________________
षष्टिशलाका पुरुषचरितम्-गद्यात्मकसारोद्धारः
तत्रैव चित्राङ्गदेन विद्याधरेण साधर्मिकवात्सल्यात् खेचरीं विद्यां निजकन्यां च ग्रहीतुं प्रार्थित: स उवाच - 'न विद्यया मे प्रयोजनम्' । ततः स खेचरोऽनिषेधात् कन्यामिच्छतीत्यनुमाय बन्धुदत्तं तं निजस्थानं नीत्वा स्नान- भोजनादिना सत्कृत्य सर्वान् खेचरान् 'भारतेऽस्य योग्या कन्या भवद्भिर्दृष्टा किमिति पप्रच्छ । ततस्तद्भ्रातुरङ्गदस्य पुत्री मृगाङ्कलेखोवाच- 'मम सखी प्रियदर्शना कौशाम्ब्यां जिनदत्त श्रेष्ठिसुता स्त्रीरत्नमस्ति । सा सुतं जनयित्वा प्रव्रजिष्यतीति मुनिनोक्तम्' ।
२६६
ततश्चित्राङ्गदो विद्याधरान् बन्धुदत्ताय प्रियदर्शनां दापयितुमादिशत् । खेचराश्च बन्धुदत्तमादाय कौशाम्ब्यां गत्वा पार्श्वप्रभुचैत्यमण्डिते बहिरुद्यानेऽवात्सुः । तत्र बन्धुदत्तः खेचरैः सह पार्श्व साधूंश्च ववन्दे, धर्मदेशनां चाऽशृणोत् । तत्राऽऽगतो जिनदत्तश्च प्रार्थ्य बन्धुदत्तं सखेचरं स्वगृहमनयत् । ततः खेचरा ऊचुः'तीर्थयात्रोपक्रमेण वयं रत्नाद्रेर्निर्गता उज्जयन्ताद्रिं गता नेमिनमवन्दिष्महि, तत्राऽनेन बन्धुदत्तेन साधर्मिकवात्सल्याद् भोजनादिना सत्कृता: । अयं धर्मिष्ठो भार्याविहीन इत्यमुना सहाऽस्माकमधिका प्रीतिरभूत् । इह च श्रीपार्श्वं वन्दितुं वयमागताः, स्नेहाच्च बन्धुदत्तोपीहाऽऽगतः । ततो जिनदत्तोऽयं मत्कन्यायोग्य इति विचार्य तं स्वपुत्र्या पर्यणाययत् । चित्राङ्गदश्च तत्र जन्ययात्रामादायाऽऽगतवान् । ततो बन्धुदत्तमनुशिष्य चित्राङ्गदो निजं स्थानं ययौ । बन्धुदत्तस्तु तत्र प्रियदर्शनया सह रममाणोऽस्थात् ।
अथ स तत्र श्रीपार्श्वनाथस्य रथयात्रामकारयत् । चत्वारि वर्षाणि च धर्मलीनस्तत्राऽतिष्ठत् । काले गच्छति च प्रियदर्शना गर्भं दधौ । ततः सा स्वप्ने मुखे प्रविशन्तं गजं ददर्श । अन्यदा च
नवमं पर्व चतुर्थः सर्गः
२६७
बन्धुदत्तः स्वस्थानगमनेच्छां निजपत्नीं कथयामास । तया च कथितो जिनदत्तः प्रचुरेण धनेन प्रियदर्शनया सह तं व्यसृजत् । नागपुरीं यास्यामीत्याघोष्य सह प्रस्थितान् जनान् निजबन्धुवद् विधाय शनैर्गच्छन् स पद्माख्यामटवीं प्राप । तत्र स सार्थं रक्षन् त्रिभिर्दिनैस्तद् वनं लङ्घित्वा कस्याऽपि सरस्तीरे सार्थं निवासया
मास ।
तत्र रात्रेश्वरमे प्रहरे पल्लीशश्चण्डसेनोऽवस्कन्दं ददौ । भटाश्च सार्थसर्वस्वं प्रियदर्शनां चाऽऽदाय चण्डसेनाय समर्पयामासुः । स च प्रियदर्शनां दीनवदनां निरीक्ष्येनां स्वस्थानं प्रापयामीति चिन्तयन् पार्श्वस्थां चूतलताचेटीं 'केयं कस्ये' त्यादिकमपृच्छत् । तस्याश्च तस्याः पित्रादिकं श्रुत्वा मूच्छितः स लब्धसंज्ञः पल्लीशः प्रियदर्शनामुवाचप्राक् त्वत्पित्रा जीवितोऽस्मि, मा भैषीः, मूलतो वृत्तं श्रृणु
अहं प्रसिद्धश्चौरराजश्चौर्याय निर्गतो रात्रौ वत्सदेशे गिरिग्रामे चौरैर्वृतो मद्यं पिबन् रक्षकैर्दृष्ट्वा बद्ध्वा च मानभङ्गनृपायाऽर्पितः । नृपेण वधायाऽऽदिष्टश्च नीयमान: पौषधान्ते पारणार्थं गच्छता दयालुना त्वत्पित्रा मोचितोऽस्मि । तव पिता च वस्त्राणि वित्तं च दत्त्वा मां व्यसृजत् । त्वमुपकारिसुताऽसि कथय किं करवाणि' । ततः प्रियदर्शनोवाच- 'पति बन्धुदत्तं मेलय' । पल्लीच तथेत्युक्त्वा प्रियदर्शनां गृहे नीत्वा बन्धुदत्तं द्रष्टुं निर्जगाम ।
इतश्च बन्धुदत्तः प्रियया वियुक्तो हिन्तालवनमध्यस्थोऽचिन्तयत्'मया विरहिता सैकदिनमपि जीवितुं नोत्सहते मम प्रिया, ततः सा मृता भवेत् । अहं कया प्रत्याशयाऽतः परं जीवामि तन्ममाऽपि मरणमेव शरणम्' । सप्तच्छदतरावुद्बन्धनेन प्राणांस्त्यजामि' । ततः स सप्तच्छदतरुसमीपं प्राप्याऽग्रे महासरसि प्रियावियोगाद् दुःखितं