________________
m७३
२७२ ___ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विधवा कन्या वीरमती सिंहलेन मालिकेन सह तत्राऽऽयाता, तस्याः पूज्यश्च स योगात्मा दैववशात् तद्दिनेऽनाख्यायैवाऽसङ्गत्वात् क्वचिदन्यत्र गतवान् । ततो वीरमती गतेति जनेषु कथा जाता । त्वं च योगात्मना समं सा गतेत्यचिन्तयः । ततो राजकुले गत्वा वीरमती योगात्मना स क्वाऽपि गतेत्यवादी: । स निःसङ्गो योगात्मेति नृपेण कथिते च सोऽन्यदारापहर्ता पाखण्डीति चाऽवोचः । तेन च लोको धर्मे सावज्ञो जातः । स योगात्मा च परिवाड्भिर्बहिष्कृतः । ___ एवं कर्म निकाचितं कृत्वा विपन्नः कोल्लाके देशे एडको जातः । ततोऽपि कर्मदोषाज्जिह्वव्रणेन विपद्य तत्रैव वने जम्बूको भूत्वा विपद्य साकेतनगरे मदनलताया वेश्यायास्तनयोऽभवः ।
तरुणश्च त्वमेकदा मदिरापानमत्तो राजमातरमाक्रोशन् राजपुत्रेण च्छेदितजिह्येऽनशनेन मृत्वाऽधुना द्विजो जातः । अद्याऽपि भोक्तव्यं कर्म तवाऽवशिष्यते' । तच्छ्रुत्वा जातवैराग्योऽहं सुगुरोः पार्वे परिव्राड् भूत्वा गुरुशुश्रूषापरो म्रियमाणेन गुरुणा तालोद्घाटनिकया सह खेचरी विद्यामुपदिष्टः, तथा धर्मदेहरक्षणादन्यत्र व्यसनेऽपि नेमे विद्ये प्रयोक्तव्ये हास्येऽपि च मिथ्या न वक्तव्यमिति निर्दिष्टश्च । प्रमादाद मिथ्यावचने च नाभिप्रमाणे जले ऊर्ध्वभजोऽष्टाग्रसहस्रं जपं कुर्या इति च कथितः ।
अथ विषयानुरागिणा मया चेदं विपरीतं कृतम् । गतदिने सार्थे उद्याने स्थिते मिथ्याऽवदम् । ह्यो हि स्नात्वा मन्दिरे देवार्चनार्थमागताभिर्युवतिभिव्रतग्रहणकारणं पृष्टोऽहमभीष्टपत्न्यप्राप्तिर्हेतुरिति मयोक्तम् । गुरूपदिष्टं जपं च जले स्थित्वा नाऽकार्षम् । रात्रौ च
नवमं पर्व - चतुर्थः सर्गः चौरिकार्थं सागर श्रेष्ठिनः पिहितद्वारे गृहे श्वेव प्रविश्य स्वर्णादिकं गृहीत्वा निर्गच्छन् राजपुरुषैधृतः । खेचरी विद्या च तदा स्मृताऽपि नाऽस्फुरत्' । ततो मन्त्री पुनः पप्रच्छ-'भूषणकरण्डक एको न प्राप्तः, ततः किं स्थानाद् भ्रान्तोऽसि' । ततः स उवाच-'यत्र सकरण्डको निक्षप्त आसीत् ततः स केनाऽपि ज्ञात्वाऽपहतः'। तच्छ्रुत्वा स मन्त्री तं परिव्राजं मुक्तवान् । ___अथ निर्दोषाविमाविति ध्यात्वा मन्त्री तौ जामेय-मातुलौ मोचयामास । तथा-'अवश्यं ताभ्यामज्ञाभ्यां लब्धः करण्डकः, किन्तु भयादन्यथोचतुः' । एवं ध्यात्वा तावाहूयाऽभयपूर्वं वृत्तं पृष्टवान् । तौ च यथातथं सर्वं च वृत्तमूचतुः । ततस्तौ मन्त्रिणा मुक्ती कृशत्वाद् व्यहं स्थित्वा तृतीयेऽहनि जग्मतुः । पुररक्षोभिश्चण्डसेनपुरुषैः प्राप्तौ च बन्दिपुंसां मध्ये क्षिप्तौ चण्डसेनादेव्याः समीपे बलिहेतो तौ । चेट्या सह सपुत्रां प्रियदर्शनां गृहीत्वा चण्डसेनश्च पूजार्थं तत्राऽऽगतः । वणिस्त्रियो भीमामिमां पूजां द्रष्टुं न क्षमा इति स प्रियदर्शनायाः नेत्रे वस्त्रेण प्यधात् । तथा स प्रियदर्शनायाः पुत्रं स्वयमादाय नेत्रसंज्ञया प्रथमं दैवाद् बन्धुदत्तमेवाऽऽनाययत् । प्रियदर्शनां च देव्यै पुत्रं प्रणमय्य रक्तचन्दनमर्चयित्वा पूजयेत्युवाच । स्वयं च निर्दयः कोशात् खड्गमाचकर्ष । ____ ततो दीना प्रियदर्शना दध्यौ-देव्या मत्कृते पुरुषबलि धिक्, मम महदयशः, अहं राक्षसी जाताऽस्मि' । तदानीं चाऽऽगतो बन्धुदत्तो मृत्युं ज्ञात्वा नमस्कारान् गणयितुं प्रावर्त्तत । तच्छब्दं श्रुत्वा च प्रियदर्शना सद्य एव दृशावुद्घाट्य निजं पतिं दृष्ट्वा चण्डसेनमवदत्-भ्रातस्त्वं सत्यप्रतिज्ञो जातोऽसि, अयं ते भगिनीपतिबन्धुदत्तः' । ततश्चण्डसेनः पादयोः पतित्वा स्वापराधमज्ञानकृतं