________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
ततोऽभयः पुनः प्रभुं पप्रच्छ- "कपिलमुनिप्रतिष्ठिता सा देवाधिदेवप्रतिमा कदा प्रकटीभविष्यति ?” ततो वीरप्रभुरुवाच"कालक्रमेण सौराष्ट्र-लाट गुर्जरसीमनि नाम्नाऽणहिलपाटकं नगरं भविष्यति । तन्नगरं त्वार्यभूमेश्चडारत्नं मङ्गलनिलयं श्रावकैरधिष्ठितं तीर्थं भविष्यति । तत्र चैत्यानि जिनप्रतिमासनाथानि स्वर्णकलशराजमानानि भविष्यन्ति । तत्र श्रावका अतिथिसंविभागेन भोजनोद्यताः स्युः । तत्रत्यो लोकच गतेर्ण्यः सन्तुष्टः पात्रे दानशीलश्च भविष्यति । श्रेष्ठिनश्च सप्तक्षेत्र्यां द्रव्यं वप्स्यन्ति । सुषमाकालोत्पन्न इव तत्र लोकः स्वदारनिरतो भविष्यति ।
२१८
ततोऽस्मन्निर्वाणाद् वर्षाणां षोडशशतानि नवषष्ठ्यां चाऽतीतायां तत्र नगरे प्रचण्डाखण्डिताज्ञश्चौलुक्यकुलाब्धिचन्द्रो महाबाहुः कुमारपालो नाम नृपो भविष्यति । स च सरलश्चतुरः शान्तः क्षमी चिरं महीं पालयिष्यति । तत्र स स्वमिव प्रजा धर्मनिष्ठं करिष्यति । स धर्मात्मा धर्मानुरागी पराक्रमेण धर्मेण दानेन दययाऽऽज्ञादिना च पुरुषगुणैर्बहुभिरद्वितीयो राजा भविष्यति । स उत्तरस्यां तुरुष्कदेशं यावत् पूर्वस्यां गङ्गां यावद् दक्षिणस्यां विन्ध्यं यावदासमुद्रं च पश्चिमायां पृथ्वीं साधयिष्यति ।
अन्यदा च वज्रशाखायां मुनिचन्द्रकुलप्रसूतं हेमचन्द्राचार्यं दृष्ट्वा प्रमुदितो वन्दितुं नित्यं त्वरिष्यते । तथा स नृपः सपौरामात्यश्चैत्ये धर्मदेशनां कुर्वतस्तस्य सूरेर्वन्दनाय गमिष्यति । तथा तत्र च तत्त्वमजानानोऽपि देवं नत्वा शुभभावतस्तं सूरिं वन्दिष्यते । तत्सूरिमुखाद् धर्मदेशनां श्रुत्वा च प्रीतः स सम्यक्त्वपूर्वकमव्रतानि ग्रहीष्यति ।
दशमं पर्व द्वादशः सर्गः
२१९
एवं प्राप्तबोधः स श्रावकधर्मं पालयन् सभायामपि स्थितो धर्मगोष्ठ्या मनोविनोदं करिष्यति । तथा प्रायेण ब्रह्मचारी सोऽन्नादीनां नियमान् ग्रहीष्यति । परदारपराङ्मुखः स नृपः स्वधर्मपत्नीरपि ब्रह्मचर्यं पालयितुं बोधयिष्यति । तस्य सूरेरुपदेशतो जीवा -ऽजीवादितत्त्वज्ञः स नृपः सूरिरिवाऽन्येषामपि बोधं प्रदास्यति । जिनधर्मद्वेषिणः पाण्डुराख्या ब्राह्मणादयोऽपि तस्य नृपस्याऽऽज्ञया श्रावका भविष्यन्ति । स सदा चैत्यं पूजयित्वा गुरून् नत्वैव चाऽन्नं ग्रहीष्यति । तथा सोऽपुत्राणामेव विपन्नानां पुरुषाणां धनं न ग्रहीष्यति । तदाज्ञया च सर्वो जनः स्वयं मृगयां त्यक्ष्यति तेन नृपेण हिंसायाः सर्वथा निषेधाच्च नीचकुलोऽन्त्यजादिरपि यूका - मशकादिहिंसामपि न करिष्यति । तेनाऽमारिघोषणायां कारितायामरण्ये मृगादयः शान्त्या वसेयुः । तस्याऽऽज्ञावशाच्च जन्मतः प्रभृत्येव मांसभक्षिणोऽपि स्वप्नेऽपि मांसवार्तां न करिष्यन्ति ।
एवं स मद्यपानमपि सर्वथा निवारयिष्यति । तेन च कुम्भकारोऽपि मद्यभाण्डघटनां त्यक्ष्यति । तेन च मद्यपाननिर्धनानां मद्यपानां तन्नृपाज्ञया त्यक्तमद्यपानानां पुनः सम्पदः प्रभविष्यन्ति । तथा स नृपः स्वराज्ये स्वरिपुमिव द्युतनामाऽप्युन्मूलयिष्यति । तस्य नृपस्य शासने प्रवर्त्तमाने च पारावत- पणक्रीडा कुक्कुटयुद्धादिकं च न भविष्यति । तथा स प्रायेण प्रतिग्रामं जिनायतनं करिष्यति । तथा प्रतिग्रामं प्रतिनगरं च जिनप्रतिमानां रथयात्रोत्सवं करिष्यति । तथा द्रव्यदानपूर्वकं स्वसंवत्सरं प्रवर्त्तयिष्यति ।
एकदा च वार्ताप्रसङ्गे गुरोर्मुखात् कपिलमुनिप्रतिष्ठितां पांशुगुप्तां प्रतिमां श्रुत्वा पांशुस्थलं खानयित्वा समानेष्यामि । एवं मनसि कृत्वा सद्यो जातोत्साहशकुनादिवशात् प्रतिमाप्राप्तिं निश्चित्य