________________
नवमं पर्व - चतुर्थः सर्गः
२७४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः क्षमयामास । ततो बन्धुदत्तः प्रियदर्शनामुवाच 'नाऽस्याऽपराधो यतोऽयं त्वया मामयोजयत् ।
ततो बन्धुदत्तश्चण्डसेनमाज्ञाप्य तान् बलिपुरुषान् मोचयित्वा किमेतदित्यपृच्छत् । भिल्लेशेन सर्वं वृत्तं ज्ञात्वा चाऽवोचत्-'जीवहिंसया पूजा न क्रियते किन्तु पुष्पादिना, हिंसा-ऽसत्या-ऽब्रह्मादिकं सर्वथा त्याज्यमेव' । तच्छ्रुत्वा च स पल्लीशस्तत् प्रतिपन्नवान् । पार्श्वस्थादेवी चाऽद्यप्रभृति मम पूजा पुष्पादिभिरेव विधेयेत्युवाच । तच्छ्रुत्वा च बहवो भिल्ला भद्रका बभूवुः । प्रियदर्शना च बन्धुदत्ताय पुत्रमर्पितवती। बन्धुदत्तश्च धनदत्ताय पुत्रं दत्त्वा ममाऽसौ मातुल इति प्रियदर्शनामुवाच। ततः सा प्रियदर्शना नीरङ्गी कृत्वा दूरतोऽपि नत्वा पुत्रनामकरणाय प्रार्थितवती । ततस्तौ बान्धवानामयमानन्दद इति बान्धवानन्द इति नाम चक्रतुः ।
ततः स पल्लीशो बन्धुदत्तादीन् स्वगृहे भोजयित्वा लुण्टितं सर्व धनं प्रत्यर्पयामास । तथा स चामर-व्याघ्रचर्म-दन्त-मुक्ताफलादिकं बन्धुदत्तायोपादात् । बन्धुदत्तश्च बन्दिन उचितदानपूर्वकं व्यसृजत् । धनदत्तं च कृतकृत्यं कृत्वा स्वगृहं प्रेषीत् । ततो बन्धुदत्तः ससार्थः प्रियदर्शनया सह चण्डसेनेनाऽन्वितो नागपुरीं ययौ । बन्धुभिरभ्येत्य नृपेण च बहुमानतो गजे आरोप्य नगरे प्रवेशितः । ततो दानं ददान: स स्वगृहं गत्वा बन्धून् भोजयित्वा सर्वं वृत्तं कथयामास । तथा सर्वानुद्दिश्योवाच-'असारे संसारे जिनशासनमेव सारमिति ममाऽनुभवः' । ततो बन्धुदत्तवचसा जनो जिनधर्मपरायणोऽभूत् । बन्धुदत्तश्च सत्कृत्य चण्डसेनं विसृज्य यथेच्छं प्रियदर्शनया सह विषयसुखं भुजानो द्वादशवर्षाण्यस्थात् ।
अन्यदा च शरदुत्सवे तत्र श्रीपार्श्वप्रभुः समवससार । बन्धुदत्तश्च स परिवारो गत्वा नत्वा धर्मदेशनां श्रुत्वा-'मम षट् प्रियाः केन कर्मणोढमात्रा मृताः, तथा विरहो बन्दिता च मे कुत' इत्यपृच्छत् । ततः प्रभुरुवाच-'अत्र भारते विन्ध्याद्रौ त्वं शबरेश: शिखरसेनो हिंसाप्रियोऽभूः । तस्य चेयं प्रियदर्शना श्रीमती नाम पल्यभूत् ।
एकदा मार्गभ्रष्टः साधुगच्छोऽटवीमटन् तत्राऽऽयातस्त्वया सदयेन चेतसा दृष्टः । तथा तैर्मार्गभ्रष्टा वयमित्येवं कथितश्च । तदा श्रीमती त्वामुवाच-'फलादि भोजयित्वैतान् वनादुत्तारय' । ततस्त्वं तदुपदिष्टस्तान् कल्प्यैः फलादिभिः प्रतिलाभ्य मार्ग नीतवाश्चं । ते च धर्ममुपदिश्य नमस्कारमन्त्रं दत्त्वा त्वामुपादिशन्-'त्वया पक्षस्यैकस्मिन् दिने सर्वं सावधं कर्म त्यक्त्वा नमस्कारमन्त्रोऽयं स्मर्त्तव्यः। तदानीं च द्रुह्यतेऽपि मा कुपः । एवं ते धर्मं चरतः स्वर्गश्रीरपि सुलभा'। ___तव च तत् स्वीकृत्य तथा कुर्वतोऽन्यदा सिंह आगात् । तेन च भीता श्रीमती । त्वं च मा भैषीरिति जल्पन् धनुर्गृहीत्वाऽपि श्रीमत्या गुरुभाषितं धर्मं स्मारितो निश्चलोऽभूः । ततः श्रीमती त्वं च सिंहेन भक्षितौ सौधर्मे देवौ जातौ । ततः च्युत्वाऽपरविदेहेषु चक्रपुर्यां त्वं कुरुमृगाङ्गनृपस्य शबरमृगाङ्को नाम बालचन्द्राकुक्षिजन्मा पुत्रो नृपोऽभवः । श्रीमती च कुरुमृगाङ्कश्यालस्य सुभूषणनृपस्य कुरुमत्यां दिवश्च्युत्वा वसन्तसेनाख्या पुत्री जाता । युवां च स्वस्वस्थानं स्थितौ तरुणौ जातौ । चित्रकरानीतत्वद्रूपचित्रदर्शनात् सा त्वयि त्वं च तस्या गुणान् श्रुत्वा रक्तौ जातौ । पित्रा