________________
२१४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पर्युषणोत्सवोऽद्य, मम स्वामी च सान्तःपुरपरिच्छदोऽद्योपोषितोऽस्ति । त्वं च सदा नृपार्थं कृतां रसवतीमेव भोजितोऽसि । अद्य तु त्वदर्थ एव तां करिष्यामीति पृच्छामि" । तत: प्रद्योत उवाच"ममाऽप्यद्योपवासोऽस्तु, साध्विदं पर्व मम ज्ञापितम्" । ततः सूदस्तद्वृत्तमुदायनाय विज्ञापयामास । ।
तच्छ्रुत्वोदायनो जगौ-"त्वं तं वेश्यापतिं न जानासि, स धूर्तोऽस्ति, किन्त्वयं याद्दक् तादृग् वाऽस्तु । अस्मिन् कारागारे वसति सति मम पर्युषणा न शुद्धे"ति तं प्रद्योतं स मुमोच । तथा पौचित्यात् तं क्षमयित्वा मस्तकाङ्कगोपनाय पट्टबन्धं च चकार । तत्प्रभृति च नृपाणां पट्टबन्ध ऐश्वर्यसूचकः प्रावृतत् । तत्पूर्वं हि किरीटमेव नृपा मस्तके बबन्धुः । तथोदायनो नृपः प्रद्योतायाऽवन्तिदेशं दत्वा वर्षास्वतीतासु वीतभयपुरं ययौ । किन्तु तत्र शिबिरे वणिजस्तथैव तस्थुः । तत्तैरेवाऽऽश्रितं तद् दशपुरं भुवि ख्यातम् । प्रद्योतोऽपि च वीतभयप्रतिमायै शासनेन दशपुरं दत्त्वा अवन्तिपुरमगात् ।
अन्यदा च प्रद्योतो विदिशां गत्वा भायलस्वामिनामकं देवकीयं पुरं चकार । धरणोदितं हि न जातु मिथ्या । तथा प्रद्योतो विद्युन्मालिकृतप्रतिमायै शासन द्वादशग्रामसहस्रान् प्रददौ । ___अथाऽन्यदा वीतभयपुरस्थमुदायनं प्रभावतीदेवः स्नेहेन समेत्य प्रबोधयन्नुवाच-"नृप ! इह या जीवतो वीरस्वामिनो प्रतिमाऽस्ति, साऽसाधारणमाहात्म्यादुत्तमं तीर्थम् । सा हि केवलिना कपिलेन मुनिना श्वेताम्बरेण प्रतिष्ठिताऽस्ति । पुरातनी प्रतिमेयं च त्वया पूज्या । तथा महाफला सर्वविरतिरप्यादेया" । उदायनोऽपि तद्वाचं तां प्रतिपन्नवान् । देवश्च तिरोहितवान् ।
दशमं पर्व - एकादशः सर्गः
ततोऽन्येधुरुदायनो धर्मतत्परः पौषधगृहे पाक्षिकं पौषधव्रतं गृहीतवान् । रात्रिजागरणे च शुभध्यानस्थस्य तस्येदृशो विवेको जात:-"ये वीरेण पावितास्ते नगरनामा धन्याः । तन्मुखाद्यैर्धर्मः श्रुतस्ते नृपादयोऽपि धन्याः । तथा तत्पादं सेवमाना ये प्रतिबोधं प्राप्य द्वादशविधं गृहिधर्म प्रतिपन्नवन्तस्तेऽपि सुकृतिनः । तथा तत्कृपया ये व्रतं जगृहुस्ते नितरां श्लाघ्या वन्दनीयाश्च । तेभ्यो नित्यं नमोऽस्तु । यदि वीरप्रभुर्विहारेण वीतभयनगरं पुनाति तदा तत्समीपे व्रतं गृहीत्वा कृती स्याम्" । ___तत: भो ! अभयकुमार ! वयं तज्ज्ञात्वा तदनुग्रहेच्छया चम्पापुर्या विहृत्य वीतभयनगरे समवसरामः । तत उदायनोऽस्मान् प्रणम्य देशनां श्रुत्वा गृहं गत्वा च विवेकवान् स दध्यौ"पुत्रायाऽभीचये राज्यं ददामि । नीतिविदो हि राज्यं नरकान्तं प्रतिपादयन्ति, तत्पुत्राय तद्दानं न तद्धितम्" । एवं विचार्य स भागिनेये केशिनि तद राज्यं न्यस्योदायनो जीवतः प्रभोः प्रतिमायै शासनेन पूजार्थं भूरिग्रामादिकं ददौ । ततः केशिनृपेण कृतनिष्क्रमणोत्सवोऽस्मत्पार्श्वे व्रतं गृहीतवान् । ततः स षष्ठाऽष्ठमादितपोभिः स्वात्मानं निर्मलीकृतवान्। एवमुदायनस्तृणमिव राज्यं त्यक्त्वा व्रतं गृहीतवान् । अभयकुमार ! सोऽयमुदायनश्चरमो राजर्षिर्वर्णितः ॥ ११ ॥
इति दशमे पर्वणि रौहिणेयचरित-अभयकुमारापहारोदायनचरित-प्रद्योतबन्धनोदायनप्रव्रज्यावर्णनात्मकः
एकादशः सर्गः ॥११॥