________________
२२६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथ पद्मावती सेचनकगजारूढौ दिव्यकुण्डलमण्डितौ देवाविव हल्ल-विहल्लौ देवरौ दृष्ट्वा स्वस्त्रीत्वोचितं दध्यौ-"नेत्ररहितं मुखमिव दिव्यैर्हार-कुण्डलवस्त्रैः सेचनकेन च हीनं राज्यं न शोभते" । एवं ध्यात्वा सा हल्ल-विहल्लाभ्यां तान्याहत्तुं कूणिकमुवाच । तत: कूणिक आख्यत्-"अनयोः पितृदत्तं वस्त्वाहतुं नोचितं, पितरि स्वर्गते चेमौ प्रत्युत प्रसादपात्रे" । किन्तु पद्मावत्या अत्याग्रहात् स नृपो हारादियाचनं स्वीचकार ।।
ततोऽन्यदा कूणिको हल्ल-विहल्लौ हारादिचतुष्टयं यचाचे । तौ चाऽऽदेशः प्रमाणमिति तत् स्वीकृत्य स्वावासं गतौ विचारयामासतुः-"अस्य नृपस्य नोचिता बुद्धिः, नाऽनेनाऽऽवयोः प्रयोजनम् । तदन्यत्र कुत्राऽपि यावः" । एवं विचार्य तौ सान्तःपुरी रात्रौ सेचनकगजं हारादीनि चाऽऽदाय वैशाल्यां जग्मतुः । तत्र च मातामहश्चेटकः तौ स्नेहेनाऽऽलिङ्ग्य सत्कृत्य च युवराजवद् ददर्श।
ततः कूणिकस्तौ वैशाल्यां गतौ ज्ञात्वा दध्यौ-"स्त्रीहठाग्रहाद् मम हस्त्यादिरत्नानि भ्रातरावपि च नाऽभूवन् । अहमुभयभ्रष्टो जातः । भवतु, ताववश्यमानयिष्यामि । अन्यथा मम पराभवसहिष्णोर्वणिजश्च किमन्तरं स्यात्" । एवं विचार्य स दूतमनुशिष्य रत्नान्यादाय गतयोर्धात्रोर्याचनाय वैशाल्यां चेटकसमीपं प्रेषयामास । दूतोऽपि च वैशाल्यां गत्वा सभायां स्थितं चेटकं प्रणम्योपविश्य चोवाच-"कुमारौ हल्ल-विहल्लौ रत्नादिकं गजं चाऽऽदायेहाऽऽगतौ कूणिकस्य समर्पय । अन्यथा तव राज्यभ्रंशः स्यात् । कीलिकार्थे देवगृहं नाशयितुं नोचितम्" ।
ततश्चेटक उवाच-"शरणागतोऽन्योऽपि नाऽय॒ते, पुत्रवत् प्रियौ विश्वस्तौ दौहित्रौ किंपुन: ?" ततो दूत उवाच-"शरणागत
दशमं पर्व - द्वादशः सर्गः वत्सलस्त्वं यदिमौ नाऽर्पयसि, तनियो रत्नानि हत्वा मत्प्रभोरर्पय" | तच्छ्रुत्वा चेटक उवाच-“अन्यस्य धनमन्यो दातुं न प्रभुरिति राजरङ्कयोः समानो धर्मः । तत् प्रसह्य साम्ना वाऽनयोः किञ्चन नाऽहं गृह्णामि । इमौ हि दानाही दौहित्रौ विशेषतो मम धर्मपात्रम्" ।
ततो दूत आगत्य चम्पायां कूणिकस्य सर्वं चेटकोदितमाख्यत् । ततः क्रुद्धः कणिकस्तत्कालं जयभम्भा वादयामास । तेन च तस्य बलवन्ति सैन्यानि सद्य एव सर्वाभिसारेण सज्जीभूयाऽवतस्थिरे । कालादयो दशकुमारा अपि सन्नद्धा अभूवन् । तेषां कुमाराणां प्रत्येकं च त्रीणि सहस्राणि गजास्तावन्तोऽश्वास्तावन्तो रथास्तिस्रः कोटय: पदातयश्च बलमभूवन् । कूणिकस्याऽप्येतावद् बलं, तत्प्रभुत्वं च विशेषः । ततः कूणिक एतावता सैन्येन महीं रजोभि: सूर्यं च छादयन् चेटकं प्रति प्रतस्थे ।
चेटकोऽपि चाऽष्टादशभिर्बद्धमुकुटैः राजभिरमितैः सैन्यैश्च कूणिकायाऽभिजगाम । तेषामष्टादशानां प्रत्येकं त्रीणि सहस्राणि गजास्तावन्तोऽश्वास्तावन्तो रथास्तिस्रः कोटय: पदातयश्च बलमभूत् । चेटकश्च तया सेनया स्वदेशसीमनि दुर्भेदं सागरव्यूह रचयित्वाऽस्थात् । कूणिकश्च तावत्या सेनया तत्राऽऽगतः शत्रुसेनया दुर्भेद्यं गरुडव्यूहं कृत्वाऽस्थात् । उभयोरपि सैन्ययो|राणि वाद्यानि ताडितानि । द्वयोरपि सैन्ययोर्युद्धाय कृतनिश्चया: सैनिकाचेरुः । तत्र कूणिकस्य सैन्ये सेनानायकः कुमारः काल आदौ चेटकसेनया योद्धं प्रववृते ।
तत्र युद्धे चाऽश्ववारेणाऽश्ववारो, गजवाहनेन गजवाहनो, रथिना रथी, पत्तिना पत्तिश्च युयुधे । कुन्तघातपातितैर्गजैश्च रणभूमिर्गण्डशैलाकीर्णेव जाता । हतैर्भटै रथैश्च सजलमानुषाः सान्तरीपा इव