________________
२०८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वत्पितुर्मित्रमिन्द्रदत्तो द्विजोऽस्ति, स त्वां पुत्रमिव पाठयिष्यति" । तत: कपिलो गत्वेन्द्रदत्तं नत्वा स्वपरिचयं ददौ । अशरणं मामध्यापयेति प्रार्थयामास च । ततः स द्विज उवाच-"त्वं मे भ्रातुष्पुत्रोऽसि, तव मनोरथः श्लाघ्यः । किन्त्वहं निष्परिग्रहस्तवाऽऽतिथ्येऽप्यशक्तः । तत्तव नित्यभोजनं क्व स्यात् ? भोजनाभावे च पाठेच्छा व्यथैव" । ततः कपिल उवाच-"भिक्षयैव भोजनं स्यात् । द्विजानां हि भिक्षा न लज्जायै" ।
तत इन्द्रदत्त उवाच-"भिक्षा तपस्विनां श्रेष्ठा, यदैकदा भिक्षां नाऽऽप्स्यसि कथं पठिष्यसि ?" एवमुक्त्वा स द्विजस्तं बालं हस्ते गृहीत्वा शालिभद्रश्रेष्ठिनो गृहमागत्य गायत्रीमन्त्रमुच्चैरुच्चरन् स्वं ब्राह्मणं निवेद्य बहि: स्थितवान् । स श्रेष्ठ्यपि तमाहूय किं याचसे इति पप्रच्छ । ततः स विप्र उवाच-"अस्य बालस्य प्रतिदिनं भोजनं देहि" । श्रेष्ठी च तत् प्रतिपन्नवान् ।
ततः कपिलः प्रत्यहं तद्गृहे भुञ्जानोऽध्यैत । शालिभद्रगृहे भोजनार्थं गतस्य कपिलस्य चैका युवतिर्दासी विशिष्टं परिवेषयामास । स कपिलश्च युवा हासशीलश्च तस्यामनुरक्तो बभूव। साऽपि च तस्मिन्ननुरक्ता जाता । तौ च क्रमेण यथेच्छं रेमाते । एकदा चाऽन्यमनिच्छन्त्यपि दासी तं रहस्यमुक्तवती-"त्वमेव मे प्राणेश्वरः, किन्तु निर्धनोऽसि, तदुदरपूर्तयेऽपरं पुरुषं भजे" । स कपिलोऽपि तदन्वमन्यत । ____ अन्यदा च तस्मिन्नगरे दासीनामुत्सवः प्रावर्त्तत । सा दासी च पुष्प-पत्रादिचिन्तया खेदं प्राप । कपिलेन खेदकारणं पष्टा च सोवाच-"अद्य दासीनामुत्सवोऽस्ति, मम पुष्प-पत्रादि नास्ति, तेन च दासीनां मध्ये मम हीनता स्यात्, तेन खिन्नाऽस्मि" । कपिलश्च
दशमं पर्व - एकादशः सर्गः तदुःखदुःखितो मौनमालम्ब्य तस्थौ । ततो दास्युवाच-"मा विषीद, अत्र धनश्रेष्ठ्यस्ति, रात्र्यन्ते यस्तं प्रबोधयति तस्मै स स्वर्णमाषौ ददाति । त्वमविभातायामेव रात्रौ तद्गृहं गत्वा मधुरस्वरेण मङ्गलं पठेः" । कपिलश्च तत् प्रतिपद्य तस्यामेव रात्रौ धनश्रेष्ठिगृहं वेगाद् गच्छन् पुररक्षकैर्मार्गे चौरधिया धृत्वा बद्धः । तथा प्रातः प्रसेनजिन्नृपस्य पुरो नीतश्च पृष्टश्च स्वर्णमाषकथां कथयामास । नृपश्च तच्छ्रुत्वा जातदय उवाच-"यथेष्टं याचस्व, तदवश्यं तुभ्यं दास्ये" ।
ततः स कपिलो विचार्य याचिष्ये इत्युक्त्वाऽशोकवने गत्वा योगीवैकचित्तौ भूत्वा दध्यौ-"द्वाभ्यां माषाभ्यां वस्त्रादि न स्यात् । तन्नृपात् सुवर्णशतं याचे । यद्वा सुवर्णशतेन वाहनादि न स्यात्, तत्सुवर्णसहस्रं याचे । अथवा सहस्रेण ममाऽपत्यविवाहाद्युत्सवो न सम्पादितः स्यादिति लक्षं याचे । लक्षमपि चाऽल्पमेव । यतस्तेन मित्र-बन्ध्वादिपालनं न भवेत् । तत्कोटि कोटिशतं कोटिसहस्रं वा याचे" । एवं ध्यायतश्च तस्य शुभकर्मोदयाच्छुभपरिणामो जातः । ततः स दध्यौ-"पुरा माषद्वयेनाऽपि मम सन्तोषो भवति । अद्य तु कोटिप्राप्तावपि न । विद्यार्थमिहाऽऽगतस्य ममेदं दुर्व्यसनं जातम् । गुरोर्मयि ज्ञानदानमूषरे बीजवाप इवाऽजनि, यत्कुलोपहासकरं दास्या अपि दासत्वमकार्षम् । तदेभिविषयैः कृतम्" । एवं संविग्न: स जातजातिस्मरणः स्वयंबुद्धो बभूव ।
तत: केशानुत्पाट्य देवतादत्तं धर्मोपकरणमादाय नृपमुपगतः पृष्टश्च स्वमनोरथं सविस्तरमाख्यायोवाच-"यथा लाभस्तथा लोभो, लाभाद् लोभ: प्रवर्धते । द्विमाष्या चिन्तितं कार्य कोट्याऽपि न समापितम्" । ततश्चकितो नृप उवाच-"विप्र ! कोटीरपि ते ददामि,