________________
२३३
२३२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत: कुमारौ दध्यतुः-"आवां धिक् । किमेतदनुष्ठितम् । आवयोरेव व्यक्तं पशुत्वं न त्वसौ सेचनक: पशुः । यस्य कृते च चेटको दुर्व्यसने क्षिप्तस्तं स्वयं निधनं प्राप्याऽद्याऽपि जीवावः । चेटकसैन्यस्य महानाशस्य साक्षिणावावां वृथा नाशमकृष्वहि । बन्धुः शत्रुतां नीतः । तदद्याऽऽवयोर्जीवितुं न युक्तम् । यदि जीवावस्तर्हि वीरजिनस्य शिष्यौ भूत्वैव" । तदा च शासनदेव्या भावयतित्वं गतौ तौ वीरजिनसमीपं प्रापितौ द्रुतं व्रतं जगृहतुः" ।
इतश्च हल्ल-विहल्लयोः प्रव्रजितयोरपि कूणिको वैशाली वशीकर्तुं नाऽशकत् । ततश्च चम्पेश: कूणिकः प्रतिज्ञामकरोत्"यदि नगरीमेतां खरयुक्तहलेन न खनामि तदाऽहं भृगुपातेनाऽग्निप्रवेशेन वा म्रिये" । एवं कृतप्रतिज्ञोऽपि कूणिको वैशाली नगरीमात्मसात्कर्तुमक्षमः क्रमात् खेदं प्राप । तदाऽखिलस्य कूणिकस्य रुष्टा शासनदेवी गन्तुमुद्यतोवाच
"गणियं चे मागधियं शमने कुलवालुके । लमिज्ज कूणिए लाए तो वेशालि गहिस्सदि" ।
तत: कूणिक इमामाकाशदेवतावाचं श्रुत्वा सद्यो जातजयविश्वास उल्लसन्नुवाच-बालानां योषितामौत्पातिकी भाषा च नाऽन्यथा भवति । तच्छ्रमणः क्वाऽस्ति, कूलवालुकः कथं प्राप्स्यते । मागधिकाख्या गणिका च क्व विद्यते ?"
___ तच्छ्रुत्वा मन्त्रिण: प्रोचुः-"देव ! मागधिका वेश्या तव नगर एव विद्यते, किन्तु कूलवालुकं न जानीमः" ।
ततश्चम्पेशः कूणिकस्तदैव वैशालीरोधार्थमधु सैन्यं मुक्त्वा सैन्यार्धेन सह चम्पां ययौ । तत्र गतमात्र एव च कूणिको गणिकां
दशमं पर्व - द्वादशः सर्गः मागधिकामाजुहाव । तथा तामादिदेश-"भद्रे ! त्वं मतिमती कलानिपुणा च । त्वमनेकपुंसां बुद्धिदात्री । तन्मत्कार्ये स्वां वेश्याकलां सफलय । कूलवालुकं श्रमणं पतित्वेन रमय" । सा चैवं करोमीति प्रतिपन्ननृपादेशा नृपेण कूणिकेन वस्त्रा-ऽलङ्कारादिना सत्कृता विसृष्टा च गृहं जगाम । तत्र किञ्चिद् विचार्य च मूर्त्ता मायेव सा तदैव माया श्राविका जाता । ततो गर्भश्राविकेव यथाविधि द्वादशविधं गृहिधर्म लोके सत्यमिव दर्शयामास । सरलाशया आचार्याश्च चैत्यपूजादिपरायणां धर्मश्रवणोत्सुकां तां श्राविकामेव मेनिरे ।
अन्यदा च साऽऽचार्यान् कः कूलवालुकः साधुरित्यपृच्छत् । तस्या भावमजानानाश्च ते ऊचु:-“धर्मशीले ! पञ्चधाऽऽचारपालको मुनिश्रेष्ठ एकोऽस्ति । तस्य चैकः क्षुल्ल: कपिरिव चञ्चलोऽस्ति । स सामाचारीपरिभ्रष्टो वारित: स्मारितोऽपि वाऽतिदुर्नयो रोषं याति । तस्य गुरुस्तु तस्मै दुःश्रवामप्याचारशिक्षां ददौ । यतः परः क्रुद्ध्यतु विषवद् वा तस्य प्रतिभातु, तथाऽपि गुणप्रदा हिता भाषा भाषितव्यैव। स क्षुल्लस्तु गुरोः शिक्षाममधुरामकठिनां च कर्मलाघवाभावाद् नाऽमंस्त ।
अन्यदा चाऽऽचार्या विहरन्तो गिरेनगरं ययुः । तत्र च तेन क्षुल्लेन सहोज्जयन्तं गिरिमारुरुहुः । क्षुल्लस्तु देवं वन्दित्वा गिरेरुत्तरतो गुरोः पेषणाय गण्डपाषाणं मुमोच । गुरुश्च खडखडाशब्दं श्रुत्वा कटाक्षेण वज्रगोलकवत् पतन्तं तं पाषाणं दृष्ट्वा जो वितते चकार । पाषाणश्च तदन्तरे निर्गतवान् । ततो गुरुस्तेन कर्मणा कुपितः क्षुल्लं स्त्रीसकाशाद् व्रतभङ्गं प्राप्स्यसीति शशाप ।