________________
२२४
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
तदानीं च तवैकाङ्गुलिः कुक्कुटीपिच्छ विद्धा कृमि - पूयभृताऽत्यन्तं दुःखदायिन्यभूत् । त्वत्पिता च तादृशीमपि तवाऽङ्गुलिं मुखे अधात् । यतो यावत् तवाऽङ्गुलिर्मुखान्तरमभवत् तावत् तव सुखमभवत् । एवं त्वं पित्रा पालितोऽसि । तस्य काराप्रवेशनेन च त्वया प्रत्युपकारः कृतः" ।
तच्छ्रुत्वा कूणिक उवाच- " तर्हि तातो मह्यं गुडमोदकान् हल्ल- विल्लाभ्यां च खण्डमोदकान् किं प्रैषीत् ?" ततश्चेलणोवाच-‘“त्वं पितृद्वेषीति ममाऽनिष्टोऽभवः । तद्गुडमोदका मयैव तुभ्यं प्रेषिताः” । ततः कूणिक आह- "अविमृश्यकारिणं मां धिक् । तत्पुनरेव राज्यं न्यासार्पितमिव पितुरर्पयामि । ततः सोऽर्धमुक्त एवाऽऽचम्य धात्र्यै बालं दत्त्वा च पितरं जिगमिषुस्त्वरित: कूणिक उत्थाय पितृपादेषु शृङ्खलान् भक्ष्यामीति लौहदण्डमादाय श्रेणिकमभ्यधावत । श्रेणिकस्य समीपे नियुक्ताः पूर्वपरिचिता: प्राहरिकाश्च कूणिकमागच्छन्तं दृष्ट्वाऽऽकुला ऊचुः - "साक्षाद् यम लौहदण्डमादाय तव पुत्रः समागच्छति, न जानीमः किं करिष्यति”।
इव
ततः श्रेणिको दध्यौ - " नूनमेष मां जिघांसुः । अन्यदा तु कशाहस्त आगमत् । अधुना तु दण्डहस्त आगच्छति । न जानामि, सोऽद्य मां केनचित् कुत्सितमारणेन मारयिष्यति । तद्यावदसावाया तावद् मम मरणमेव शरणम्" । एवं विचार्य स श्रेणिकस्तालपुटविषं जिह्वाग्रे ददौ । तेन च तस्य प्राणा द्रुतमेव निर्गता: । आगतः कूणिकश्च पितरमग्रतो मृतं दृष्ट्वा वक्षस्ताडयन् पूच्चकार । अहं भुव्यद्वितीयः पापोऽभूवम् । तातपादान् क्षमयिष्यामीति मम मनोरथो न सिद्ध:, अहं पापतमः " । एवं बहु विलप्य च भृगुपातादिना मम स्वनिग्रह एव मत्कर्मयोग्य इत्येवं कृतनिश्चयः
दशमं पर्व द्वादशः सर्गः
२२५
शोकाकुलो मुमूर्षुरपि कूणिकः सचिवैर्बोधितः पितुर्दाहं संस्कारादिकं चकार ।
अनन्तरं च शोकेन राजयक्ष्मणेव दिने दिने क्षीयमाणं कूणिकं दृष्ट्वा सचिवा दध्यु:- "नृपो नूनं शोकाद् मरिष्यति, राज्यं चेदं नङ्क्ष्यति । तत्पितृभक्तिव्याजेनाऽस्य मनः परिवर्त्तो विधेयः" । एवं विचार्य ते जीर्णे ताम्रपत्रे "पिण्डादि दत्तं पुत्रेण मृतोऽपि लभते पिते" त्यक्षराणि स्वयं लिखित्वा नृपस्याऽग्रेऽवाचयन् । ततः कूणिकस्तल्लेखच्छलितः पितुः स्वयं पिण्डाद्यदात् । तत्प्रभृति च पित्रे पिण्डदानं प्रवृत्तम् ।
नृपश्च मन्दमतिर्मम पिता मृतोऽपि मद्दत्तं भुङ्क्ते इति शनैः शनैः शोकममुचत् । किन्तु पितुः शय्यादीनि मुहुर्मुहुः पश्यतः कूणिकस्य शोकः प्रादुर्भवति स्म । तेन च स राजगृहे स्थातुमसमर्थो जातः । ततः सोऽन्यत्र पुरं करिष्ये इति विचार्य वास्तुनिपुणान् प्रशस्तभूमिशोधनायाऽऽदिदेश । ते च वास्तुज्ञा: सर्वतो भुवं पश्यन्त एकत्र प्रदेशे महान्तं चम्पकद्रुमं दृष्ट्वोचुः- “अयं वृक्षो नोद्याने वर्तते नवाऽत्र सारणिर्नाऽप्यालवालोऽस्य, तथाऽप्यस्योमोऽत्र विस्मयकरः । अस्य शाखाविस्तारः पत्र - पुष्पसमृद्धिः पुष्पसौरभ्यं स्निग्धनिबिडच्छायत्वं सर्वमप्यद्भुतम् । तत्र यथाऽयं स्वभावमनोहरस्तथाऽत्र कृतं नगरमपि श्रीसम्पन्नं भविष्यति" । ततस्ते नगरार्थं नृपस्य तत् स्थानमाचख्युः । नृपश्च चम्पकवृक्षस्यैव नाम्ना तत्र चम्पापुरीं द्रुतं कारयामास । ततः सबलवाहनश्चम्पापुर्यां गत्वा कूणिको भ्रातभिः सह महीं
चम्पक:
पालयामास ।