________________
२६५
२६४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्यादिकं पोतवाहान् पप्रच्छुः । ते चाऽन्यथा ब्रुवन्तः क्षुभिताश्चाऽऽयुक्तरुपलक्षिताः । ततस्तैः सागरदत्त आशु तत्राऽहूतः । ते पोतवाहाश्च सागरदत्तं प्रेक्ष्य भीता नत्वोचुः-'अस्माभिर्दुष्कर्म विहितं, तथाऽपि त्वं सुपुण्येन स्वेन रक्षितोऽसि, वयं वध्यकोटि प्राप्ताः, तदुचितं कुरुष्व' । ततो दयालुः सागरदत्तस्तान् राजपुरुषेभ्योऽरक्षयत् । किञ्चित् पाथेयं प्रदाय तान् विससर्ज च । पुण्यवानयमिति स राज्ञोऽतिमानितो जातः । तथा स पोतस्थभाण्डेन प्रचुरं द्रव्यमुपार्जितवान् । ___ अथ स दानं दत्त्वा रत्लैजिनप्रतिमां चिकीर्षुर्धर्माचार्यानपृच्छत् । तेषां मतिभेदाच्च स केनाऽप्याप्तेनोपदिष्टस्तपश्चकार । अष्टमान्ते च काऽपि देवता तीर्थकरप्रतिमामदर्शयत् । एषा पारमार्थिकीत्युक्त्वा च सा तिरोदधे । सागरदत्तश्च हृष्टस्तां जिनमूर्ति स्वर्णवर्णां साधूनामदर्शयत् । साधुभ्यो धर्मं श्रुत्वा च श्रावको भूत्वा स तान्'केन विधिना जिनमूर्तिः प्रतिष्ठाप्ये ति पप्रच्छ । ततस्ते ऊचुः-पुण्ड्रवर्धने श्रीपार्श्वः समवसृतोऽस्ति, तं पृच्छ' ।
ततः सागरदत्तो गत्वा नत्वा रत्नप्रतिमोचितविधि पार्श्वप्रभु पप्रच्छ । प्रभुश्च निजं समवसरणमुद्दिश्य सर्वं विधि कथयामास । तत: सागरदत्तो जिनोक्तविधिना जिनप्रतिमा स्थापयित्वा क्रमात् प्राव्राजीत् । प्रभुश्च सुरा-ऽसुरैः सेव्यमानोऽन्यत्र ययौ । ___ इतश्च नागपुरपुरे यशस्वी सुरतेजा नृपो बभूव । तस्य चेभ्यो धनपतिः प्रियोऽभवत् । तस्य धनपतेः पत्नी शीलवती सुन्दरी नाम । तयोश्च बन्धुदत्तो नाम पुत्रो विनीतो गुणवान् युवा च बभूव । वत्साख्ये विजये च कौशाम्बीनगरे शत्रुन्तपो मानभङ्गो नाम
नवमं पर्व - चतुर्थः सर्गः नृपोऽभवत् । तत्र जिनधर्मरत इभ्यो जिनदत्तस्तद्भार्या वसुमती तयोः पुत्री प्रियदर्शना चाऽऽसन् । तस्याः प्रियदर्शनायाश्च विद्याधरस्याऽङ्गदस्य पुत्री जिनधर्मरता मृगाङ्कलेखा सखी बभूव । तयोश्च द्वयोर्देवपूजादिभिर्दिनानि व्यतियन्ति स्म ।
अन्यदा च भिक्षार्थमागतेनैकेन मुनिना प्रियदर्शनामुद्दिश्याऽन्यस्य साधो रियं पुत्रं जनयित्वा प्रव्रजिष्यती'ति कथितम् । मृगाङ्कलेखा च तच्छ्रुत्वा मुमुदे । किन्तु तद्वृत्तं कस्याऽपि नाऽऽख्यत् ।
धनपतिश्च स्वपुत्राय नागपुरीश्रेष्ठिनो वसुनन्दात् पुत्री चन्द्रलेखामयाचत स च ददौ । शुभे मुहूर्ते च बन्धुदत्तस्य चन्द्रलेखया समहोत्सवं विवाहोऽभूत् । द्वितीयदिने एव च सा सर्पण दष्टा व्यपद्यत । एवमेव तस्य कर्मविपाकवशात् षड्भार्या ऊढमात्राः सर्पण दष्टा व्यपद्यन्त । तेन च कोऽपि बन्धुदत्ताय कन्यां नाऽदात् । स च भार्याचिन्तया दिने दिने कृष्णपक्षे चन्द्र इव क्षीयते स्म ।
धनपतिश्च 'चिन्तयाऽसौ मरिष्यत्येव, तदेनं व्यापारे क्षिपामी'ति विचार्य सिंहलादिषु व्यवहत्तु बन्धुदत्तं समादिशत् । ततः स पित्राज्ञया भाण्डान्यादाय पोतेन जलधि तीर्वा सिंहलं प्राप्योपदाभि: सिंहलेशं प्रसाद्य शुल्कममोचयत् । तत्र भाण्डानि विक्रीय यथेष्टं लाभं प्राप्य प्रतिभाण्डानि क्रीत्वा स्वपुरीं प्रस्थितौ वाप्यां स्नात्वा चूतोद्याने स्वादूनि चूतान्यास्वादयामास । एवं फलाहारेणैव गच्छन् रलपर्वतं प्राप्य तत्राऽऽरूढो रत्नमयं चैत्यं ददर्श सः । तत्र प्रविश्याऽरिष्टनेमिनः प्रतिमा वन्दित्वा तत्रैव स्थितानष्टौ महामुनीन् ववन्दे स: । ततो ज्येष्ठमुनिना पृष्टः स सर्वं स्वोदन्तमादितः कथयामास । ततो मुनिना प्रबोधित: स जिनधर्म प्रपेदे ।