________________
२७१
२७०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः समुद्घाटिते तस्मिन् करण्डके राजनामाङ्कितानि भूषणानि दृष्ट्वा राज्ञश्चिरप्रणष्टानि तानीति व्यचिन्तयत् । यत्-'पुरैताभ्यां हृत्वाऽत्र निक्षिप्तं भवेत्, तत्ताडनयाऽऽभ्यामन्येऽपि तस्करा ज्ञास्यन्ते' । इति विचार्य राजपुरुषैरशेषमेव सार्थं धृत्वा तौ बाढं ताडयामास । __ ततः प्रहारात्तौ तावूचतुः-ह्यो दिने आवां सार्थेन सहेहाऽऽयातौ, यद्येवं न भवेत् तदा भवद्भिरावां ताडनीयौ' । तत्रैकस्तत्रत्यः पुरुषो बन्धुदत्तमुद्दिश्योवाच-'पञ्चमे दिनेऽसौ सार्थेऽत्र मया दृष्टः' । ततो मन्त्रिणा पृष्टः सार्थेश उवाच-ईदृशान् कार्पटिकान् सार्थे गच्छत: को ज्ञातुं शक्नोति' । तच्छ्रुत्वा क्रुद्धो मन्त्री तौ जामेय-मातुलौ कारायां निक्षिप्तवान् ।
इतश्च चण्डसेनस्तां पद्माटवीं चिरं भ्रान्त्वा बन्धुदत्तं क्वाऽप्यप्राप्य विषण्णो गृहं गतः प्रियदर्शनाया अग्रे प्रत्यज्ञासीत्षण्मासाभ्यन्तरे तव पतिमानयामि वाऽग्नौ प्रविशामि वा' । एवं प्रतिज्ञाय स पल्लीशो गुप्तपुरुषान् कौशाम्ब्यां नागपुर्यां च बन्धुदत्तमन्वेषयितुं प्रजिघाय । ते च कतिपयैदिनैः पुनरागत्य बन्धुदत्तो मया क्वाऽपि न दृष्ट इत्यूचुः । ततश्चण्डसेनो दध्यौ-'स बन्धुदत्तः प्रियाविरहपीडितो भृगुपातादिभितो भवेत् । ममाऽपि प्रतिज्ञादिनाच्चत्वारो मासा गताः । तदधनाऽग्नि प्रविशामि. यतो बन्धुदत्तो दुर्लभः । अथवा प्रियदर्शनाया: प्रसवानन्तरं तत्सुतं कौशाम्ब्यां नीत्वाऽग्नौ प्रवेक्ष्यामि' । ___ तस्मिन्नेवं चिन्तयत्येव द्वारपाल आगत्याऽब्रवीत्-'दिष्ट्या वर्धसे, प्रियदर्शना सुतं सुषुवे' । ततो हृष्टः पल्लीशस्तस्मै पारितोषिकं दत्त्वा चण्डसेनाख्यां पद्माटवीदेवीमुवाच-'यदि मम
नवमं पर्व - चतुर्थः सर्गः स्वसा मासं यावत् पुत्रेण सह कुशलिनी स्यात् तदा भवत्यै दशभिः पुरुषैर्बलिं दास्यामि' । ततः सकुशलं पञ्चविंशतिदिनेष्वतीतेषु स पुरुषान् बलिपुरुषानानेतुं प्रतिदिशं प्राहिणोत् ।
इतश्च कारायां समातुलो बन्धुदत्तो नरके इव षण्मासान् व्यतीयाय । तदानीं च रात्रौ सधनः परिव्राडारक्षैर्बद्ध्वा तस्यैव मन्त्रिणः समर्पितः । परिव्राजां नैव धनं भवितुमर्हतीति तदसौ नूनं तस्कर इति मन्त्रिणा स वधायाऽऽदिष्टो नीयमानो 'नाऽन्यथा मुनिवच' इति ध्यात्वाऽवोचत्-'मां विहायाऽन्येनेदं नगरं नाऽमुष्यत, सर्वमेव चोरितं धनमद्रि-नद्यादिभूमिष्वस्ति, यस्य यस्य तद् धनं तस्य तस्य तदर्ग्यता, पश्चादहं निग्राह्यः' । आरक्षैस्तज्ज्ञात्वा तद्भूमिषु तत्करण्डं मुक्त्वा सर्वं धनं दृष्ट्वा तं परिव्राजमुवाच-'तवेदृशं चेष्टितं नाऽऽकृतियोग्य, तदाख्याहि किमत्र रहस्यम्' । ___ततः परिव्राडुवाच-'विषयैषिणां निर्धनानामिदं कर्मैवोचितम्, अहं पुण्ड्रवर्धने पुरे सोमदत्तविप्रस्य नारायणाख्यः पुत्रो दीनमुखान् चौरबुद्ध्या बद्धान् नरान् दृष्ट्वाऽवश्यमिमे हन्तव्या इत्यवदम् । तदैको मुनिर्हा कष्टमज्ञानमित्यब्रवीत् । किमज्ञानमिति मया पृष्टश्च स मुनिरुवाच-'असद्दोषारोपणं परस्याऽतिपीडाकृद् भवति, इमे पुराकृतवशाद् व्यसने पतिता न चौराः । पुराकृतकर्मण: फलं शीघ्रमेव प्राप्स्यसि, तत्परस्मिन्नसदोषं मा वोचः । ततो मया प्राक्कर्मफलं पृष्टो मुनिरुवाच
इह भरतक्षेत्रे गर्जनपुरे आषाढनामविप्रस्येतः पञ्चमे भवे त्वं रच्छुकाकुक्षिजन्मा चन्द्रदेवनामा वेदज्ञः पुत्रोऽभवः, वीरसेननृपस्याऽतिप्रियस्तत्राऽपरो योगात्मा परिव्राडासीत् । तत्र च विनीतश्रेष्ठिनो