________________
२६८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः राजहंसं दृष्टवाऽत्यन्तं दुःखितोऽभूत् । तदानीमेव च कमलच्छायोपविष्ट्या प्रियया स हंसो युयुजे । ततस्तं प्रियया मिलितं दृष्टवा बन्धुदत्तः पुनर्दध्यौ-'जीवतां प्रियया योगः सम्भाव्यते, तत्स्वां पुरी यामि, यद् वा निर्धनः कथं तत्र यामि, कौशाम्ब्यामपि प्रियया विना गन्तुं न युज्यते । ततो विशालां गत्वा स्वमातुलादर्थं गृहीत्वा चौरराजाय दत्त्वा च प्रियां निजां मोचयामि । तत: प्रियया समं नागपुरं गत्वा स्वगृहाद् मातुलस्याऽर्थं दास्यामि' ।
एवं विचार्य स पूर्वां प्रति गच्छन् द्वितीये दिने गिरिस्थलं नाम स्थानं प्राप्तो मार्गसमीपे यक्षगृहे यावद् विश्राम्यति तावत् तत्र श्रान्त: पान्थः कश्चिदागात् । कुत आगा इति बन्धुदत्तेन पृष्टश्च स उवाच-'विशालायाः पुर्या आगमम्' । ततस्तत्र धनदत्तः सार्थवाह: कुशली कश्चिदिति पुनर्बन्धुदत्तेन पृष्टः स पान्थो दीनवदन उवाचधनदत्ते व्यवहर्तुं गते तस्य प्रथमः पुत्रो गृहे पत्न्या सह क्रीडन् यान्तं नृपं न गणयामास । ततः क्रुद्धो नृपस्तस्य सर्वस्वमग्रहीत् । पुत्रादिकांश्च स गुप्तौ चिक्षेप । धनदत्तश्च दण्डावशिष्टको धनार्थ स्वसुः सुतं बन्धुदत्तं गतो मया ह्यो विमोचितः' । ततो बन्धुदत्तो दध्यौ-'दैवेन किमिदं कृतं, मम यत्राऽऽशाऽभूत् सोऽपि व्यसने पतितः । तदत्रैव स्थित्वा निजमातुलं पश्यामि, नागपुरी गत्वाऽऽशु तदर्थं साधयामि च' । एवं विचार्य स तत्रैव तस्थौ ।
अथ पञ्चमे दिने तन्मातुलः सार्थेन सह तत्राऽऽगात् । बन्धुदत्तश्च यक्षगृहे तमालतरुतले उपविष्टो धनदत्तं दृष्ट्वोपलक्षणार्थ 'कुतो यूयमागताः, कुत्र यास्यथे'त्यपृच्छत् । ततो धनदत्त उवाच'विशालाया इहाऽऽगतो नागपुरी प्रस्थितोऽस्मि' । ततो बन्धुदत्त उवाच-'अहमपि तत्र यास्यामि, नागपुर्यां भवतां कोऽस्ति' । ततो
नवमं पर्व - चतुर्थः सर्गः मम जामेयस्तत्राऽस्तीति धनदत्तेनोक्तो बन्धुदत्त उवाच-तत्र मम मित्रं बन्धुदत्तोऽस्ति । तथा मातुलं ज्ञात्वा स स्वमप्रकटयन्नेव तेन सहाऽस्थाद् भोजनादिकं च चकार । प्रभाते च शौचाय नदीं गतो बन्धुदत्तः कदम्बगहरे रत्नच्छायाङ्कितधूलि भुवं दृष्ट्वा तीक्ष्णशृङ्गेणोत्ख्याय च रत्नाभरणभूषितं ताम्रमयं करण्डकं प्राप । ततस्स गुप्तमादाय धनदत्तमुपेत्य सर्वं वृत्तमाख्याय-'त्वत्पुण्यैरेव करण्डोऽयं प्राप्तः, तदयं गृह्यताम् । उभावावां विशालां गत्वाऽर्थ दत्वा नृपग्रहात् स्वान् मोचयावः' ततो नागपुरीं यावः ।
तच्छ्रुत्वा धनदत्तोऽब्रवीत्-'मानवैर्मोचितैर्मम किम् ? तव मित्रं बन्धुदत्तं द्रक्ष्यामः, ततः परं स प्रमाणम्' । ततो बन्धुदत्तः प्रणम्य स्वं प्रकटीचकार । सर्वं स्वं वृत्तं शशंस च । ततो धनदत्त उवाच'वत्स ! प्रथमं प्रियदर्शनां भिल्लेभ्यो मोचयिष्याव:' । अत्रान्तरे च नृपभटा उदायुधास्तत्राऽऽयाताश्चौरशङ्कया पान्थानूचुः । यावच्च धनदत्त-बन्धुदत्तौ द्रव्यं यक्षगृहान्तिके चिक्षिपतुस्तावत् तै राजपुरुषैः प्राप्तौ । ततस्तैः किमेतदिति पृष्टौ तावूचतुः-युष्मद्भयेनाऽऽवाभ्यां निजं वस्तु गोपितम्। ततस्ते राजभटा: करण्डेन समं तावपरान् पान्थानपि च राजमन्त्रिण: समीपं निन्युः । मन्त्री च परीक्ष्याऽन्यान् पान्थान् मुक्त्वा कृतादरस्तावपृच्छत्-'युवां जामेय-मातुलौ कुतस्त्यौ, किं चेदमिति' ।
ततस्तावूचतुः-'आवां विशालाया आगतो, इदं पूर्वाजितं धनं गृहीत्वा लाटदेशाय वयं प्रस्थिताः' । ततो मन्त्र्युवाच-'यदि युष्माकमयमर्थस्तदाऽभिज्ञानपुरस्सरं सर्वं शीघ्रं कथय' । ततस्तावनभिज्ञौ भीतावूचतु:-'स्वयमेवोद्घाट्य दृश्यताम्' । ततो मन्त्री