________________
२२२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इति विचार्य दुर्मतयस्ते विश्वस्तं निजं पितरं बबन्धुः । बद्ध्वा च कूणिकः शुकवत् पञ्जरे पितरमक्षैप्सीत् । तथा भक्त-पाने अपि न ददौ । तथा पूर्ववैरवशात् स कूणिकः प्रतिदिनं पूर्वाह्नेऽपराह्ने च शतकृत्व: कशया ताडयति स्म । श्रेणिकश्च दैवोपनतां तां दुर्दशा बद्धः समर्थ गज इवाऽवश: सेहे । श्रेणिकस्य समीपे च मातृदाक्षिण्याच्चेलणां विना कमपि गन्तुं नाऽदात् । चेलणाऽपि प्रतिदिनं शतधौतया सुरया सद्यः स्नातेवाऽऽर्द्रकेशीभूय श्रेणिक समीपं गच्छति स्म । तथैकां कुल्माषपिण्डिकां पुष्पमाल्यमिव केशान्तः प्रक्षिप्य नयति स्म । प्रच्छन्नतया चेलणादत्तां तां कुल्माषपिण्डिकामपि स श्रेणिको दिव्यभोज्यवद् दुष्प्रापां मन्यते स्म । तयैव च पिण्डिकया स श्रेणिकः प्राणयात्रां चकार । तथा चेलणा पतिभक्ता नेत्राश्रुबिन्दुभिः सहैव केशपाशाच्छतधौतसुराबिन्दून् पातयति स्म । श्रेणिकश्च चातको वर्षोदबिन्दूनिव पिपासाकुल: पततस्तान् सुराबिन्दून् पिबति स्म । बिन्दुमात्रपीतयाऽपि तया सुरया श्रेणिकः कशाघातान् न जानाति स्म । तृष्णया च न पीड्यते स्म ।
इतश्चेत्थं श्रेणिकं बद्ध्वोग्रं राज्यं कुर्वतः कूणिकस्य पद्मावत्यां पत्न्यां पुत्रोऽजनि । कणिकश्च तदाऽऽयाता वर्धापिका दासीर्वस्त्राभरणसंछनाश्चकार । तथा स्वयमन्त:पुरे गत्वा पाणिभ्यां पुत्रमादाय तन्मुखं प्रभाभास्वरं पश्यन् प्रमुदितः श्लोकमिमं पपाठ
अङ्गादङ्गात् सम्भवसि हृदयादभिजायसे । आत्मैव पुत्र ! जातोऽसि तज्जीव शरदां शतम् ॥
दशमं पर्व - द्वादशः सर्गः
२२३ ___ पुन: पुनश्चेमं श्लोकं पठन् स कूणिको न विरराम । कुमारपालने निपुणाभिर्वृद्धस्त्रीभिश्च कूणिकस्य करादादाय बालोऽरिष्टशय्यायां मुक्तः ।
तत: कूणिको याचकेभ्यो ब्राह्मणेभ्यो दानं ददौ । पुत्रस्य जातकर्मोत्सवं च चक्रे । तथा महोत्सवपूर्वकं स तस्य पुत्रस्योदायीति नाम चकार । स्वर्णकान्तिरुदायिकुमारश्चाऽऽरक्षकैः परिवृतो दिने दिने उद्यानतरुरिव वृद्धिमाप । कूणिकश्च प्रेम्णा तं बालं कट्यामारोपयामास । तथा प्रेमगद्गदया वाण्या तं सततं लालयामास । आसने शयने याने भोजने वाऽपि स नृपस्तं बालं कराद् न मुमोच ।
एकदा च स पुत्रवत्सलो नप उदायिनं वामजानचं स्थापयित्वा भोजनार्थमुपाविशत् । कूणिकेऽर्धमुक्ते च स बालो मूत्रयामास । तेन च भोजनपात्रे घृतधारेव मूत्रधारा पपात । कूणिकश्च बालस्य वेगरोधो मा भूदिति पुत्रवात्सल्याण्जानु न चालयामास । तथा मूत्रसम्पृक्तमन्नं करेण करेण स्वयमपसार्य पूर्ववदेव भोजनं चकार । तथा स कणिकस्तत्रस्थां चेलणां पप्रच्छ-"मातः ! कस्याऽप्येवं प्रियतर: पुत्रोऽभूदस्ति वा ?"
ततश्चेलणोवाच-"आ ! पाप! त्वं यथा पितुरत्यन्तं प्रियोऽभूस्तद् न जानासि । तदा मया दुर्दोहदेन त्वं पितुर्वैरीति ज्ञातोऽसि। त्वां गर्भस्थितमपि पितुर्वैरिणं ज्ञात्वाऽहं पतिमङ्गलेच्छया गर्भभ्रंशोपायमकरवम् । किन्तु नैकैरौषधैरपि गर्भो न भ्रष्टः, प्रत्युत पुष्ट एवाऽभूत् । तव पिता च कदा पुत्रमुखं द्रक्ष्यामीत्याशया तादृशमपि मम दोहदं पूरितवान् । किन्तु त्वमुत्पन्नोऽपि पितुर्वैरीति मया त्यक्तः । तथाऽपि पित्रा स्वं जीवितमिव यत्नादानीतोऽसि ।