________________
द्वादशः सर्गः
अथाऽभयकुमारः पुनः प्रणम्य भगवन्तं श्रीवीरजिनमुदायनराजर्षेः कीदृशो भावीति पप्रच्छ । ततश्चरमतीर्थकृच्छ्रीवीरप्रभुरुवाच एकदा विहारं कुर्वत उदायनमुनेरकालेऽपथ्यभोजनैर्महाव्याधिरुत्पत्स्यते । तदा वैद्यैः शुभाशयैर्देहे निःस्पृहोऽपि दधि भुङ्क्ष्वेति कथितः स मुनिर्दधिभिक्षासौलभ्याद् व्रजेषु विहरिष्यति ।
अन्यदा च स उदायनो भागिनेयेन केशिना नृपेण शासितं वीतभयनगरं यास्यति । तदा सचिवैरुदायनमागतं ज्ञात्वा केशी कथयिष्यते-'यत् तव मातुलो नूनं तपसो निर्विण्णः । राज्यं त्यक्त्वा पश्चात्तापं कुर्वन् स राज्यार्थमेवाऽऽगतोऽस्ति । तदस्य विश्वासं मा कृथाः” । ततः केशी कथयिष्यति - " अद्याऽपि स राज्यं गृह्णातु, अहं कोऽस्मि ? धनिनि स्वधनं गृह्णति कः कोपः । ततो मन्त्रिणः कथयिष्यन्ति - पुण्यैस्तव राज्यं मिलितं, न तु केनाऽपि प्रदत्तम् । पित्रादेरपि बलाद् राज्यं ग्रहीतव्यमिति राजधर्मः । दत्तं तु कः खलु त्यजति ? तैरेवं दुर्बोधितः केशी उदायने भक्तिं मुक्त्वा किमधुना कर्त्तव्यमिति तान् प्रक्ष्यति ।
ततस्ते विषं दापयिष्यन्ति । केशी चैकया पशुपालिकया विषमिश्रितं दधि उदायनाय दापयिष्यति । ततो देवतास्तद्विषं निष्प्रभावं कृत्वा "दधीच्छां त्यज, यथा सविषदधिलाभो न
दशमं पर्व द्वादशः सर्गः
स्यादि" त्युदायनं कथयिष्यन्ति । तेन च दध्नि त्यक्ते मुनेरुदायनस्य रोगो वर्धिष्यते । ततः रोगोपशमाय पुनर्दधि ग्रहीष्यति । देवताश्च वारत्रयं विषापहारं करिष्यन्ति । अन्यदा च देवता अपि प्रमादवशाद् विषं नाऽपहरिष्यन्ति । तेन स मुनिः सविषं दधि भक्षयिष्यति । विषप्रभावेण च चैतन्यं लुप्यमानमवधार्य ज्ञातमृत्युः स मुनिरनशनं ग्रहीष्यति । त्रिंशद्दिनानि यावदनशनं पालयित्वा समाधिप्रभावाज्जातकेवलज्ञानश्च विपद्य मोक्षमेष्यति । तत्कृतनिरवच्छिन्नपांशुवृष्ट्या च कपिलमुनिप्रतिष्ठिता सा देवाधिदेवप्रतिमा निधानमिव भूगता भविष्यति । तथा सा देवतोदायनर्षेः शय्यातरं कुम्भकारं निरपराधं हृत्वा सिनपल्ल्यां नेष्यति । तत्र च तन्नाम्नैव कुम्भकारकृतमिति स्थानं करिष्यति ।
२१७
ततोऽभयः पुनः प्रणम्य वीरजिनमुवाच - उदायनपुत्रस्याभीचेः का गतिर्भाविनी ?" ततो वीरप्रभुराह - "पितरि केशिने राज्यं दत्तवति सति स प्रभावतीपुत्रोऽभीचिश्चिन्तयिष्यति - "मयि भक्तेऽपि सति राज्याधिकारिणि तातः केशिने राज्यमदात् । तत्कारागृहाधिकारिणे केशिने राज्यं ददानस्य पितुः कोऽयं विवेकः । किन्तु मम पिता प्रभुर्यदिच्छति तत् करोतु किन्त्वहं राजपुत्रः केशिनः सेवां कथं करिष्यामि ?" एवं पित्राऽवज्ञातः स कूणिकमुपगमिष्यति । मातृष्वस्त्रेयेण कूणिकेन सदा सगौरवं दृश्यमानः सोऽभीचिस्तत्र सुखं स्थास्यति । तथा श्रमणोपासकस्तत्त्वज्ञः स श्रावकधर्मं यथाविधि बहूनि वर्षाणि पालयन् स्वावज्ञां स्मरन् उदायने वैरं न त्यक्ष्यति । अन्ते च संलेखनां कृत्वा पाक्षिकानशनेन पितृवैरमनालोच्यैव विपन्नः सोऽसुरोत्तमो भविष्यति । एवं पल्योपममसुरायुर्भुक्त्वाऽभीचिजीवो महाविदेहेषूत्पद्य शिवं यास्यति ।