादिभि: सेवमान: प्रभुर्वीरजिनोऽपापां नगरी जगाम ॥१२॥
इति दशमे पर्वणि भाविकुमारपालदेवचरित-अभयप्रव्रज्याकूणिकचरित-उदायिराज्य-श्रीमहावीरकेवलिविहारवर्णनात्मको
द्वादशः सर्गः ॥१२॥
२३८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः दुर्भाग्यग्रस्तो दण्डेन गुहाद्वारकपाटानि त्रिस्ताडयामास । तद्गुहाद्वाररक्षकः कृतमालदेवश्च तमुवाच-"कोऽयमनात्मज्ञो मुमूर्षुर्गुहाद्वारं ताडयति ?" तत: कूणिक उवाच-"कि मां जिगीषुमागतं न वेत्सि? अहमशोकचन्द्रनामा चक्री जातोऽस्मि" |
ततः कृतमालदेव आह-"द्वादश चक्रिणोऽभवन् । त्वं मृत्युप्रार्थकोऽसि, बुध्यस्व, ते स्वस्त्यस्तु" । ततः कूणिक उवाच"अहं त्रयोदशश्चक्री कृतपुण्य उत्पन्नोऽस्मि । लोके पुण्यैर्न किमपि दुर्लभम् । मम पराक्रमं न जानासि । इमां गुहामुद्घाटितद्वारां कुरुष्व, अन्यदा न तव क्षेमम्" । तत आधिदैविकदोषग्रस्तमिवाऽसम्बद्धभाषिणं कूणिकं कृतमालः सद्य एव क्रोधाद् भस्मसाच्चकार । एवं विपद्याऽशोकचन्द्रो नृपः षष्ठी नरकभूमिं जगाम । न ह्यर्हतां वचनं जातुचिदन्यथा भवति ।
एवं कूणिके नामशेषतां गते मन्त्रिणस्तत्पुत्रमुदायिनं राज्ये न्यदधुः । उदाय्यपि प्रजा नीत्या पालयामास । जैनशासनं च पृथिव्यां प्रथयामास । तस्य स्वस्थानस्थितस्याऽपि प्रतापमसहिष्णवो वैरिनृपा घूका इव गिरिकन्दरेऽवात्सुः । तस्योदायिनो धर्मदानयुद्धभेदैर्वीरत्वं लोके राज्ञां निदर्शनं जातम् । तस्य कदाऽपि स्वपरचक्रजं भयं नाऽभूत् । किन्तु स सदा श्रावकव्रतखण्डनाद् भयमियाय । स चतुष्पव्यया॑ चतुर्थादितपःपरायणः पौषधगृहे स्वस्थः स सामायिक स्थस्तस्थौ । तस्य हृदये च सदाऽर्हन् देवो गुरुः साधुरिति मन्त्राक्षरमिव जागति स्म । तथा स सदा श्रीवीरजिनदेशनां शृणोति स्म ।
एवं प्रभोराकेवलोत्पत्तेर्मही विहरतो वीरजिनस्य परिवारे साधूनां चतुर्दश सहस्राणि, साध्वीनां षट्त्रिंशत्सहस्राणि, चतुर्दश