________________
२३१
२३०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः श्रीवीरजिनो गतिः" । एवमाराधनां कृत्वा चतुर्विधमाहारं प्रत्याख्याय समाधिस्थो नमस्कारं चिन्तयामास । ____ तदानीं च वरुणस्य मित्रमेको मिथ्यादृष्टियुद्धाद् निर्गत्य समीपमागत्योवाच-"मित्र ! तव मैत्रीवशंवदोऽहमपि त्वदाराधितमार्गमजानानोऽपि प्रपन्नोऽस्मि" | वरुणश्च धर्मध्यानस्थो नमस्कार स्मरन समाधिमरणं प्राप्य सौधर्म जगाम । तत्राऽरुणाभाख्ये विमाने चतुःपल्योपमप्रमितमायुः पूरयित्वा विदेहेषूत्पद्य सिद्धिमेष्यति । तन्मित्रं च विपद्य सुकुले मनुष्योऽभवत् । तथा स पुनर्विदेहेषु सत्कुलं प्राप्य मुक्तिमार्गमाराध्य शिवपदं गमिष्यति । ____ अथ वरुणे हते चेटकस्य सैन्या दण्डाहतवराहवद् युद्धाय द्विगुणोत्साहा अभूवन् । ते चाऽष्टादशभिर्बद्धमुकुटैर्गणपैः सहिताः क्रुद्धाः कूणिकसैन्यं कुट्टयामासुः । कूणिकश्च तैर्हन्यमानं सैन्यं दृष्ट्वा लोष्टाहतः सिंह इव क्रुद्धस्तानधावत । तथा तडागे गज इव क्रीडन्निव कमलनालानिव शत्रुसैन्यं नाशयामास । ततश्चेटकः कूणिकं दुर्जयं ज्ञात्वा क्रुद्धो दिव्यं बाणं धनुषि योजयामास ।।
इतश्च शक्र: कूणिकस्य पुरस्ताद् वज्रकवचं चमरेन्द्रश्च पृष्ठे लौहनिर्मितं कवचं चकार । चेटकेनाऽऽकर्णमाकृष्य मुक्तोऽपि स दिव्यबाणो वज्रकवचं प्राप्य मध्य एव सूवलितः । ततोऽमोघस्याऽपि बाणस्य मोघत्वं दृष्ट्वा चेटकस्य सैन्याः पुण्यक्षयं मेनिरे । सत्यप्रतिज्ञश्च चेटको द्वितीयं बाणं नाऽमुचत् । तद्दिनेऽपसृत्य च द्वितीयदिने तद्वदेव युद्धं चकार । तथैव च स दिने दिने मोघबाणो जातः । तयोश्च घोरं युद्धमभूत् । तस्मिन् युद्धे च द्वयोः पक्षयोर्लक्षाशीत्यधिका भटानां कोटिता तिर्यक्षु नरकेषु चोत्पन्ना। गणनृपेषु च
दशमं पर्व - द्वादशः सर्गः नंष्ट्वा स्वस्वनगरं गतेषु चेटकोऽपि प्रणश्य पुरीं प्रविवेश। कूणिकश्च तां पुरीं रुरोध । ततो वीरौ हल्ल-विहल्ली सेचनकारूढौ रात्री चम्पेशस्याऽखिलं सैन्यं मर्दयामासतुः । रात्रियुद्धे समागतश्च स गजः स्वप्नगज इव केनाऽपि प्रहर्तुं धर्तुं वा न शक्तः ।
एवं हल्ल-विहल्लयो रिपुसैन्यानि विनाश्य गतयोः कूणिको मन्त्रिण उवाच-"प्रायेणाऽऽभ्यामस्माकमखिलं सैन्यं विनाशितम् । तदनयोजये उपायं ब्रूत" । ततो मन्त्रिण ऊचुः-"तौ केनाऽपि जेतुं न शक्यौ यावत् तं गजमारूढौ । तस्मात् तद्गजस्य वधायैव प्रयतनीयम् । मार्गे खादिरा-ऽङ्गारपूर्णा खातिका विधेया । गजबन्धनगर्तेव च सा छादयित्वा दुर्लक्ष्या करणीया । वेगादभिधावन् सेचनकश्च तस्यां पतिष्यति । ततः कूणिको गजागमनमार्गे तथैव दुर्लक्ष्यां खादिरा-ऽङ्गारपूर्णा खातिकां कारयामास । रात्रौ चाऽवस्कन्दा) गजारूढौ हल्ल-विहल्लावाजग्मतुः । सेचनकश्च तत्खातिकासमीपमागत्य विभङ्गज्ञानेन विज्ञाय च हस्तिपकप्रेरणामवमानयन् तस्थौ ।
ततो हल्ल-विहल्लाभ्यामत्यन्तं निर्भिर्त्सतः स गजः । त्वं पशुरस्यतोऽकृतज्ञोऽसि, यद् रणात् कातरो जातोऽसि । त्वत्कृत एव विदेशगमनं बन्धुत्यागश्च कृतः । अस्मिन् दुर्व्यसने च त्वत्कृत एव चेटकः क्षिप्तः । कुक्कुरः पोषितो वरं यः सदा प्रभौ भक्तो भवति । त्वं प्राणेभ्योऽप्यधिकं पोषितोऽस्मत्कार्यं विना शयसि" । एवं निर्भत्सितश्च गजो निजपृष्ठतः कुमारौ बलादपि भक्त्योत्तारयामास । स्वयं च तस्यां खातिकायां झम्पां दत्त्वा सद्यो मृत्वा प्रथमायां नरकभूमावुत्पेदे ।