________________
.....२१३
२१२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पूजयिष्यति" । ततो भायल उवाच-"अहं पापोऽस्मि, मां धिक्, मम स्वकृतमेवेदममङ्गलमापतितम् । यद्देवाधिदेवप्रतिमाप्रतिकृत्याः पूजा मन्नाम्ना सूर्य इति कृत्वा दुरात्मभिः करिष्यते" । ततो धरण उवाच-"शोकं मा कार्षीः, एतद्धि दुःषमाकालमाहात्म्यम्" । ततो भायलस्ताभ्यां नागकुमाराभ्यां तेनैव मार्गेण नीत्वा स्वस्थाने मुक्तः ।
इतश्च वीतभयपत्तने उदायनो नित्यकर्मपरायणः प्रातर्देवायतनं ययौ । अग्रे च म्लानमाल्यां प्रतिमां दृष्ट्वा दध्यौ-"प्रतिमेयं काऽप्यन्या, सा नैव । यतस्तस्यामारोपितानि माल्यानि द्वितीयदिनेऽप्यम्लानान्येवाऽभूवन् । हहा ! किमिदं जातम् ? इह सर्वदैव पाञ्चालिकेव स्तम्भाश्रिता दासी देवदत्ताऽपि क्वाऽपि विलीनेव नाऽवलोक्यते । ग्रीष्मे मरुजलमिव गजानां मदो नष्टः । तद्गन्धगजोऽनिलवेग इहाऽऽगादिति मन्ये । नूनं रात्रौ चौर इव प्रद्योतनृपोऽनिलवेगगजेनेहाऽऽगत्य प्रतिमां देवदत्तां चाऽऽपाहरत्" । तद्विमृश्योदायनस्तत्क्षणं सैन्यैः प्रद्योतमभिजगाम । तस्य दश नृपा अपि बद्धमुकुटास्तमनुजग्मुः । सैनिकाश्च तृष्णया भूमौ लुठन्तोऽपि जलं क्वाऽपि नाऽद्राक्षुः । तदानीं चोदायनस्तत्क्षणं स्वेष्टदेवतां प्रभावतीदेवं सस्मार । स देवश्च स्मृतिमात्रेनोपस्थितो जलेन त्रीणि सरांसि पूरयामास । तेन च सैनिका मुमुदिरे । पानीयं पायं पायं च कटकं सुस्थितमभूत् । ततः प्रभावतीदेवः स्वस्थानं जगाम । उदायनोऽपि चोज्जयिनी नगरी प्राप ।
तत्रोदायननृपस्य प्रद्योतनृपस्य च शीघ्रमेव दूतमुखेन कृत्वा मिथो स्वयुद्धप्रतिज्ञा जाता । ततो धनुर्धर उदायन: साङ्ग्रामिकं रथमारुरोह । रणतूर्यमिव च मौर्वी वादयामास । प्रद्योतश्च
दशमं पर्व - एकादशः सर्गः रथेनाऽजय्यमुदायनं ज्ञात्वा प्रतिज्ञां त्यक्त्वाऽनिलवेगं गजमारुरोह । उदायनश्च गजारूढं तं दृष्ट्वा मिथ्यावागसीति भर्त्सयित्वा मण्डलिकया स्वयं वेगपूर्वकं रथं भ्रमयित्वा प्रद्योतेन सह योद्धु प्रावर्त्तत । स धन्वी तीक्ष्णैर्बाणैरनिलवेगस्य गजस्य पादतलानि समन्ताद् विव्याध । ततो बाणविद्धः पादैर्गन्तुमक्षमः स गजः पपात ।
___ तत उदायन: प्रद्योतं गजात् पातयित्वा हस्तेन गृहीत्वा बद्ध्वा तन्मस्तके दासीपतिरित्यक्षराङ्कं चकार । तमङ्कितं प्रद्योतं दासमिव कृत्वोदायनो दिव्यप्रतिमां तामानेतुं विदिशां गत्वा तां पूजयित्वा नत्वा च यावद् ग्रहीतुमुपचक्राम तावत् सा गिरिवत् स्थिरा न चचाल । तत उदायनो नृपो देवाधिदेवं विशेषतः पूजयित्वोवाच-"किं ममाऽभाग्यं यद्देवो न याति" । तत्र देव उवाच-"शोकं मा कार्षीः । वीतभयपुरं रजोवृष्ट्या स्थलं भावि तत्तत्र न गमिष्यामि" । तत उदायनो देवताज्ञां प्राप्य निववृते । किन्तु मध्य एव प्रयाणप्रतिरोधकः प्रावृडुतुः प्रावर्त्तत । तत उदायनस्तत्रैव शिबिरं स्थापयामास । दश नृपाश्च शिबिररक्षार्थ धूलिप्राकारं कृत्वा तस्थुः । तेन तच्छिबिरं दशपुरं नगरमिति ख्यातम् । युद्धे गृहीतं प्रद्योतं चोदायनः क्षात्रधर्मं पालयन् भोजनादिनाऽऽत्मानमिवाऽ पश्यत् ।
अन्यदा च पर्युषणापर्वणि प्राप्ते उदायनो देवाज्ञयोपवासं चकार । किमद्य भोक्ष्यसे इति सूदेन पृष्टश्च प्रद्योतः क्षोभाद् दध्यौ"प्रश्नोऽयमभूतपूर्वो न मम कल्याणाय, एतद्धि वधादिसूचकमुपहासवचनमेव" । स सूदमपृच्छत्-"किमद्य पृच्छसि ? सर्वदा त्वपृष्ट्वैव रसवती मदर्थं सम्पाद्यते" । तत: सूद उवाच-"नृप !