________________
२५४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः परिपाल्य पर्यङ्कासनस्थ: कायस्य बादरे योगे स्थितो बादरौ वाङ्मनोयोगौ रुद्ध्वा वपुषः सूक्ष्मं योगमाश्रित्य बादरं काययोगं रुद्ध्वा सूक्ष्मौ वाङ्-मनोयोगावपि रुद्ध्वा तृतीयं सूक्ष्मक्रियं शुक्लध्यानं चक्रे । ततः प्रभुः सूक्ष्मं काययोगं निरुध्य चतुर्थं समुच्छिन्नक्रियं शुक्लध्यानं प्रपन्नवान् । तेन ध्यानेन च पञ्चहूस्वाक्षरोच्चारणकालप्रमाणेन चतुर्थपुरुषार्थसहचारिणैरण्डबीजवद् बन्धाभावादूर्ध्वं गच्छन् स्वभावर्जुना मार्गेणाऽद्वितीयं मोक्षं जगाम । तदानीं च नारकाणामपि क्षणं सुखमभूत् । ये नारकाः कदाऽपि सुखलवमपि न भजन्ति ।
तदानीं च चन्द्रनामा वत्सरः, प्रीतिवर्धनाख्यो मासो, नन्दिवर्धनाह्वयः पक्षोऽग्निवेशनामा वासरश्चाऽभूत् । स वासर उपशम इत्यपराभिधानः, सा रात्रिश्च देवानन्दाख्याः नैर्ऋतीत्यपराख्या, लवश्च सोऽर्च्य इत्याख्यः, शुक्लाख्यः प्राणः, शुद्धनामा स्तोकः, सर्वार्थसिद्धाख्यो मुहूर्तो, नागनाम करणं चाऽभवन् । तदानीं चाऽप्रतिविधेयः कुन्थुनामजन्तुरस्पन्दो दृग्गोचरः स्पन्दमानश्च दुग्गोचर उदपद्यत । तां दृष्ट्वा च साधवः साध्व्यश्च बहवः 'संयमोऽतः परं दुष्पालो भावी'ति चिन्तयाऽनशनं चक्रुः । राजानश्च सर्वे तदानीं प्रभौ ज्ञानदीपके निर्वाणे द्रव्यदीपकान् रचयामासुः । तत्प्रभृति च लोके दीपोत्सवाभिधं तत्पर्व सर्वतो दीपमालाकरणात् तस्यां रात्रौ प्रवर्तते । देवाश्चाऽश्रुपूर्णनेत्रा जगद्गुरोर्वपुर्नत्वा स्वमनार्थ शोचन्तोऽदूर एवाऽस्थुः ।
अथ शक्रो धैर्यमालम्ब्य नन्दनवनादिभ्य आहृतैर्गोशीर्षचन्दनकाष्ठेरेकान्ते रचयामास । तथा शक्रः स्वयमेव क्षीरोदसागरजलैः प्रभोर्वपुः स्नपयित्वा दिव्येनाऽङ्गरागेण विलिप्य दिव्ये वाससी च परिधाप्य नेत्रजलैः पुनः स्नपयन्निवोद्दधे । विमान
दशमं पर्व - त्रयोदशः सर्गः वरतुल्यायां शिबिकायां प्रभोर्वपुः शक्रो देवासुरैः दृश्यमानो न्यधात् । प्रभोराज्ञामिव च शक्रस्तां शिबिकां कथञ्चिद् निरुद्धशोकावेगः समुद्दधार । तत्र देवाश्च बन्दिवृन्दानीव जयजयारावं कुर्वन्तो दिव्यानि पुष्पाणि ववृषुः । तथा गन्धाम्बुजलेन पृथिवीं परितः सिषिचुः । गन्धर्वा देवाश्च स्वामिगुणान् स्मारं स्मारं मुहुर्मुहुः स्तुवन्तस्तारस्वरेण जगुः । तथा देवा: शोकेन निजवक्षःस्थलमिव मृदङ्ग-पणवाद्यानि शतशो वाद्यानि दृढं ताडयामासुः ।
सुरस्त्रियश्चाऽभिनवा नर्तक्य इव शोकेन स्खलद्गतयः प्रभोः शिबिकाग्रे ननृतुः। देवाश्च चतुर्विधा अपि दिव्यैर्दुकूलैहारादिभिरलङ्कारैः पुष्पमाल्यैश्च शिबिकामानचुः । भक्तिशोकसमाकुला: श्राविकाः श्रावकाश्चाऽपि रुदितेन सहैव रासकगीतं चक्रुः । सूर्येऽस्तमिते कमलेषु महती निद्रेव साधुषु साध्वीषु च शोकोऽत्यन्तं पदं चकार । ततः शक्रः प्रभोः शरीरं शोकशङ्कुना गृहीत इव विदीर्यमाणहृदयश्चितायां निदधौ । अग्निकुमाराश्च चितामग्नि विचक्रुः वायुकुमाराश्चाऽग्निदीपनं वायु विचक्रुः । अन्ये देवाश्च ज्वलन्त्यां तस्यां चितायां गन्धधूपान् शतशो घृत-मधुकुम्भाश्च चिक्षिपुः । ततो मेघकमारा मांसादिषु प्रदग्धेषु क्षीरोदसागरादाहृतैर्जलैश्चितां द्राग् विध्यापयामासुः ।
ततः शक्रेशानेन्द्रौ प्रभोदक्षिणा-ऽदक्षिणे ऊर्ध्वदंष्ट्रे चमरबलीन्द्रौ चाऽधोदंष्ट्रे जगृहतुः । अन्ये इन्द्रा देवाश्चाऽन्यदन्तानस्थीनि च जगृहुः । नराश्च कल्याणकाङ्क्षया तच्चिताभस्म जगृहुः । ततो देवास्तस्याश्चितायाः स्थाने कल्याणसम्पदां भूमि परं रत्नमयं स्तूपं रचयामासुः । एवं देवाः प्रभोनिर्वाणमहोत्सवं कृत्वा नन्दीश्वरे गत्वा शाश्वतार्हतामष्टाह्निकामहोत्सवं चक्रुः । तथा ते देवा: स्वस्वस्थानं