________________
२३६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एवं विचारयन् वैशाल्यां भ्रमन् स कूलवालको नगरीरोधपीडितैलौकैः पृष्टः-"भदन्त ! शत्रुणा पुरीरोधेन वयं पीडिताः स्मः । तद्यदि जानासि तर्हि कदा रोधनिवृत्ति: स्यादित्याख्यातुमर्हसि" । ततः स मुनिरुवाच-"अहं जानामि, यावदयं स्तूप इहाऽस्ति तावन्नगर्या उद्वेष्टो न भविष्यति । अस्मिन् स्तूपे भज्यमान एवं शत्रुसैन्यं समुद्रवेलेवाऽकस्मादपसरिष्यति । तेन व: प्रत्यय: स्यात् । स्तूपे सर्वथोत्खनिते च भवद्भ्यः स्वस्ति भवेत् । अयं हि स्तूपः कुलग्ने स्थापितः । तदस्य भङ्गे मोहं मा गाः" ।
ततस्तन्मुनिविप्रतारितो जनस्तत्स्तूपं भक्तुमारेभे । स मुनिश्च स्तूपे भतुमारब्ध एव गत्वा कूणिकं द्विक्रोशीमपसारयामास । ततो जातविश्वासो लोकः कूपमण्डूकबुद्धिः कूर्मन्यासशिलां यावत्स्तूपं निर्मूलमुच्चखान । तत: कूणिको द्वादशाब्दयन्ते वैशाली बभज । सा हि स्तूपप्रभावादेव दुरतिक्रमाऽऽसीत् । ततश्च कूणिकचेटकयोयुद्धं निवृत्तम् । एतस्यामवसर्पिण्यामेवं कदाऽपि नाऽभूत् । ____ अथ कूणिकश्चेटकं कथयामास-"आर्य ! चेटक ! पूज्योऽसि, तव प्रियं किं करोमि" | चेटकश्च विषण्णः कूणिकं कथयामास- "जयोत्सवोत्सुकोऽपि त्वं विलम्बेन पुरीं प्रविशेः" । दूतेन चेटकवचो ज्ञात्वा च कूणिकः किमेतद्याचितमिति लज्जितस्तथैव स्वीचकार ।
इतश्च चेटकस्य दौहित्र: सुज्येष्ठापुत्रः सात्यकिविद्याधरस्तत्राऽऽगतो दध्यौ-"शत्रुभिर्लुटयमाना एता मातामहप्रजाः कथं द्रक्ष्यामि, तदेना अन्यत्र नयामि" । एवं विचार्य स विद्यया सर्व तन्नगरीलोकमुत्पाट्य पुष्पमाल्यमिव लालयन् नीलवत्पर्वते निनाय ।
दशमं पर्व - द्वादशः सर्गः
......२३७ चेटकच गले लोहपुत्तलिकां बद्ध्वाऽनशनं कृत्वाऽस्ताघजले प्रविवेश । धरणेन्द्रेण प्रशस्यमानधर्मध्यानो महामनाः स चेटको मृत्योरभीतस्तस्थौ । तत्र च सोऽर्हदादीन् स्मृत्वाऽऽलोचनां कृत्वा नमस्कारपरायणो विपद्य स्वर्गं ययौ । कूणिकोऽपि तां पुरी युक्तगर्दभैर्हलैः खेटयित्वा स्वां प्रतिज्ञामपूरयत् । ततश्चम्पेशस्तीर्णप्रतिज्ञो महोत्सवेन चम्पापुरी जगाम ।
अन्यदा च विहारक्रमतः श्रीवीरजिनश्चम्पां प्राप्य तत्र समवासरत् । तत्र च कालादिकुमारमातरः पुत्रशोकाद् विरक्ताः श्रेणिकनृपभार्याः श्रीवीरजिनपार्वे प्रवव्रजुः । कूणिकोऽपि च भगवन्तं वन्दितुं तत्समवसरणं गत्वा नत्वा यथास्थानमुपविश्य लब्धावसरो रचिताञ्जलि: पप्रच्छ-"भगवन् ! आजन्माऽपरित्यक्तकामभोगाश्चक्रिण: कां गति यान्ति ?" । ततः प्रभुरुवाच-"तादृशाश्चक्रिणः सप्तमी नरकभूमि यान्ति" । ततो मम का गति विनीति कूणिकेन पुनः पृष्टो भगवानुवाच-"त्वं षष्ठी नरकभूमिं यास्यसि" ।
तत: किमहं सप्तमी नरकभूमि न यास्यामीति कूणिकेन पृष्टः प्रभुरुवाच-"त्वं चक्रवर्ती नाऽसि" । ततः कूणिक उवाच"भगवन् ! कि नाऽहं चक्री ? चक्रितुल्यैव न मम चतुरङ्गिणी सेनाऽस्ति ?" तत: प्रभुरुवाच-“तव चक्रादीनि रत्नानि न सन्ति । एकेन रत्नेनाऽपि विना न चक्रित्वम्" । तच्छृत्वोत्थायाऽभिमानी कूणिक एकेन्द्रियाणि लौहानि महारत्नानि कारयामास । तथा पद्मावती स्त्रीरत्नं गजादिकानि रत्नान्यपि च स मन्दबुद्धिः स्वमनोरथपीडित: कल्पयामास । तथाऽतुल्यविक्रमः स भरतक्षेत्रं साधयन् कूणिकः क्रमेण वैताढ्यगुहां तमिस्रामासाद्य स्वमजानन्नुन्मत्त इव