________________
२७७
२७६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः च प्रेम ज्ञात्वा तया सह त्वं परिणायितः । ततस्ते पिता तापसो जातस्त्वं च नृपोऽभवः ।
तत्रैव विजये च पराक्रमी जयपुरेशो वर्धनो नाम त्वां दूतैरवदत्-मम वसन्तसेनां यच्छ, ममाऽऽज्ञां स्वीकृत्य राज्यं भुक्ष्व च, अन्यथा मया सह युध्यस्व' । त्वं च तच्छ्रुत्वा क्रोधाद् युद्धाय गजस्थितो निर्गतस्तेन सह युयुधिषे । तेन च प्रहृतस्त्वं रौद्रध्यानवशाद् विपद्य षष्ठे नरके जातः । वसन्तसेना च विरहपीडिताऽग्नि प्रविश्य विपद्य तत्रैव नरके जाता । तत उद्धृत्य च त्वं पुष्करद्वीपभरते दरिद्रगृहे सुतो जातः, सा च तुल्या जाति: सुता जाता । द्वयोरपि यौवनं प्रपन्नयोर्विवाहो जातः ।
अन्यदा च स्वगृहस्थाभ्यां युवाभ्यां साध्व्यो दृष्टा भक्त्या प्रतिलाभिताश्च । तदा पृष्टाः साध्व्यो नो गणिनी बालचन्द्रा वसुश्रेष्ठि गृहसमीपे प्रतिश्रयश्चेत्यूचुः । दिनान्ते च तत्र गतौ युवां बालचन्द्रया गणिन्या धर्मं श्रावितौ गृहिधर्मं प्रपद्य विपद्य ब्रह्मलोके देवो भूत्वा युवां जातौ । तत्र भिल्लभवेऽनयाऽनुमोदितस्त्वं तिर्यग्वियोजनं चकर्थ, तेन तव प्रियविपत्तिविरहो बन्धादिवेदनाश्च' ।।
ततो बन्धुदत्तेनाऽतः परं क्व यास्याव, आवयोः कियांश्च भव इति पृष्टः पार्श्वप्रभुः पुनरुवाच-'युवां विपद्य सहस्रारे देवौ भूत्वा च्युत्वा त्वं प्राग्विदेहे चक्री तवेयं गृहिणी च भविष्यति । तत्र परिव्रज्यामुपादाय युवां सिद्धि गमिष्यथः । तच्छ्रुत्वा प्रबुद्धो बन्धुदत्तः प्रियदर्शनया सह श्रीपार्श्वप्रभोरन्तिके व्रतं ललौ ।
अथाऽन्यदा निजपुरान्तिके समवसृतं पार्श्वप्रभुं नवनिधिस्वामी नृपः समागत्य नत्वा केन कर्मणा ममैषा समृद्धिरिति पृष्टवान् । ततः
नवमं पर्व - चतुर्थः सर्गः प्रभुरुवाच महाराष्ट्रदेशे हेल्लूरनामग्रामे त्वं पूर्वजन्मनि मालिकोऽशोकनामाऽभूः । एकदा च पुष्पाणि विक्रीय स्वगृहं प्रति चलितो मार्गे श्रावकगृहे प्रविष्टः त्वं तत्राऽर्हद्बिम्बं दृष्ट्वा करण्डकाद् नव पुष्पाण्यादायाऽर्हत्यारोप्य महत्पुण्यमर्जयः । अन्यदा राज्ञस्त्वं प्रियङ्गुमज्जरीमुपानयः, तेन च राज्ञा श्रेणिप्रधानत्वे स्थापितः । ____ कालेन विपद्य च एलपुरे नवद्रव्यलक्षपतिर्जातः । ततो विपद्य त्वं तत्रैव पुरे नवद्रव्यकोटीश्वरोऽभवः, पुनर्मृत्वा स्वर्णपथे नगरे नवस्वर्णलक्षेशो भूत्वा क्रमाद् विपद्य तत्रैव पुरे नवरत्नकोटीश्वरो भूत्वा मृत्वा वाटिकापुर्यां वल्लभनृपपुत्रो नवग्रामलक्षपतिर्भूत्वा विपद्य नवनिधीश्वरो नृपो जातोऽसि । भवादस्माच्चाऽनुत्तरविमानं गमिष्यसि' । तच्छ्रुत्वा प्रबुद्धः स तत्कालं प्रभोरन्तिके प्रव्रवाज । प्रभुश्चाऽन्यत्र विजहार ।
एवं विहरतश्च प्रभोः साधूनां षोडश सहस्राणि, साध्वीनामष्टात्रिंशत्सहस्राणि, चतुर्दशपूर्वभृतां सार्धशतत्रयम्, अवधिज्ञानिनां चतुर्दश शतानि, मन:पर्ययिणां सार्धा सप्तशती, केवलिनां सहस्रं, वैक्रियलब्धिमतामेकशतं, वादलब्धिमतां षट् शतानि, श्रावकाणां चतुष्षष्टिसहस्रयुगं लक्षमेकं, श्राविकाणां त्रिलक्षी सप्तसप्ततिः सहस्राणि च परिवारा अभूवन् ।
अथ निर्वाणसमयं ज्ञात्वा पार्श्वप्रभुः सम्मेताद्रिमुपेत्य त्रयस्त्रिंशन्मुनियुतोऽनशनं प्रपद्य श्रावणशुक्लाष्टम्यां विशाखास्थे चन्द्रे तैर्मुनिभिः सहाऽव्ययं पदं प्राप ।
तदेवं प्रभोर्गार्हस्थ्ये त्रिंशद्वर्षाणि, व्रते सप्ततिरिति मिलित्वा वर्षशतायुः । श्रीनेमिनिर्वाणदिनात् त्र्यशीतिवर्षसहस्यां शतसप्तके