________________
२२८
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
भान्त्यो रुधिरनद्यः प्रावर्त्तन्त । एवं तुमुले युद्धे प्रवृत्ते कालः सागरव्यूहमम्बुधि पोत इवोत्तीर्य चेटकसमीपं प्राप । ततश्चेटको Sकाले कालमिवाऽऽपतन्तं केनाऽप्यप्रतिरोध्यं कालं दृष्ट्वा रणदुर्मदं तं दैवतेन बाणेन निजिघृक्षुर्वैरिप्राणहरेण दिव्यबाणेन प्रहृत्य पञ्चत्वं प्रापयामास । तदानीमेव कालकुमारवदेव सूर्योऽस्तमियाय । जगदन्धकारेणेव चम्पेशसैन्यं शोकेनाऽऽक्रान्तम् । ततश्चम्पेशसैन्यं युद्धं त्यक्त्वा रात्रौ जाग्रदेव तस्थौ । चेटकस्य सैन्ये तु वीराः सोल्लासं जयवादसङ्गीतादिभिर्निशां निन्युः ।
अथ द्वितीयदिने कूणिकेन सेनापतित्वेऽभिषिक्तो महाकालकुमारोऽपि चेटकेन काल इव हतः । एवमन्यानपि श्रेणिका सेनापतीनेकैकश एकैकेन दिनेन चेटको हतवान् । ततो दशसु कालादिषु भ्रातृषु प्राणवत् प्रियेषु चेटकेन हतेषु कूणिको विषण्णो दध्यौ -“देवताप्रसादादेकेनाऽपि बाणेन चेटको जेता । स कोटिभिरपि मनुष्यैर्न जय्यः मया चेटकस्येमं प्रभावमजानता देवतुल्या दश भ्रातरो मारिताः, मां धिक् । तेषां गतिरेव ममाऽपि भविता । भ्रातृवधं दृष्ट्वा ममेतोऽपसरणं न युज्यते । तद्देवतां समाराध्यैव शत्रुं जयामि । दिव्यप्रभावो दिव्यप्रभावेणैव बाध्यते" ।
एवमुपायं निश्चित्य स कूणिको देवतां हृदि ध्यात्वाऽष्टमभक्तेन तस्थौ । पूर्वजन्ममैत्र्या तत्तपसा च प्रेरितौ च शक्रचमरेन्द्रौ तत्र सद्य आगत्य किमिच्छसीति प्रोचतुः । तत: कूणिक उवाच - "यदि भवन्तौ तुष्टौ तर्हि चेटको हन्तव्यः " । ततः शक्र उवाच - "अपरं किमपि याचस्व । यतश्चेटको मम साधर्मिको मया न हन्तुं योग्यः । तथाऽपि तव देहरक्षां करिष्यामि यथा पराजयं नाऽऽप्स्यसि । ततः कूणिक एवमस्त्वित्युवाच । चमरेन्द्रश्च युद्धं
दशमं पर्व द्वादशः सर्गः
२२९
महाशिलाकण्टकं जैत्ररथमुशलं च कर्तुं स्वीचकार । महाशिला - कण्टकयुद्धे हि कर्करोऽपि पतितो महाशिलातुल्यो भवति कण्टकोऽपि च महाशस्त्राधिको जायते । जैत्ररथमुशलयुद्धे च भ्रमिकं विनैव भ्राम्यती रथमुशले युद्धस्थं वैरिसैन्यं परितः पिष्टः ।
ततः शक्र-चमरेन्द्र-कूणिकाश्चेटकसेनया योद्धुं प्रावर्त्तन्त । तदानीं च नागरथिन: पौत्रो वरुणः सत्यप्रतिज्ञो, द्वादशव्रताराधकः, सम्यक्त्वसम्पन्नो, विषयविमुखबुद्धिः, षष्ठभोजी, षष्ठभक्तान्ते कृताष्टमश्चेटकप्रार्थनया तादृशे दुःसहे रथमुशलयुद्धेऽपि प्रविश्य युद्धार्थं कूणिकसेनापतिमाक्षिपन् वेगिना रथेन प्रससार । ततस्तौ सम्मुखीभूतस्थौ सूर्य-राहू इव भयङ्करौ युद्धार्थं प्रावर्ताम् । कूणिकसेनापतिश्च युद्धेच्छ्रं वरुणं पुरः स्थितं प्रहर प्रहरेत्युच्चैरुवाच । ततो वरुण आह-"वीर ! श्रावकस्य ममैतद् व्रतं यत् प्रहारविमुखे रिपावपि न प्रहर्तव्यम्" ।
ततः कूणिकसेनापतिर्बाढमित्युक्त्वा बाणेन वरुणं मर्मणि विव्याध । ततः क्रुद्धो वरुणः कूणिकसेनान्यमेकेनैव प्रहारेण पञ्चत्वं प्रापयामास । तथा स्वयं स गाढप्रहारपीडितो रणाद् निःसृत्य तृणसंस्तरं कृत्वोपविश्य दध्यौ "मया शरीरेण सर्वथा स्वामिकार्यं सम्पादितम् । अधुना ममाऽन्तकाल इति स्वार्थस्याऽवसरः । तन्ममाऽर्हन्तः सिद्धाः साधवो जैनो धर्मश्च शरणं भूयासुः । सर्वान् जीवान् क्षमयानि, तेऽपि मयि क्षाम्यन्तु । मम सर्वभूतेषु मैत्री केनाऽपि न वैरम् । न मम किमपि न वा कस्याऽप्यहम् । सर्वं कृतं ममकारं त्यजामि । यानि दुष्कृतानि सेवितानि तन्मे सम्प्रति निरीहस्य मिथ्यादुष्कृतमस्तु । जन्मजन्मान्तरेषु कृतं दुष्कर्म गर्ने । मम