________________
२३४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः क्षुल्ल उवाच-"गुरो ! तव शापमन्यथा करिष्यामि । अहं तत्र वने वसामि यत्र स्त्रियं पश्याम्येव न" । एवं स दुर्मतिर्मर्यादामिव गुरुं त्यक्त्वा व्याघ्र इव निर्जनं वनं प्रविवेश । तत्र च गिरिणदीतटे सदा प्रतिमामास्थित: पथिकादिसकाशाद् मासादर्धमासाद् वा पारणां चकार । एवं नदीतटे तपस्यतस्तस्य साधोः प्रावृट्काल: प्राप्त: । वर्षप्राचुर्याच्च जलाधिक्यात् कूले उल्लङ्घ्य नद्यः कुलटा इवोन्मार्गगामिन्यो जाताः । क्षुल्लाश्रिततटा नदी चाऽपि कूलमतिचक्राम । तदा जिनशासनभक्ता तन्नदीदेवता दध्यौ-"यद्यहमपेक्षे तदाऽयं मुनिस्तटद्रुम इव वारिप्रवाहेण नेष्यते" । ततः सा देवता नदीकूलमन्यया दिशा प्रवर्तितवती । तदा तस्य मुनेः कूलवालक इति नाम प्रसिद्धम् । स मुनिरधुनाऽमुत्र प्रदेशे वर्त्तते" ।
तच्छ्रुत्वा च सा मायाश्राविका कृतकृत्येव विकसितनेत्रा कूलवालकविज्ञानात् फलितमनोरथा तीर्थयात्राच्छलेन तीर्थानि वन्दमाना कूलवालकाधिष्ठितं देशं प्राप । तत्र च सा मायाश्राविका तं मुनि वन्दित्वोवाच-"मुने ! त्वयाऽहमुज्जयन्तादितीर्थानि वन्दनीया" । ततो मुनि: कायोत्सर्ग मुक्त्वा धर्मलाभाशिषं दत्त्वा तीर्थानि वन्दयामास । कुत आगताऽसीति पप्रच्छ च । तत: सा मायाश्राविकोवाच-"मुने ! तीर्थानि वन्दितुं चम्पाया इहाऽऽगाम् । तेन च तीर्थेभ्यः परमं तीर्थं भवन्तमपि वन्दितवती । तदस्मदीयं पाथेयं भिक्षादोषशून्यमादाय पारणां कृत्वा मामनुग्रहीतुमर्हसि" ।
___ ततो मुनिस्तस्या भक्तिभावेनाऽनुकूलितचित्तस्तस्याः सार्थं भिक्षामादातुं जगाम । सा च कूट श्राविका तस्मै स्वयं पुरा निष्पादितान् द्रव्ययुतान् मोदकान् ददौ । तैभक्षितमात्रैश्च मोदकैः स
दशमं पर्व - द्वादशः सर्गः मुनिरतिसारग्रस्तो ग्लान: क्षीणबलोऽङ्गान्यपि गोपितुमक्षमो बभूव । ततो मागधिका तमुवाच-"मय्यनुग्रहार्थं कृतपारणकस्त्वमिमां दुर्दशां प्राप्तोऽसि । पापिनी मां धिक् । अधुना चैतां दशां प्राप्तं त्वामेकाकिनं मुक्त्वा निगडिताविव मम पादौ नोत्तिष्ठतः" ।
एवमुक्त्वा सा तत्र स्थिता क्षणे क्षणे तत्समीपं भेषजानि दातुमङ्गान्युद्वर्तयितुं च गच्छन्ती तस्य तथोद्वर्तनादिकं चकार यथा तस्य मुनेस्तस्याः सर्वाङ्गस्पर्शनमभूत् । तथा सा शुश्रूषया तं क्रमाद् नीरोगं चकार । स मुनिश्च चम्पकेन वस्त्रमिव तद्भक्त्याऽधिवासितो जातः । तथा तस्याः कटाक्षावलोकनैरङ्गस्पर्शेर्मूदुवचोभिश्च तस्य मुनेश्चित्तं चलितम् । एवं मुनेर्मागधिकायाश्च दिने दिने परस्परं शय्यासनादिभिर्दम्पतिव्यवहारोऽतिव्यक्तो जातः । ततः सा मागधिका तं कूलवालकं मुनि चम्पां निनाय । तथा सा चम्पेशमुवाच-"अयं कूलवालको मुनिर्मया पतीकृत्याऽऽनीतः किं करोत्विति समादिश" ।
अथ कूणिको नृपस्तं मुनिमादिदेश-"मुने ! यथा वैशाली भज्यते तथा शीघ्रं कुरु" । कूलवालकश्च नृपादेशं प्रतिपद्य लिङ्गिरूपेण वैशाली जगाम । चम्पेशोऽपि च पुरैव रुद्धां वैशाली जयाशया सर्वसैन्यै रुरोध । कूलवालकश्च नगरे द्रव्याणि पश्यन्नेकं मुनिसुव्रतस्वामिस्तूपमपश्यत् । ततः स मुनिर्दध्यौ-"अस्य स्तूपस्य प्रतिष्ठालग्नं बलवत्तरम् । तत्प्रभावेणैव नगरं न भज्यते । यदि केनाऽप्युपायेनेदं स्तूपमुत्थाप्यते तदा वैशाली भज्यते । अन्यथेन्द्रेणाऽप्येषाऽभज्या" ।