________________
२२१
दशमं पर्व - द्वादशः सर्गः 'तत आग्रहात् कथितोऽपि राज्यमगृह्णन्नभयो नृपेण सप्रमोदं व्रतायाऽनुज्ञातः ।
ततोऽभयकुमारो राज्यं तृणवत् त्यक्त्वा शाश्वतसुखनि:श्रेणि दीक्षा श्रीवीरजिनपार्वेऽग्रहीत् । नन्दाऽपि चाऽभये व्रतं गृहीतवति श्रेणिकं नृपमनुज्ञाप्य चरमतीर्थकृत्पादान्ते व्रतमग्रहीत् । तथा दीक्षां गृहीतवती सा दिव्यं तत्कुण्डलद्वयं क्षौमद्वयं च हल्लविहल्लयोर्ददौ । ततो वीरजिनोऽपि भव्यप्रबोधहेतोः सपरिवारो महीं विजहार । अभयकुमारश्च विविधाभिग्रहपूर्वकं चिरं व्रतं पालयित्वा विपद्य सर्वार्थसिद्धे श्रेष्ठो देवो बभूव ।
२२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः गुरुमनुज्ञाप्य राजपुरुषान् नियोज्य वीतभयनगरस्य तत्स्थलं खानयितुमुपक्रमं करिष्यति । सत्त्वशालित्वाच्च तस्य नृपस्य शासनदेवता सान्निध्यं करिष्यति । तस्य नृपस्य पुण्येन चाऽल्पखननेनैव प्रतिमा प्रकटीभविष्यति । तदानीमेवोदायनभूभुजा तत्प्रतिमार्थं दत्तानां ग्रामाणां शासनलेखोऽपि प्रकटीभविष्यति । राजपुरुषाश्च पुरातनीमपि तां प्रतिमां नवामिव यथाविधि पूजयित्वा रथमारोपयिष्यति । तथा मार्गे पूजयन्तः सङ्गीतकं कुर्वन्तो वाद्यादि वादयन्त: पार्श्वयोश्चामरे वीजयन्तो राजपुरुषास्तां प्रतिमां नगरीसीम्नि नेष्यन्ति ।
कुमारपालनृपश्च चतुरङ्गसेनासमन्वितः सपरिवारः ससङ्घस्तामभिगम्य स्वयं तां रथात् समुत्तार्य गजमधिरोप्य च पुरे प्रवेश्य स्वभवनसमीपक्रीडाभवने संस्थाप्य त्रिकालं यथाविधि पूजयिष्यति । तथा तस्याः प्रतिमायास्तच्छासनलेखं वाचयित्वोदायनदत्तं स्वयमपि प्रमाणीकरिष्यति । तथा स नृपस्तत्प्रतिमायाः प्रतिष्ठार्थं तत्रैव स्फटिकमयं प्रासादं विस्मयजनकं निर्माय तां प्रतिमा तत्र स्थापयित्वा प्रतापेन लक्ष्म्या कल्याणेन च वर्धिष्यते । हे अभयकुमार ! एवं स कुमारपालो नृपो देव-गुरुभक्त्या त्वत्पितृतुल्यो भारतनृपो भविष्यति" ।
तच्छ्रुत्वाऽभयकुमारो भगवन्तं जिनं प्रणम्य श्रेणिकनृपसमीपमागत्योवाच-"पित: ! यद्यहं राजा स्यां तदा यतिर्न स्याम् । उदायनश्चरमो राजर्षिरिति श्रीवीरजिनेन कथितम् । तद्यदि त्वादृशं पितरं श्रीवीरजिनं च प्राप्य भवदुःखोच्छेदे निरुद्योगोऽहं सर्वाधमः स्याम् । अहं नाम्नाऽभयोऽपि भवाद् भीतो जगदभयदं श्रीवीरं श्रयामि । तदनुजानीहि । मम राज्येनाऽलम् । सन्तोष एव सुखम्" ।
अथाऽभये व्रतं गृहीतवति श्रेणिको दध्यौ-"सर्वकुमारेषु गुणाधिकोऽभयो व्रतमादाय स्वार्थमसाधयत् । तत्कस्मिन्नपि बलिनि चिरजीविनि कुमारे राज्यमारोपयिष्यामि । सगुणो निर्गुणो वा पुत्र एव पितृसम्पदां योग्यः । अभयकुमारं विहाय कूणिक एव गुणवान् राज्यमर्हति" । एवं कृणिकं राज्ये निश्चित्य स हल्लविहल्लयोरष्टादशचक्रं हारं सेचनकं गजं च प्रादात् । अत्राऽवसरे च कूणिकोऽपि स्वसदृशैः कालादिभिर्दशभिर्धातृभिर्मन्त्रयामास"वृद्धोऽप्यस्माकं पिता राज्यस्य न तृप्यति, पुत्रे कवचहरे जाते राजा व्रताधिकारी भवति । ज्येष्ठोऽभय एव श्रेष्ठो यो युवाऽपि लक्ष्मीमत्यजत् । तातस्तु विषयासक्तः स्ववृद्धावस्थामपि न पश्यति । तदद्य पितरं बद्ध्वा स्वसमयोचितं राज्यं गृह्णीमः । अत्राऽपवादोऽपि न भावी । यतो नृपो विवेकहीनोऽस्ति । राज्यं चैकादशधा कृत्वा वयं भ्रातरस्तद् भुज्महे । तत: पिता बद्धो वरं वर्षशतान्यपि जीवतु" ।