________________
२११
२१०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः भोगान् भुड्क्ष्व व्रतं मुञ्च" । ततः कपिल उवाच-"अर्था अनर्थायैव तदेभिरलम् । अहं निष्परिग्रहो जातोऽस्मि, ते धर्मलाभोऽस्तु" । एवमुक्त्वा ततो निर्गत्य निर्ममः कपिलमुनिर्महीं विहरन् षण्मासानन्तरं केवलं प्राप्तवान् । ____ इतश्च राजगृहनगरस्य मध्येऽष्टादशयोजनदीर्घ भयङ्करं वनमभूत् । तत्र च कडदासाख्या बलभद्रादयश्चौराणां पञ्चशतान्यभवन् । कपिलश्च तान् बोधयोग्यान् ज्ञात्वा तद् वनं प्राप । कपिवत् तरुशिखरमारूढश्चैकश्चौरो मुनि कपिलं दूरादागच्छन्तं दृष्ट्वा कोऽयं नोऽवगणय्येहाऽऽगच्छतीति विचार्य सेनापतये कथयामास । स मुनिश्च सेनापतिमुपाजगाम । ततः सेनानीर्दिष्ट्या क्रीडनक मागतमिति वदन् श्रमणक ! नृत्य नृत्येति मुनिमाज्ञापयामास ।
ततः कपिल उवाच-"वादकः कोऽपि नास्ति, तं वाद्यं विना च नृत्यं न शोभनं स्यात्" । ततस्ते सर्वेऽपि चौरास्तालिकामेव वाद्यमकार्षः । कपिलश्चोच्चैर्नृत्यति स्म, श्रवणसुखं गायति स्म च । दुःखबहुलेऽनित्येऽस्मिन् भवे किं तत् कर्म येनाऽहं दुर्गतिं न गच्छेयमि"त्याद्यर्थकाः पञ्चशतानि ध्रुवाः स मुनिर्गायति स्म । मुनिना तेन ध्रुवासु गीयमानासु ते चौराः प्रतिबोधं प्राप्तवन्तः । ततः स महामुनिस्तानि चौराणां पञ्चाऽपि शतानि प्रावाजयत् ।
स कपिलो मुनिः श्रीवीरजिनाज्ञां प्रतिपद्याऽत्रैव राजगृहे पुरेऽस्ति । स एव श्वेताम्बरमुख्य: स्वयंबुद्धः केवली त्वत्पुण्योदयात् प्रतिष्ठां करिष्यति । ततः प्रद्योतेन प्रार्थितः कपिलः केवली मन्त्रपूतवासक्षेपं कुर्वन् प्रतिमाप्रतिष्ठां चकार । ततो नृपस्तां प्रतिमा चन्दनैश्चर्चयित्वा पूजयित्वा भुजाभ्यामुद्धृत्य च हृदि संस्थाप्याऽनिलवेगस्य स्कन्धे स्थापयामास । सैनिकवत् स्वयमारूढश्च तां
दशमं पर्व - एकादशः सर्गः धारयामास । तथा तेन वेगवता गजेन वीतभयं पुरं गत्वा दास्यै तां प्रतिमां समर्पयामास । सा च तां प्रतिमां चैत्ये स्थापयित्वा पुरातनी प्रतिमामादायाऽऽगता । नृपश्च प्रतिमां दासी च गजे आरोप्य स्वयं चाऽऽरुह्य शीघ्रमवन्तीं प्राप । ___अन्यदा च राज्ञा कुब्जिकया च विद्युन्मालिनिर्मिता गोशीर्षकाष्ठप्रतिमा विदिशापुर्या वणिजो भायलस्याऽर्पिता । एकदा च भायलो दीप्तिमन्तौ पूजोपकरणसहितौ द्वौ पुरुषौ दृष्ट्वा को युवामिति पप्रच्छ । ततस्तावूचतुः-"पातालभवनवासिनावावां कम्बल-शम्बलाख्यौ नागकुमारौ धरणेन्द्राज्ञया विद्युन्मालिकृतामिमां देवाधिदेवप्रतिमां पूजयितुं पूजोपकरणसहितौ चैत्यमागच्छावः । आवामस्या विदिशानद्या हृदमध्यवर्तिमार्गेणाऽत्र मज्जनोन्मज्जने कुर्वः" । ___ तच्छ्रुत्वा भायल आह-"युवां देवौ जिनभक्तस्य मे पाताले स्वभवनानि दर्शयतम् । तत्र हि शाश्वतार्हत्प्रतिमा वन्दितुं मम मनोरथः कृपया पूर्यताम् । देवदर्शनं हि न कदाऽपि मोघम्" । ततस्तौ देवौ तत् प्रतिपद्य त्वरयाऽर्धरचितार्चमेव भायलं तत्र नीतवन्तौ । भायलश्च तत्र शाश्वतार्हत्प्रतिमा ववन्दे । ततो धरणस्तं सन्तुष्ट उवाच-"वरं ब्रूहि" । ततो भायल उवाच-"मम नाम सर्वत्र यथा ज्ञायते तथाऽस्तु । नामस्थिरतैव हि नराणां पौरुषम्"।
तच्छ्रुत्वा धरणेन्द्र उवाच-"चण्डप्रद्योतनृपस्त्वन्नाम्ना देवपुरं कारयिष्यति । त्वं कृतार्धार्च एवाऽत्राऽऽगा इति कियति काले जाते गुप्तैव सा प्रतिमा मिथ्याग्भिरर्चयिष्यते । तथा तैस्तस्याः प्रतिकृतिर्भायलस्वामिनामाऽयं सूर्य इति वादिभिर्बहि: संस्थापयिष्यते । ततश्च लोकस्तां प्रतिमां भायलस्वामिसूर्य इति