________________
चतुर्थः सर्गः
अथ लोकानुग्रहार्थं विहरन् पार्श्वप्रभुः पृथिवीतिलककल्पे पुण्ड्रदेशे समागतः । इतश्च तदानीं पूर्वदेशे ताम्रलिप्त्यां पुरि कलाकुशलस्तरुणः सागरदत्तो नाम वणिक्पुत्रो जातजातिस्मरणो विरक्तो रूपवतीमपि स्त्रियं परिणेतुं नैच्छत् । स हि पूर्वजन्मनि विप्रोऽसत्या भार्यया दत्तविषो नष्टसंज्ञोऽन्यत्र क्वचित् त्यक्तः । तदा गोकुलिन्या जीवितः प्रव्रज्य तपस्तप्त्वा विपद्य च जातिस्मरः श्रेष्ठिपुत्रो जातः सदा स्त्रीविरक्तोऽभवत् । गोकुलिनी च लोकधर्मपरायणा विपद्य तस्यामेव पुरि रूपवती वणिक्पुत्री जाता । एतस्यां सागरदत्तस्य प्रीतिः स्यादिति सम्भाव्य बन्धुभिस्तदर्थं याचिता सा सगौरवं प्राप्ता च । किन्तु तस्यामपि सागरदत्तस्य मनो न रेमे । स पूर्वजन्मपरिचयवशात् स्त्रीर्यमदूतीरिवाऽमन्यत ।
ततः सा वणिक्पुत्री दध्यौ - 'अयं कोऽपि जातिस्मरः पूर्वजन्मनि कयाऽपि कुलटया च्छलितो लक्ष्यते, तदेवं स्त्रीविमुखोऽस्तीति हृदि विचार्य श्लोकं पत्रे लिखित्वा सा सागरदत्तं प्रति प्रेषीत् । स च तत्पत्रं वाचयामास - 'पायसदग्धस्य पुरुषस्य दधित्यागोऽयुक्तः, स्वल्पे जले जायमानाः पूतरा दुग्धे न जायन्ते । तच्छ्लोकस्यैवं भावार्थं विचारयन् सोऽपि श्लोकं लिखित्वा प्रेषयामास ।
नवमं पर्व चतुर्थः सर्गः
२६३
साऽपि तद् वाचयामास - 'स्त्री कुपात्रे रमते, नदी नीचं गच्छति, मेघो गिरौ वर्षति, लक्ष्मीर्निर्गुणं' श्रयति । एवं तच्छ्लोकभावार्थं विचार्य सा पुनस्तद्बोधार्थं श्लोकं लिखित्वा प्रेषयामास - 'वाचिको दोषः सर्वत्र सम्भाव्यते, न च सर्वस्त्याज्यः, सूर्योऽनुरक्तां सन्ध्यां कदाऽपि न त्यजति' । एवं भावार्थकं तच्छ्लोकं वाचयित्वा सागरदत्तो जातरागस्तां परिणीय यथेच्छं तया सह भोगान् बुभुजे ।
अथाऽन्यदा सागरदत्तस्य श्वशुरः सपुत्रो वाणिज्यार्थं पाटलापथं नगरमगात् । श्रेष्ठी सागरदत्तोऽपि व्यवहरन् महत्तरेण प्रवहणेन कदाचित् परतीरमगात् । तस्य प्रवहणं च सागरे सप्तकृत्वोऽभज्यत । तेन च मन्दभाग्योऽसाविति लोकैरुपहसितः प्रतिनिवृत्त्याऽर्थापचयेऽपि प्रयतमानो भ्रमन्नेकदा कमपि बालकं कूपाज्जलमाकर्षन्तं ददर्श स बालश्च सप्तकृत्वो जलाकर्षणेऽसफलोऽष्टमे वारे तत्र सफलोऽभूत् । तेन प्राप्तप्रतिबोध: स पुनरुद्यमाय जातोत्साह : शकुनग्रन्थिं बद्ध्वा पोतेन सिंहलद्वीपं प्रस्थितो वायुवशाद् रत्नद्वीपं प्राप । तत्र च स भाण्डानि विक्रीय रत्नराशीन् क्रीत्वा तैः पोतमापूर्य स्वपुरीं प्रति प्रस्थितः रत्नलुब्धैः पोतवाहकै रात्रौ जलधौ क्षिप्तः । कथञ्चित् फलकं दैवात् प्राप्य तटमागतः पाटलापथं नगरं गतः श्वशुरेणाऽवलोकितो निजगृहं नीतश्च । तत्र स्नात्वा भुक्त्वा विश्रम्य च सागरदत्तः सर्वं वृत्तान्तं श्वशुरस्याऽऽख्यत् । ततः श्वशुर उवाच - 'त्वमत्रैव तिष्ठ, ते पोतवाहा बन्धुजनभयात् ताम्रलिप्त्यां न यास्यन्ति, किन्त्वत्रैवैष्यन्ति', सागरदत्तश्च तत् स्वीचकार । तथा स श्वशुरद्वारा तद्वृत्तान्तं नृपाय निवेदयामास ।
तत्प्रवहणं चाऽन्यदा तीरे समागतं सागरदत्तकथितलक्षणैरायुक्तपुरुषैर्ज्ञातम् । ततस्ते कोऽत्र भाण्डपतिः, किं किमत्र, कियदि'